Dharmasthan

India's Digital Home for Devotion

Dharmasthan
Bhakti LibraryEvents CalendarDharmaVerseJap CounterDharma AIContestsSansthas
HOST ROOM
MandalSign In
Dharmasthan

India's Digital Home for Devotion.

|| भक्ति· से ही शांति है ||

Hindu prayers, aarti and bhajan lyrics, mandals and festivals across India.

Explore

  • Bhakti Library
  • Aartis
  • Bhajans
  • Devotional Songs
  • Mantras
  • Stotrams
  • Chalisas
  • Shlokas
  • Stutis & Ashtakams
  • Vrat Kathas
  • Marathi Prayers
  • Hindi Prayers
  • Sanskrit Prayers
  • Videos
  • Hindu Stories
  • Holy Books
  • DharmaVerse
  • Events Calendar
  • By Deity
  • Festival Playlists
  • Upcoming Festivals
  • Jap Counter
  • Contests
  • Events

For Mandals

  • Mandal Login
  • Register Mandal
  • Discover Mandals
  • Donation Campaigns

About

  • About Us
  • Contact
  • Privacy Policy
  • Terms of Service
  • Consent Policy
  • Platform Admin

© 2026 Dharmasthan - devotion, in one place

Made with devotion in India

Home
Bhakti Library
Jap
DharmaVerse
  1. Home
  2. Bhakti Library
  3. Holy Books
  4. Valmiki Ramayana
  5. Ayodhya Kanda
  6. सर्गः ६४

श्रीमद्वाल्मीकीय रामायणम् · Ayodhya Kanda

सर्गः ६४

Ask AI

श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुःषष्ठितमः सर्गः ॥२-६४॥

वधमप्रतिरूपम् तु महर्षेस्तस्य राघवः ।विलपन्ने व धर्मात्मा कौसल्याम् पुन रब्रवीत् ॥२-६४-१॥

तत् अज्ञानान् महत् पापम् कृत्वा सम्कुलित इन्द्रियः ।एकः तु अचिन्तयम् बुद्ध्या कथम् नु सुकृतम् भवेत् ॥२-६४-२॥

ततः तम् घटम् आदय पूर्णम् परम वारिणा ।आश्रमम् तम् अहम् प्राप्य यथा आख्यात पथम् गतः ॥२-६४-३॥

तत्र अहम् दुर्बलाव् अन्धौ वृद्धाव् अपरिणायकौ ।अपश्यम् तस्य पितरौ लून पक्षाव् इव द्विजौ ॥२-६४-४॥

तन् निमित्ताभिर् आसीनौ कथाभिर् अपरिक्रमौ ।ताम् आशाम् मत् कृते हीनाव् उदासीनाव् अनाथवत् ॥२-६४-५॥

शोकोपहतचित्तश्च भयसम्त्रस्तचेतनः ।तच्चाश्रमपदम् गत्वा भूयः शोकमहम् गतः ॥२-६४-६॥

पद शब्दम् तु मे श्रुत्वा मुनिर् वाक्यम् अभाषत ।किम् चिरायसि मे पुत्र पानीयम् क्षिप्रम् आनय ॥२-६४-७॥

यन् निमित्तम् इदम् तात सलिले क्रीडितम् त्वया ।उत्कण्ठिता ते माता इयम् प्रविश क्षिप्रम् आश्रमम् ॥२-६४-८॥

यद् व्यलीकम् कृतम् पुत्र मात्रा ते यदि वा मया ।न तन् मनसि कर्तव्यम् त्वया तात तपस्विना ॥२-६४-९॥

त्वम् गतिस् तु अगतीनाम् च चक्षुस् त्वम् हीन चक्षुषाम् ।समासक्ताः त्वयि प्राणाः किम्चिन् नौ न अभिभाषसे ॥२-६४-१०॥

मुनिम् अव्यक्तया वाचा तम् अहम् सज्जमानया ।हीन व्यन्जनया प्रेक्ष्य भीतः भीतैव अब्रुवम् ॥२-६४-११॥

मनसः कर्म चेष्टाभिर् अभिसम्स्तभ्य वाग् बलम् ।आचचक्षे तु अहम् तस्मै पुत्र व्यसनजम् भयम् ॥२-६४-१२॥

क्षत्रियो अहम् दशरथो न अहम् पुत्रः महात्मनः ।सज्जन अवमतम् दुह्खम् इदम् प्राप्तम् स्व कर्मजम् ॥२-६४-१३॥

भगवमः च अपहस्तः अहम् सरयू तीरम् आगतः ।जिघाम्सुः श्वा पदम् किम्चिन् निपाने वा आगतम् गजम् ॥२-६४-१४॥

ततः श्रुतः मया शब्दो जले कुम्भस्य पूर्यतः ।द्विपो अयम् इति मत्वा हि बाणेन अभिहतः मया ॥२-६४-१५॥

गत्वा नद्याः ततः तीरम् अपश्यम् इषुणा हृदि ।विनिर्भिन्नम् गत प्राणम् शयानम् भुवि तापसम् ॥२-६४-१६॥

भगवन् शब्दम् आलक्ष्य मया गज जिघाम्सुना ।विसृष्टः अम्भसि नाराचः तेन ते निहतः सुतः ॥२-६४-१७॥

ततस्तस्यैव वचनादुपेत्य परितप्यतः ।स मया सहसा बण उद्धृतो मर्मतस्तदा ॥२-६४-१८॥

स च उद्धृतेन बाणेन तत्र एव स्वर्गम् आस्थितः ।भगवन्ताव् उभौ शोचन्न् अन्धाव् इति विलप्य च ॥२-६४-१९॥

अज्ञानात् भवतः पुत्रः सहसा अभिहतः मया ।शेषम् एवम् गते यत् स्यात् तत् प्रसीदतु मे मुनिः ॥२-६४-२०॥

स तत् श्रुत्वा वचः क्रूरम् निह्श्वसन् शोक कर्शितः ।नाशकत्तीव्रमायासमकर्तुम् भगवानृषिः ॥२-६४-२१॥

सबाष्पपूर्णवदनो निःश्वसन् शोककर्शितः ।माम् उवाच महा तेजाः कृत अन्जलिम् उपस्थितम् ॥२-६४-२२॥

यद्य् एतत् अशुभम् कर्म न स्म मे कथयेः स्वयम् ।फलेन् मूर्धा स्म ते राजन् सद्यः शत सहस्रधा ॥२-६४-२३॥

क्षत्रियेण वधो राजन् वानप्रस्थे विशेषतः ।ज्ञान पूर्वम् कृतः स्थानाच् च्यावयेद् अपि वज्रिणम् ॥२-६४-२४॥

सप्तधा तु फलेन्मूर्धा मुनौ तपसि तिष्ठति ।ज्ञानाद्विसृजतः शस्त्रम् तादृशे ब्रह्मचारिणि ॥२-६४-२५॥

अज्ञानाद्द् हि कृतम् यस्मात् इदम् तेन एव जीवसि ।अपि हि अद्य कुलम् नस्यात् राघवाणाम् कुतः भवान् ॥२-६४-२६॥

नय नौ नृप तम् देशम् इति माम् च अभ्यभाषत ।अद्य तम् द्रष्टुम् इच्चावः पुत्रम् पश्चिम दर्शनम् ॥२-६४-२७॥

रुधिरेण अवसित अन्गम् प्रकीर्ण अजिन वाससम् ।शयानम् भुवि निह्सम्ज्ञम् धर्म राज वशम् गतम् ॥२-६४-२८॥

अथ अहम् एकः तम् देशम् नीत्वा तौ भृश दुह्खितौ ।अस्पर्शयम् अहम् पुत्रम् तम् मुनिम् सह भार्यया ॥२-६४-२९॥

तौ पुत्रम् आत्मनः स्पृष्ट्वा तम् आसाद्य तपस्विनौ ।निपेततुः शरीरे अस्य पिता च अस्य इदम् अब्रवीत् ॥२-६४-३०॥

न न्व् अहम् ते प्रियः पुत्र मातरम् पश्य धार्मिक ।किम् नु न आलिन्गसे पुत्र सुकुमार वचो वद ॥२-६४-३१॥

न त्वहम् ते प्रियः पुत्र मातरम् पस्य धार्मिक ।किम् नु नालिङ्गसे पुत्र सुकुमार वचो वद ॥२-६४-३२॥

कस्य वा अपर रात्रे अहम् श्रोष्यामि हृदयम् गमम् ।अधीयानस्य मधुरम् शास्त्रम् वा अन्यद् विशेषतः ॥२-६४-३३॥

को माम् सम्ध्याम् उपास्य एव स्नात्वा हुत हुत अशनः ।श्लाघयिष्यति उपासीनः पुत्र शोक भय अर्दितम् ॥२-६४-३४॥

कन्द मूल फलम् हृत्वा को माम् प्रियम् इव अतिथिम् ।भोजयिष्यति अकर्मण्यम् अप्रग्रहम् अनायकम् ॥२-६४-३५॥

इमाम् अन्धाम् च वृद्धाम् च मातरम् ते तपस्विनीम् ।कथम् पुत्र भरिष्यामि कृपणाम् पुत्र गर्धिनीम् ॥२-६४-३६॥

तिष्ठ मा मा गमः पुत्र यमस्य सदनम् प्रति ।श्वो मया सह गन्ता असि जनन्या च समेधितः ॥२-६४-३७॥

उभाव् अपि च शोक आर्ताव् अनाथौ कृपणौ वने ।क्षिप्रम् एव गमिष्यावः त्वया हीनौ यम क्षयम् ॥२-६४-३८॥

ततः वैवस्वतम् दृष्ट्वा तम् प्रवक्ष्यामि भारतीम् ।क्षमताम् धर्म राजो मे बिभृयात् पितराव् अयम् ॥२-६४-३९॥

दातुमर्हति धर्मात्मा लोकपालो महायशाः ।ईदृषस्य ममाक्षय्या मेकामभयदक्षिणाम् ॥२-६४-४०॥

अपापो असि यथा पुत्र निहतः पाप कर्मणा ।तेन सत्येन गच्च आशु ये लोकाः शस्त्र योधिनाम् ॥२-६४-४१॥

यान्ति शूरा गतिम् याम् च सम्ग्रामेष्व् अनिवर्तिनः ।हताः तु अभिमुखाः पुत्र गतिम् ताम् परमाम् व्रज ॥२-६४-४२॥

याम् गतिम् सगरः शैब्यो दिलीपो जनमेजयः ।नहुषो धुन्धुमारः च प्राप्ताः ताम् गच्च पुत्रक ॥२-६४-४३॥

या गतिः सर्व साधूनाम् स्वाध्यायात् पतसः च या ।भूमिदस्य आहित अग्नेः चएक पत्नी व्रतस्य च ॥२-६४-४४॥

गो सहस्र प्रदातृऋणाम् या या गुरुभृताम् अपि ।देह न्यास कृताम् या च ताम् गतिम् गच्च पुत्रक ॥२-६४-४५॥

न हि तु अस्मिन् कुले जातः गच्चति अकुशलाम् गतिम् ।स तु यास्यति येन त्वम् निहतो मम बान्धवः ॥२-६४-४६॥

एवम् स कृपणम् तत्र पर्यदेवयत असकृत् ।ततः अस्मै कर्तुम् उदकम् प्रवृत्तः सह भार्यया ॥२-६४-४७॥

स तु दिव्येन रूपेण मुनि पुत्रः स्व कर्मभिः ।स्वर्गमाध्यारुहत् ख्षिप्रम् शक्रेण सह खर्मवित् ॥२-६४-४८॥

आबभाषे च वृद्धौ तौ सह शक्रेण तापसः ।आश्वास्य च मुहूर्तम् तु पितरौ वाक्यम् अब्रवीत् ॥२-६४-४९॥

स्थानम् अस्मि महत् प्राप्तः भवतोह् परिचारणात् ।भवन्ताव् अपि च क्षिप्रम् मम मूलम् उपैष्यतः ॥२-६४-५०॥

एवम् उक्त्वा तु दिव्येन विमानेन वपुष्मता ।आरुरोह दिवम् क्षिप्रम् मुनि पुत्रः जित इन्द्रियः ॥२-६४-५१॥

स कृत्वा तु उदकम् तूर्णम् तापसः सह भार्यया ।माम् उवाच महा तेजाः कृत अन्जलिम् उपस्थितम् ॥२-६४-५२॥

अद्य एव जहि माम् राजन् मरणे न अस्ति मे व्यथा ।यत् शरेण एक पुत्रम् माम् त्वम् अकार्षीर् अपुत्रकम् ॥२-६४-५३॥

त्वया तु यद् अविज्ञानान् निहतः मे सुतः शुचिः ।तेन त्वाम् अभिशप्स्यामि सुदुह्खम् अतिदारुणम् ॥२-६४-५४॥

पुत्र व्यसनजम् दुह्खम् यद् एतन् मम साम्प्रतम् ।एवम् त्वम् पुत्र शोकेन राजन् कालम् करिष्यसि ॥२-६४-५५॥

अज्ञानात्तु हतो यस्मात् क्षत्रियेण त्वया मुनिः ।तस्मात्त्वाम् नाविशत्याशु ब्रह्महत्या नराधिप ॥२-६४-५६॥

त्वामप्येतादृशो भावः क्षिप्रमेव गमिष्यति ।जीवितान्तकरो घोरो दातारमिव दक्षिणा ॥२-६४-५७॥

एवम् शापम् मयि न्यस्य विलप्य करुणम् बहु ।चितामारोप्य देहम् तन्मिथुनम् स्वर्गमभ्ययात् ॥२-६४-५८॥

तदेतच्चिन्तयानेन स्मऋतम् पापम् मया स्वयम् ।तदा बाल्यात्कृतम् देवि शब्दवेध्यनुकर्षिणा ॥२-६४-५९॥

तस्यायम् कर्मणो देवि विपाकः समुपस्थितः ।अपथ्यैः सह सम्भुक्ते व्याधिरन्नरसे यथा ॥२-६४-६०॥

तस्मान् माम् आगतम् भद्रे तस्य उदारस्य तत् वचः ।यद् अहम् पुत्र शोकेन सम्त्यक्ष्याम्य् अद्य जीवितम् ॥२-६४-६१॥

चक्षुर्भ्याम् त्वाम् न पश्यामि कौसल्ये साधु माम्स्फृश ।इत्युक्त्वा स रुदम्स्त्रस्तो भार्यामाह च भूमिपः ॥२-६४-६२॥

एतन्मे सदृशम् देवि यन्मया राघवे कृतम् ।सदृशम् तत्तु तस्यैव यदनेन कृतम् मयि ॥२-६४-६३॥

दुर्वृत्तमपि कः पुत्रम् त्यजेद्भुवि विचक्षणः ।कश्च प्रव्राज्यमानो वा नासूयेत्पितरम् सुतः ॥२-६४-६४॥

यदि माम् सम्स्पृशेद् रामः सकृदद्य लभेत वा ।यमक्षयमनुप्राप्ता द्रक्ष्यन्ति न हि मानवाः ॥२-६४-६५॥

चक्षुषा त्वाम् न पश्यामि स्मृतिर् मम विलुप्यते ।दूता वैवस्वतस्य एते कौसल्ये त्वरयन्ति माम् ॥२-६४-६६॥

अतः तु किम् दुह्खतरम् यद् अहम् जीवित क्षये ।न हि पश्यामि धर्मज्ञम् रामम् सत्य पराक्यमम् ॥२-६४-६७॥

तस्यादर्शनजः शोकः सुतस्याप्रतिकर्मणः ।उच्चोषयति मे प्राणान्वारि स्तोकमिवातवः ॥२-६४-६८॥

न ते मनुष्या देवाः ते ये चारु शुभ कुण्डलम् ।मुखम् द्रक्ष्यन्ति रामस्य वर्षे पन्च दशे पुनः ॥२-६४-६९॥

पद्म पत्र ईक्षणम् सुभ्रु सुदम्ष्ट्रम् चारु नासिकम् ।धन्या द्रक्ष्यन्ति रामस्य तारा अधिप निभम् मुखम् ॥२-६४-७०॥

सदृशम् शारदस्य इन्दोह् फुल्लस्य कमलस्य च ।सुगन्धि मम नाथस्य धन्या द्रक्ष्यन्ति तन् मुखम् ॥२-६४-७१॥

निवृत्त वन वासम् तम् अयोध्याम् पुनर् आगतम् ।द्रक्ष्यन्ति सुखिनो रामम् शुक्रम् मार्ग गतम् यथा ॥२-६४-७२॥

कौसल्ये चित्त मोहेन हृदयम् सीदतीव मे ।वेदये न च समुक्तान् शब्दस्पर्शरसानहम् ॥२-६४-७३॥

चित्तनाशाद्विपद्यन्ते सर्वाण्येवेन्द्रियाणि मे ।क्षिणस्नेहस्य दीपस्य सम्सक्ता रश्मयो यथा ॥२-६४-७४॥

अयम् आत्म भवः शोको माम् अनाथम् अचेतनम् ।सम्सादयति वेगेन यथा कूलम् नदी रयः ॥२-६४-७५॥

हा राघव महा बाहो हा मम आयास नाशन ।हा पितृप्रिय मे नाथ हाद्य क्वासि गतः सुत ॥२-६४-७६॥

हा कौसल्ये नशिष्यामि हा सुमित्रे तपस्विनि ।हा नृशम्से ममामित्रे कैकेयि कुलपाम्सनि ॥२-६४-७७॥

इति रामस्य मातुश्च सुमित्रायाश्च सन्निधौ ।राजा दशरथः शोचन् जीवित अन्तम् उपागमत् ॥२-६४-७८॥

यथा तु दीनम् कथयन् नर अधिपः ।प्रियस्य पुत्रस्य विवासन आतुरः ।गते अर्ध रात्रे भृश दुह्ख पीडितः ।तदा जहौ प्राणम् उदार दर्शनः ॥२-६४-७९॥

इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे चतुःषष्ठितमः सर्गः ॥२-६४॥

Valmiki Ramayana by Maharshi Valmiki. Sanskrit text of all seven kandas (645 sargas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Ramayana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.

सर्गः ६३सर्गः ६५

Related on Dharmasthan

  • Valmiki Ramayana: contents and about
  • Why is Ram Navami celebrated?
  • Why is Dussehra celebrated?
  • Why is Diwali celebrated?
  • Why is Hanuman Jayanti celebrated?
  • Ram bhajans and aartis
  • Hanuman bhajans and chalisa
  • Shri Ramchandra Kripalu