श्रीमद्वाल्मीकीय रामायणम् · Aranya Kanda
सर्गः ६३
Ask AIश्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे त्रिषष्ठितमः सर्गः ॥३-६३॥
स राजपुत्रः प्रियया विहीनःशोकेन मोहेन च पीड्यमानः।विषादयन् भ्रातरमार्तरूपोभूयो विषादं प्रविवेश तीव्रम्॥ १॥
स लक्ष्मणं शोकवशाभिपन्नंशोके निमग्नो विपुले तु रामः।उवाच वाक्यं व्यसनानुरूप-मुष्णं विनिःश्वस्य रुदन् सशोकम्॥ २॥
न मद्विधो दुष्कृतकर्मकारीमन्ये द्वितीयोऽस्ति वसुंधरायाम्।शोकानुशोको हि परम्परायामामेति भिन्दन् हृदयं मनश्च॥ ३॥
पूर्वं मया नूनमभीप्सितानिपापानि कर्माण्यसकृत्कृतानि।तत्रायमद्यापतितो विपाकोदुःखेन दुःखं यदहं विशामि॥ ४॥
राज्यप्रणाशः स्वजनैर्वियोगःपितुर्विनाशो जननीवियोगः।सर्वाणि मे लक्ष्मण शोकवेग-मापूरयन्ति प्रविचिन्तितानि॥ ५॥
सर्वं तु दुःखं मम लक्ष्मणेदंशान्तं शरीरे वनमेत्य क्लेशम्।सीतावियोगात् पुनरप्युदीर्णंकाष्ठैरिवाग्निः सहसोपदीप्तः॥ ६॥
सा नूनमार्या मम राक्षसेनह्यभ्याहृता खं समुपेत्य भीरुः।अपस्वरं सुस्वरविप्रलापाभयेन विक्रन्दितवत्यभीक्ष्णम्॥ ७॥
तौ लोहितस्य प्रियदर्शनस्यसदोचितावुत्तमचन्दनस्य।वृत्तौ स्तनौ शोणितपङ्कदिग्धौनूनं प्रियाया मम नाभिपातः॥ ८॥
तच्छ्लक्ष्णसुव्यक्तमृदुप्रलापंतस्या मुखं कुञ्चितकेशभारम्।रक्षोवशं नूनमुपागतायान भ्राजते राहुमुखे यथेन्दुः॥ ९॥
तां हारपाशस्य सदोचितान्तांग्रीवां प्रियाया मम सुव्रतायाः।रक्षांसि नूनं परिपीतवन्तिशून्ये हि भित्त्वा रुधिराशनानि॥ १०॥
मया विहीना विजने वने सारक्षोभिराहृत्य विकृष्यमाणा।नूनं विनादं कुररीव दीनासा मुक्तवत्यायतकान्तनेत्रा॥ ११॥
अस्मिन् मया सार्धमुदारशीलाशिलातले पूर्वमुपोपविष्टा।कान्तस्मिता लक्ष्मण जातहासात्वामाह सीता बहुवाक्यजातम्॥ १२॥
गोदावरीयं सरितां वरिष्ठाप्रिया प्रियाया मम नित्यकालम्।अप्यत्र गच्छेदिति चिन्तयामिनैकाकिनी याति हि सा कदाचित्॥ १३॥
पद्मानना पद्मपलाशनेत्रापद्मानि वानेतुमभिप्रयाता।तदप्ययुक्तं नहि सा कदाचि-न्मया विना गच्छति पङ्कजानि॥ १४॥
कामं त्विदं पुष्पितवृक्षषण्डंनानाविधैः पक्षिगणैरुपेतम्।वनं प्रयाता नु तदप्ययुक्त-मेकाकिनी सातिबिभेति भीरुः॥ १५॥
आदित्य भो लोककृताकृतज्ञलोकस्य सत्यानृतकर्मसाक्षिन्।मम प्रिया सा क्व गता हृता वाशंसस्व मे शोकहतस्य सर्वम्॥ १६॥
लोकेषु सर्वेषु न नास्ति किंचिद्यत् ते न नित्यं विदितं भवेत् तत्।शंसस्व वायो कुलपालिनीं तांमृता हृता वा पथि वर्तते वा॥ १७॥
इतीव तं शोकविधेयदेहंरामं विसंज्ञं विलपन्तमेव।उवाच सौमित्रिरदीनसत्त्वोन्याय्ये स्थितः कालयुतं च वाक्यम्॥ १८॥
शोकं विसृज्याद्य धृतिं भजस्वसोत्साहता चास्तु विमार्गणेऽस्याः।उत्साहवन्तो हि नरा न लोकेसीदन्ति कर्मस्वतिदुष्करेषु॥ १९॥
इतीव सौमित्रिमुदग्रपौरुषंब्रुवन्तमार्तो रघुवंशवर्धनः।न चिन्तयामास धृतिं विमुक्तवान्पुनश्च दुःखं महदभ्युपागमत्॥ २०॥
इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे त्रिषष्ठितमः सर्गः ॥३-६३॥
Valmiki Ramayana by Maharshi Valmiki. Sanskrit text of all seven kandas (645 sargas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Ramayana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.