सामवेदसंहिता (कौथुमीया) · Purvarchika
षष्ठप्रपाठकः · अष्टमी दशतिः
Ask AIइन्द्रमच्छ सुता इमे वृषणं यन्तु हरयः ।श्रुष्टे जातास इन्दवः स्वर्विदः ॥ ५६६ ॥
प्र धन्वा सोम जागृविरिन्द्रायेन्दो परि स्रव ।द्युमन्तं शुष्ममा भर स्वर्विदं ॥ ५६७ ॥
सखाय आ नि षीदत पुनानाय प्र गायत ।शिशुं न यज्ञैः परि भूषत श्रिये ॥ ५६८ ॥
तं वः सखायो मदाय पुनानमभि गायत ।शिशुं न हव्यैः स्वदयन्त गूर्तिभिः ॥ ५६९ ॥
प्राणा शिशुर्महीनां हिन्वन्नृतस्य दीधितिं ।विश्वा परि प्रिया भुवदध द्विता ॥ ५७० ॥
पवस्व देववीतय इन्दो धाराभिरोजसा ।आ कलशं मधुमान्त्सोम नः सदः ॥ ५७१ ॥
सोमः पुनान ऊर्मिणाव्यं वारं वि धावति ।अग्रे वाचः पवमानः कनिक्रदत् ॥५७२ ॥
प्र पुनानाय वेधसे सोमाय वच उच्यते ।भृतिं न भरा मतिभिर्जुजोषते ॥ ५७३ ॥
गोमन्न इन्दो अश्ववत्सुतः सुदक्ष धनिव ।शुचिं च वर्णमधि गोषु धार्य ॥ ५७४ ॥
अस्मभ्यं त्वा वसुविदमभि वाणीरनूषत ।गोभिष्टे वर्णमभि वासयामसि ॥ ५७५ ॥
पवते हर्यतो हरिरति ह्वरांसि रंह्या ।अभ्यर्ष स्तोतृभ्यो वीरवद्यशः ॥ ५७६ ॥
परि कोशं मधुश्चुतं सोमः पुनानो अर्षति ।अभि वाणीरृषीणां सप्ता नूषत ॥ ५७७ ॥
Samaveda by the Vedic rishis (seers), whose verses the Samaveda gathers to be sung. Sanskrit text of the Kauthuma Samhita (1,875 verses: the Purvarchika with its Aranyaka and Mahanamni verses, and the Uttararchika), as transcribed by the contributors of Sanskrit Wikisource. Verse 1315, missing from its chapter page, is taken from Wikisource’s accented text of the whole Samhita, as printed there.. Source: Sanskrit Wikisource. The Samaveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.