सामवेदसंहिता (कौथुमीया) · Purvarchika
चतुर्थप्रपाठकः · पञ्चमी दशतिः
Ask AIत्यमू षु वाजिनं देवजूतं सहोवानं तरुतारं रथानां ।अरिष्टनेमिं पृतनाजमाशुं स्वस्तये तार्क्ष्यमिहा हुवेम ॥ ३३२ ॥
त्रातारमिन्द्रमवितारमिन्द्रं हवेहवे सुहवं शूरमिन्द्रं ।हुवे नु शक्रं पुरुहूतमिन्द्रमिदं हविर्मघवा वेत्विन्द्रः ॥ ३३३ ॥
यजामह इन्द्रं वज्रदक्षिणं हरीणां रथ्य३ं विव्रतानां ।प्र श्मश्रुभिर्दोधुवदूर्ध्वधा भुवद्वि सेनाभिर्भयमानो वि राधसा ॥ ३३४ ॥
सत्राहणं दाधृषिं तुम्रमिन्द्रं महामपारं वृशभं सुवज्रं ।हन्ता यो वृत्रं सनितोत वाजं दाता मघानि मघवा सुराधाः ॥ ३३५ ॥
यो नो वनुष्यन्नभिदाति मर्त उगणा वा मन्यमानस्तुरो वा ।क्षिधी युधा शवसा वा तमिन्द्राभी ष्याम वृषमणस्त्वोताः ॥ ३३६ ॥
यं वृत्रेषु क्षितय स्पर्धमाना यं युक्तेषु तुरयन्तो हवन्ते ।यं शूरसातौ यमपामुपज्मन्यं विप्रासो वाजयन्ते स इन्द्रः ॥ ३३७ ॥
इन्द्रापर्वता बृहता रथेन वामीरिष आ वहतं सुवीराः ।वीतं हव्यान्यध्वरेषु देवा वर्धेथां गीर्भीरिडया मदन्ता ॥ ३३८ ॥
इन्द्राय गिरो अनिशितसर्गा अपः प्रैरयत्सगरस्य बुध्नात् ।यो अक्षेणेव चक्रियौ शचीभिर्विष्वक्तस्तम्भ पृथिवीमुत द्यां ॥ ३३९ ॥
आ त्वा सखायः सख्या ववृत्युस्तिरः पुरू चिदर्णवां जगम्याः ।पितुर्नपातमा दधित वेधा अस्मिन्क्षये प्रतरां दीद्यानः ॥ ३४० ॥
को अद्य युङ्क्ते धुरि गा ऋतस्य शिमीवतो भामिनो दुर्हृणायून् ।आसन्नेषामप्सुवाहो मयोभून्य एषां भृत्यामृणधत्स जीवात् ॥३४१ ॥
Samaveda by the Vedic rishis (seers), whose verses the Samaveda gathers to be sung. Sanskrit text of the Kauthuma Samhita (1,875 verses: the Purvarchika with its Aranyaka and Mahanamni verses, and the Uttararchika), as transcribed by the contributors of Sanskrit Wikisource. Verse 1315, missing from its chapter page, is taken from Wikisource’s accented text of the whole Samhita, as printed there.. Source: Sanskrit Wikisource. The Samaveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.