सामवेदसंहिता (कौथुमीया) · Purvarchika
चतुर्थप्रपाठकः · द्वितीया दशतिः
Ask AIप्रत्यु अदर्श्यायत्यू३छ् छन्ती दुहिता दिवः ।अपो मही वृणुते चक्षुषा तमो ज्योतिष्कृणोति सूनरि ॥ ३०३ ॥
इमा उ वां दिविष्टय उस्रा हवन्ते अश्विना ।अयं वामह्वेऽवसे शचीवसू विशंविशं हि गच्छथः ॥ ३०४ ॥
कु ष्ठः को वामश्विना तपानो देवा मर्त्यः ।घ्नता वामश्मया क्षपमाणोंशुनेत्थमु आदुन्यथा ॥ ३०५ ॥
अयं वां मधुमत्तमः सुतः सोमो दिविष्टिषु ।तमश्विना पिबतं तिरो अह्न्यं धत्तं रत्नानि दाशुषे ॥ ३०६ ॥
आ त्वा सोमस्य गल्दया सदा याचन्नहं ज्या ।भूर्णिं मृगं न सवनेषु चुक्रुधं क ईशानं न याचिषत् ॥३०७ ॥
अध्वर्यो द्रावया त्वं सोममिन्द्रः पिपासति ।उपो नूनं युयुजे वृष्णा हरी आ च जगाम वृत्रहा ॥ ३०८ ॥
अभी षतस्तदा भरेन्द्र ज्यायः कनीयसः ।पुरूवसुर्हि मघवन्बभूविथ भरेभरे च हव्यः ॥ ३०९ ॥
यदिन्द्र यावतस्त्वमेतावदहमीशीय ।स्तोतारमिद्दधिषे रदावसो न पापत्वाय रंसिषं ॥ ३१० ॥
त्वमिन्द्र प्रतूर्तिष्वभि विश्वा असि स्पृधः ।अशस्तिहा जनिता वृत्रतूरसि त्वं तूर्य तरुष्यतः ॥ ३११ ॥
प्र यो रिरिक्ष ओजसा दिवः सदोभ्यस्परि ।न त्वा विव्याच रज इन्द्र पार्थिवमति विश्वं ववक्षिथ ॥ ३१२ ॥
Samaveda by the Vedic rishis (seers), whose verses the Samaveda gathers to be sung. Sanskrit text of the Kauthuma Samhita (1,875 verses: the Purvarchika with its Aranyaka and Mahanamni verses, and the Uttararchika), as transcribed by the contributors of Sanskrit Wikisource. Verse 1315, missing from its chapter page, is taken from Wikisource’s accented text of the whole Samhita, as printed there.. Source: Sanskrit Wikisource. The Samaveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.