सामवेदसंहिता (कौथुमीया) · Purvarchika
तृतीयप्रपाठकः · दशमी दशतिः
Ask AIइत ऊती वो अजरं प्रहेतारमप्रहितं ।आशुं जेतारं हेतारं रथीतममतूर्तं तुग्रियावृधं ॥ २८३ ॥
मो षु त्वा वाघतश्च नारे अस्मन्नि रीरमन् ।आरात्ताद्वा सधमादं न आ गहीह वा सन्नुप श्रुधि ॥ २८४ ॥
सुनोत सोमपाव्ने सोममिन्द्राय वज्रिणे ।पचता पक्तीरवसे कृणुध्वमित्पृणन्नित्पृणते मयः ॥ २८५ ॥
यः सत्राहा विचर्षणिरिन्द्रं तं हूमहे वयं ।सहस्रमन्यो तुविनृम्ण सत्पते भवा समत्सु नो वृधे ॥ २८६ ॥
शचीभिर्नः शचीवसू दिवानक्तं दिशस्यतं ।मा वां रातिरुप दसत्कदा च नास्मद्रातिः कदा च न ॥ २८७ ॥
यदा कदा च मीढुषे स्तोता जरेत मर्त्यः ।आदिद्वन्देत वरुणं विपा गिरा धर्त्तारं विव्रतानां ॥ २८८ ॥
पाहि गा अन्धसो मद इन्द्राय मेध्यातिथे ।यः सम्मिश्लो हर्योर्यो हिरण्यय इन्द्रो वज्री हिरण्ययः ॥ २८९ ॥
उभयं शृणवच्च न इन्द्रो अर्वागिदं वचः ।सत्राच्या मघवान्त्सोमपीतये धिया शविष्ठ आ गमत् ॥२९० ॥
महे च न त्वाद्रिवः परा शुल्काय दीयसे ।न सहस्राय नायुताये वज्रिवो न शताय शतामघ ॥ २९१ ॥
वस्यां इन्द्रासि मे पितुरुत भ्रातुरभुञ्जतः ।माता च मे छदयथः समा वसो वसुत्वनाय राधसे ॥ २९२ ॥
Samaveda by the Vedic rishis (seers), whose verses the Samaveda gathers to be sung. Sanskrit text of the Kauthuma Samhita (1,875 verses: the Purvarchika with its Aranyaka and Mahanamni verses, and the Uttararchika), as transcribed by the contributors of Sanskrit Wikisource. Verse 1315, missing from its chapter page, is taken from Wikisource’s accented text of the whole Samhita, as printed there.. Source: Sanskrit Wikisource. The Samaveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.