सामवेदसंहिता (कौथुमीया) · Purvarchika
द्वितीयप्रपाठकः · द्वितीया दशतिः
Ask AIप्र मंहिष्ठाय गायत ऋताव्ने बृहते शुक्रशोचिषे ।उपस्तुतासो अग्नये ॥ १०७ ॥
प्र सो अग्ने तवोतिभिः सुवीराभिस्तरति वाजकर्मभिः ।यस्य त्वं सख्यमाविथ ॥ १०८ ॥
तं गूर्धया स्वर्णरं देवासो देवमरतिं दधन्विरे ।देवत्रा हव्यमूहिषे ॥ १०९ ॥
मा नो हृणीथा अतिथिं वसुरग्निः पुरुप्रशस्त एशः ।यः सुहोता स्वध्वरः ॥ ११० ॥
भद्रो नो अग्निराहुतो भद्रा रातिः सुभग भद्रो अध्वरः ।भद्रा उत प्रशस्तयः ॥ १११ ॥
यजिष्ठं त्वा ववृमहे देवं देवत्रा होतारममर्त्यं ।अस्य यज्ञस्य सुक्रतुं ॥ ११२ ॥
तदग्ने द्युम्नमा भर यत्सासाहा सदने कं चिदत्रिणं ।मन्युं जनस्य दूढ्यं ॥ ११३ ॥
यद्वा उ विश्पतिः शितः सुप्रीतो मनुषो विशे ।विश्वेदग्निः प्रति रक्षांसि सेधति ॥ ११४ ॥
Samaveda by the Vedic rishis (seers), whose verses the Samaveda gathers to be sung. Sanskrit text of the Kauthuma Samhita (1,875 verses: the Purvarchika with its Aranyaka and Mahanamni verses, and the Uttararchika), as transcribed by the contributors of Sanskrit Wikisource. Verse 1315, missing from its chapter page, is taken from Wikisource’s accented text of the whole Samhita, as printed there.. Source: Sanskrit Wikisource. The Samaveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.