ऋग्वेदसंहिता · Mandala 8
सूक्तम् ८.१०३
Ask AIऋषिः — सौभरिः काण्वः · दे. अग्निः, १४ अग्नामरुतः। बृहती, ५ विराड्रूपा, ७, ९,११, १३ सतोबृहती, ८, १२ ककुप्, १० ह्रसीयसी, १४ अनुष्टुप्।
अदर्शि गातुवित्तमो यस्मिन्व्रतान्यादधुः ।उपो षु जातमार्यस्य वर्धनमग्निं नक्षन्त नो गिरः ॥१॥
प्र दैवोदासो अग्निर्देवाँ अच्छा न मज्मना ।अनु मातरं पृथिवीं वि वावृते तस्थौ नाकस्य सानवि ॥२॥
यस्माद्रेजन्त कृष्टयश्चर्कृत्यानि कृण्वतः ।सहस्रसां मेधसाताविव त्मनाग्निं धीभिः सपर्यत ॥३॥
प्र यं राये निनीषसि मर्तो यस्ते वसो दाशत् ।स वीरं धत्ते अग्न उक्थशंसिनं त्मना सहस्रपोषिणम् ॥४॥
स दृळ्हे चिदभि तृणत्ति वाजमर्वता स धत्ते अक्षिति श्रवः ।त्वे देवत्रा सदा पुरूवसो विश्वा वामानि धीमहि ॥५॥
यो विश्वा दयते वसु होता मन्द्रो जनानाम् ।मधोर्न पात्रा प्रथमान्यस्मै प्र स्तोमा यन्त्यग्नये ॥६॥
अश्वं न गीर्भी रथ्यं सुदानवो मर्मृज्यन्ते देवयवः ।उभे तोके तनये दस्म विश्पते पर्षि राधो मघोनाम् ॥७॥
प्र मंहिष्ठाय गायत ऋताव्ने बृहते शुक्रशोचिषे ।उपस्तुतासो अग्नये ॥८॥
आ वंसते मघवा वीरवद्यशः समिद्धो द्युम्न्याहुतः ।कुविन्नो अस्य सुमतिर्नवीयस्यच्छा वाजेभिरागमत् ॥९॥
प्रेष्ठमु प्रियाणां स्तुह्यासावातिथिम् ।अग्निं रथानां यमम् ॥१०॥
उदिता यो निदिता वेदिता वस्वा यज्ञियो ववर्तति ।दुष्टरा यस्य प्रवणे नोर्मयो धिया वाजं सिषासतः ॥११॥
मा नो हृणीतामतिथिर्वसुरग्निः पुरुप्रशस्त एषः ।यः सुहोता स्वध्वरः ॥१२॥
मो ते रिषन्ये अच्छोक्तिभिर्वसोऽग्ने केभिश्चिदेवैः ।कीरिश्चिद्धि त्वामीट्टे दूत्याय रातहव्यः स्वध्वरः ॥१३॥
आग्ने याहि मरुत्सखा रुद्रेभिः सोमपीतये ।सोभर्या उप सुष्टुतिं मादयस्व स्वर्णरे ॥१४॥
Rigveda by the Vedic rishis (seers), each named with their hymns. Sanskrit text of the Samhita (1,028 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Rigveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.