ऋग्वेदसंहिता · Mandala 10
सूक्तम् १०.६०
Ask AIऋषिः — बन्धुः श्रुतबन्धुर्विप्रबन्धुर्गौपायनाः, ६ अगस्त्यस्वसा एषां माता ऋषिका · दे. १-४, ६ असमातिः, ५ इन्द्रः, ७-११ जीवः, १२ हस्तः । अनुष्टुप्, १-५ गायत्री, ८-९ पंक्तिः
आ जनं त्वेषसंदृशं माहीनानामुपस्तुतम् ।अगन्म बिभ्रतो नमः ॥१॥
असमातिं नितोशनं त्वेषं निययिनं रथम् ।भजेरथस्य सत्पतिम् ॥२॥
यो जनान्महिषाँ इवातितस्थौ पवीरवान् ।उतापवीरवान्युधा ॥३॥
यस्येक्ष्वाकुरुप व्रते रेवान्मराय्येधते ।दिवीव पञ्च कृष्टयः ॥४॥
इन्द्र क्षत्रासमातिषु रथप्रोष्ठेषु धारय ।दिवीव सूर्यं दृशे ॥५॥
अगस्त्यस्य नद्भ्यः सप्ती युनक्षि रोहिता ।पणीन्न्यक्रमीरभि विश्वान्राजन्नराधसः ॥६॥
अयं मातायं पितायं जीवातुरागमत् ।इदं तव प्रसर्पणं सुबन्धवेहि निरिहि ॥७॥
यथा युगं वरत्रया नह्यन्ति धरुणाय कम् ।एवा दाधार ते मनो जीवातवे न मृत्यवेऽथो अरिष्टतातये ॥८॥
यथेयं पृथिवी मही दाधारेमान्वनस्पतीन् ।एवा दाधार ते मनो जीवातवे न मृत्यवेऽथो अरिष्टतातये ॥९॥
यमादहं वैवस्वतात्सुबन्धोर्मन आभरम् ।जीवातवे न मृत्यवेऽथो अरिष्टतातये ॥१०॥
न्यग्वातोऽव वाति न्यक्तपति सूर्यः ।नीचीनमघ्न्या दुहे न्यग्भवतु ते रपः ॥११॥
अयं मे हस्तो भगवानयं मे भगवत्तरः ।अयं मे विश्वभेषजोऽयं शिवाभिमर्शनः ॥१२॥
Rigveda by the Vedic rishis (seers), each named with their hymns. Sanskrit text of the Samhita (1,028 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Rigveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.