ऋग्वेदसंहिता · Mandala 10
सूक्तम् १०.५९
Ask AIऋषिः — बन्धुः श्रुतबन्धुर्विप्रबन्धुर्गोपायनाः · दे. १-३ निर्ऋतिः, ४ निर्ऋतिः सोमश्च, ५-६ असुनीतिः, ७ पृथिवी-द्व्यन्तरिक्ष-सोम-पूष-पथ्या-स्वस्तयः, ८-१० द्यावापृथिवी, १० (पूर्वार्धस्य) इन्द्र-द्यावापृथिव्यः। त्रिष्टुप्, ८ पङ्क्तिः, ९ महापङ्क्तिः, १० पङ्क्त्युत्तरा
प्र तार्यायुः प्रतरं नवीय स्थातारेव क्रतुमता रथस्य ।अध च्यवान उत्तवीत्यर्थं परातरं सु निरृतिर्जिहीताम् ॥१॥
सामन्नु राये निधिमन्न्वन्नं करामहे सु पुरुध श्रवांसि ।ता नो विश्वानि जरिता ममत्तु परातरं सु निरृतिर्जिहीताम् ॥२॥
अभी ष्वर्यः पौंस्यैर्भवेम द्यौर्न भूमिं गिरयो नाज्रान् ।ता नो विश्वानि जरिता चिकेत परातरं सु निरृतिर्जिहीताम् ॥३॥
मो षु णः सोम मृत्यवे परा दाः पश्येम नु सूर्यमुच्चरन्तम् ।द्युभिर्हितो जरिमा सू नो अस्तु परातरं सु निरृतिर्जिहीताम् ॥४॥
असुनीते मनो अस्मासु धारय जीवातवे सु प्र तिरा न आयुः ।रारन्धि नः सूर्यस्य संदृशि घृतेन त्वं तन्वं वर्धयस्व ॥५॥
असुनीते पुनरस्मासु चक्षुः पुनः प्राणमिह नो धेहि भोगम् ।ज्योक्पश्येम सूर्यमुच्चरन्तमनुमते मृळया नः स्वस्ति ॥६॥
पुनर्नो असुं पृथिवी ददातु पुनर्द्यौर्देवी पुनरन्तरिक्षम् ।पुनर्नः सोमस्तन्वं ददातु पुनः पूषा पथ्यां या स्वस्तिः ॥७॥
शं रोदसी सुबन्धवे यह्वी ऋतस्य मातरा ।भरतामप यद्रपो द्यौः पृथिवि क्षमा रपो मो षु ते किं चनाममत् ॥८॥
अव द्वके अव त्रिका दिवश्चरन्ति भेषजा ।क्षमा चरिष्ण्वेककं भरतामप यद्रपो द्यौः पृथिवि क्षमा रपो मो षु ते किं चनाममत् ॥९॥
समिन्द्रेरय गामनड्वाहं य आवहदुशीनराण्या अनः ।भरतामप यद्रपो द्यौः पृथिवि क्षमा रपो मो षु ते किं चनाममत् ॥१०॥
Rigveda by the Vedic rishis (seers), each named with their hymns. Sanskrit text of the Samhita (1,028 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Rigveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.