ऋग्वेदसंहिता · Mandala 10
सूक्तम् १०.१६६
Ask AIऋषिः — ऋषभो वैराजः, ऋषभः शाक्वरो भीमसेनो वा · दे. सपत्नघ्नम् । अनुष्टुप्, ५ महापङ्क्तिः
ऋषभं मा समानानां सपत्नानां विषासहिम् ।हन्तारं शत्रूणां कृधि विराजं गोपतिं गवाम् ॥१॥
अहमस्मि सपत्नहेन्द्र इवारिष्टो अक्षतः ।अधः सपत्ना मे पदोरिमे सर्वे अभिष्ठिताः ॥२॥
अत्रैव वोऽपि नह्याम्युभे आर्त्नी इव ज्यया ।वाचस्पते नि षेधेमान्यथा मदधरं वदान् ॥३॥
अभिभूरहमागमं विश्वकर्मेण धाम्ना ।आ वश्चित्तमा वो व्रतमा वोऽहं समितिं ददे ॥४॥
योगक्षेमं व आदायाहं भूयासमुत्तम आ वो मूर्धानमक्रमीम् ।अधस्पदान्म उद्वदत मण्डूका इवोदकान्मण्डूका उदकादिव ॥५॥
Rigveda by the Vedic rishis (seers), each named with their hymns. Sanskrit text of the Samhita (1,028 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Rigveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.