ऋग्वेदसंहिता · Mandala 10
सूक्तम् १०.१४३
Ask AIऋषिः — अत्रिः सांख्यः · दे. अश्विनौ। अनुष्टुप्
त्यं चिदत्रिमृतजुरमर्थमश्वं न यातवे ।कक्षीवन्तं यदी पुना रथं न कृणुथो नवम् ॥१॥
त्यं चिदश्वं न वाजिनमरेणवो यमत्नत ।दृळ्हं ग्रन्थिं न वि ष्यतमत्रिं यविष्ठमा रजः ॥२॥
नरा दंसिष्ठवत्रये शुभ्रा सिषासतं धियः ।अथा हि वां दिवो नरा पुन स्तोमो न विशसे ॥३॥
चिते तद्वां सुराधसा रातिः सुमतिरश्विना ।आ यन्नः सदने पृथौ समने पर्षथो नरा ॥४॥
युवं भुज्युं समुद्र आ रजसः पार ईङ्खितम् ।यातमच्छा पतत्रिभिर्नासत्या सातये कृतम् ॥५॥
आ वां सुम्नैः शंयू इव मंहिष्ठा विश्ववेदसा ।समस्मे भूषतं नरोत्सं न पिप्युषीरिषः ॥६॥
Rigveda by the Vedic rishis (seers), each named with their hymns. Sanskrit text of the Samhita (1,028 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Rigveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.