ऋग्वेदसंहिता · Mandala 10
सूक्तम् १०.१४२
Ask AIऋषिः — शार्ङ्गाः - १-२ जरिता, ३-४ द्रोणः, ५-६ सारिसृक्कः, ७-८ स्तम्बमित्रः · दे. अग्निः। त्रिष्टुप्, १-२ जगती, ७-८ अनुष्टुप्।
अयमग्ने जरिता त्वे अभूदपि सहसः सूनो नह्यन्यदस्त्याप्यम् ।भद्रं हि शर्म त्रिवरूथमस्ति त आरे हिंसानामप दिद्युमा कृधि ॥१॥
प्रवत्ते अग्ने जनिमा पितूयतः साचीव विश्वा भुवना न्यृञ्जसे ।प्र सप्तयः प्र सनिषन्त नो धियः पुरश्चरन्ति पशुपा इव त्मना ॥२॥
उत वा उ परि वृणक्षि बप्सद्बहोरग्न उलपस्य स्वधावः ।उत खिल्या उर्वराणां भवन्ति मा ते हेतिं तविषीं चुक्रुधाम ॥३॥
यदुद्वतो निवतो यासि बप्सत्पृथगेषि प्रगर्धिनीव सेना ।यदा ते वातो अनुवाति शोचिर्वप्तेव श्मश्रु वपसि प्र भूम ॥४॥
प्रत्यस्य श्रेणयो ददृश्र एकं नियानं बहवो रथासः ।बाहू यदग्ने अनुमर्मृजानो न्यङ्ङुत्तानामन्वेषि भूमिम् ॥५॥
उत्ते शुष्मा जिहतामुत्ते अर्चिरुत्ते अग्ने शशमानस्य वाजाः ।उच्छ्वञ्चस्व नि नम वर्धमान आ त्वाद्य विश्वे वसवः सदन्तु ॥६॥
अपामिदं न्ययनं समुद्रस्य निवेशनम् ।अन्यं कृणुष्वेतः पन्थां तेन याहि वशाँ अनु ॥७॥
आयने ते परायणे दूर्वा रोहन्तु पुष्पिणीः ।ह्रदाश्च पुण्डरीकाणि समुद्रस्य गृहा इमे ॥८॥
Rigveda by the Vedic rishis (seers), each named with their hymns. Sanskrit text of the Samhita (1,028 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Rigveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.