ऋग्वेदसंहिता · Mandala 10
सूक्तम् १०.१०२
Ask AIऋषिः — मुद्गलो भार्म्यश्व- · दे. द्रुघण, इन्द्रो वा। त्रिष्टुप्, १, ३,१२ बृहती।
प्र ते रथं मिथूकृतमिन्द्रोऽवतु धृष्णुया ।अस्मिन्नाजौ पुरुहूत श्रवाय्ये धनभक्षेषु नोऽव ॥१॥
उत्स्म वातो वहति वासोऽस्या अधिरथं यदजयत्सहस्रम् ।रथीरभून्मुद्गलानी गविष्टौ भरे कृतं व्यचेदिन्द्रसेना ॥२॥
अन्तर्यच्छ जिघांसतो वज्रमिन्द्राभिदासतः ।दासस्य वा मघवन्नार्यस्य वा सनुतर्यवया वधम् ॥३॥
उद्नो ह्रदमपिबज्जर्हृषाणः कूटं स्म तृंहदभिमातिमेति ।प्र मुष्कभारः श्रव इच्छमानोऽजिरं बाहू अभरत्सिषासन् ॥४॥
न्यक्रन्दयन्नुपयन्त एनममेहयन्वृषभं मध्य आजेः ।तेन सूभर्वं शतवत्सहस्रं गवां मुद्गलः प्रधने जिगाय ॥५॥
ककर्दवे वृषभो युक्त आसीदवावचीत्सारथिरस्य केशी ।दुधेर्युक्तस्य द्रवतः सहानस ऋच्छन्ति ष्मा निष्पदो मुद्गलानीम् ॥६॥
उत प्रधिमुदहन्नस्य विद्वानुपायुनग्वंसगमत्र शिक्षन् ।इन्द्र उदावत्पतिमघ्न्यानामरंहत पद्याभिः ककुद्मान् ॥७॥
शुनमष्ट्राव्यचरत्कपर्दी वरत्रायां दार्वानह्यमानः ।नृम्णानि कृण्वन्बहवे जनाय गाः पस्पशानस्तविषीरधत्त ॥८॥
इमं तं पश्य वृषभस्य युञ्जं काष्ठाया मध्ये द्रुघणं शयानम् ।येन जिगाय शतवत्सहस्रं गवां मुद्गलः पृतनाज्येषु ॥९॥
आरे अघा को न्वित्था ददर्श यं युञ्जन्ति तम्वा स्थापयन्ति ।नास्मै तृणं नोदकमा भरन्त्युत्तरो धुरो वहति प्रदेदिशत् ॥१०॥
परिवृक्तेव पतिविद्यमानट् पीप्याना कूचक्रेणेव सिञ्चन् ।एषैष्या चिद्रथ्या जयेम सुमङ्गलं सिनवदस्तु सातम् ॥११॥
त्वं विश्वस्य जगतश्चक्षुरिन्द्रासि चक्षुषः ।वृषा यदाजिं वृषणा सिषाससि चोदयन्वध्रिणा युजा ॥१२॥
Rigveda by the Vedic rishis (seers), each named with their hymns. Sanskrit text of the Samhita (1,028 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Rigveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.