ऋग्वेदसंहिता · Mandala 10
सूक्तम् १०.१०१
Ask AIऋषिः — बुधः सौम्यः · दे. विश्वे देवा, ऋत्विजो वा। त्रिष्टुप्, ४, ६ गायत्री, ५ बृहती, ९, १२ जगती ।
उद्बुध्यध्वं समनसः सखायः समग्निमिन्ध्वं बहवः सनीळाः ।दधिक्रामग्निमुषसं च देवीमिन्द्रावतोऽवसे नि ह्वये वः ॥१॥
मन्द्रा कृणुध्वं धिय आ तनुध्वं नावमरित्रपरणीं कृणुध्वम् ।इष्कृणुध्वमायुधारं कृणुध्वं प्राञ्चं यज्ञं प्र णयता सखायः ॥२॥
युनक्त सीरा वि युगा तनुध्वं कृते योनौ वपतेह बीजम् ।गिरा च श्रुष्टिः सभरा असन्नो नेदीय इत्सृण्यः पक्वमेयात् ॥३॥
सीरा युञ्जन्ति कवयो युगा वि तन्वते पृथक् ।धीरा देवेषु सुम्नया ॥४॥
निराहावान्कृणोतन सं वरत्रा दधातन ।सिञ्चामहा अवतमुद्रिणं वयं सुषेकमनुपक्षितम् ॥५॥
इष्कृताहावमवतं सुवरत्रं सुषेचनम् ।उद्रिणं सिञ्चे अक्षितम् ॥६॥
प्रीणीताश्वान्हितं जयाथ स्वस्तिवाहं रथमित्कृणुध्वम् ।द्रोणाहावमवतमश्मचक्रमंसत्रकोशं सिञ्चता नृपाणम् ॥७॥
व्रजं कृणुध्वं स हि वो नृपाणो वर्म सीव्यध्वं बहुला पृथूनि ।पुरः कृणुध्वमायसीरधृष्टा मा वः सुस्रोच्चमसो दृंहता तम् ॥८॥
आ वो धियं यज्ञियां वर्त ऊतये देवा देवीं यजतां यज्ञियामिह ।सा नो दुहीयद्यवसेव गत्वी सहस्रधारा पयसा मही गौः ॥९॥
आ तू षिञ्च हरिमीं द्रोरुपस्थे वाशीभिस्तक्षताश्मन्मयीभिः ।परि ष्वजध्वं दश कक्ष्याभिरुभे धुरौ प्रति वह्निं युनक्त ॥१०॥
उभे धुरौ वह्निरापिब्दमानोऽन्तर्योनेव चरति द्विजानिः ।वनस्पतिं वन आस्थापयध्वं नि षू दधिध्वमखनन्त उत्सम् ॥११॥
कपृन्नरः कपृथमुद्दधातन चोदयत खुदत वाजसातये ।निष्टिग्र्यः पुत्रमा च्यावयोतय इन्द्रं सबाध इह सोमपीतये ॥१२॥
Rigveda by the Vedic rishis (seers), each named with their hymns. Sanskrit text of the Samhita (1,028 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Rigveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.