ऋग्वेदसंहिता · Mandala 1
सूक्तम् १.४५
Ask AIऋषिः — प्रस्कण्वः काण्वः · दे. अग्निः, १० (उत्तरार्धस्य) देवाः। अनुष्टुप्।
त्वमग्ने वसूँरिह रुद्राँ आदित्याँ उत ।यजा स्वध्वरं जनं मनुजातं घृतप्रुषम् ॥१॥
श्रुष्टीवानो हि दाशुषे देवा अग्ने विचेतसः ।तान्रोहिदश्व गिर्वणस्त्रयस्त्रिंशतमा वह ॥२॥
प्रियमेधवदत्रिवज्जातवेदो विरूपवत् ।अङ्गिरस्वन्महिव्रत प्रस्कण्वस्य श्रुधी हवम् ॥३॥
महिकेरव ऊतये प्रियमेधा अहूषत ।राजन्तमध्वराणामग्निं शुक्रेण शोचिषा ॥४॥
घृताहवन सन्त्येमा उ षु श्रुधी गिरः ।याभिः कण्वस्य सूनवो हवन्तेऽवसे त्वा ॥५॥
त्वां चित्रश्रवस्तम हवन्ते विक्षु जन्तवः ।शोचिष्केशं पुरुप्रियाग्ने हव्याय वोळ्हवे ॥६॥
नि त्वा होतारमृत्विजं दधिरे वसुवित्तमम् ।श्रुत्कर्णं सप्रथस्तमं विप्रा अग्ने दिविष्टिषु ॥७॥
आ त्वा विप्रा अचुच्यवुः सुतसोमा अभि प्रयः ।बृहद्भा बिभ्रतो हविरग्ने मर्ताय दाशुषे ॥८॥
प्रातर्याव्णः सहस्कृत सोमपेयाय सन्त्य ।इहाद्य दैव्यं जनं बर्हिरा सादया वसो ॥९॥
अर्वाञ्चं दैव्यं जनमग्ने यक्ष्व सहूतिभिः ।अयं सोमः सुदानवस्तं पात तिरोअह्न्यम् ॥१०॥
Rigveda by the Vedic rishis (seers), each named with their hymns. Sanskrit text of the Samhita (1,028 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Rigveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.