ऋग्वेदसंहिता · Mandala 1
सूक्तम् १.४४
Ask AIऋषिः — प्रस्कण्वः काण्वः · दे. अग्निः, १-२ अग्निः, अश्विनौ, उषाश्च । प्रगाथः - विषमा बृहत्यः, समाः सतोबृहत्यः
अग्ने विवस्वदुषसश्चित्रं राधो अमर्त्य ।आ दाशुषे जातवेदो वहा त्वमद्या देवाँ उषर्बुधः ॥१॥
जुष्टो हि दूतो असि हव्यवाहनोऽग्ने रथीरध्वराणाम् ।सजूरश्विभ्यामुषसा सुवीर्यमस्मे धेहि श्रवो बृहत् ॥२॥
अद्या दूतं वृणीमहे वसुमग्निं पुरुप्रियम् ।धूमकेतुं भाऋजीकं व्युष्टिषु यज्ञानामध्वरश्रियम् ॥३॥
श्रेष्ठं यविष्ठमतिथिं स्वाहुतं जुष्टं जनाय दाशुषे ।देवाँ अच्छा यातवे जातवेदसमग्निमीळे व्युष्टिषु ॥४॥
स्तविष्यामि त्वामहं विश्वस्यामृत भोजन ।अग्ने त्रातारममृतं मियेध्य यजिष्ठं हव्यवाहन ॥५॥
सुशंसो बोधि गृणते यविष्ठ्य मधुजिह्वः स्वाहुतः ।प्रस्कण्वस्य प्रतिरन्नायुर्जीवसे नमस्या दैव्यं जनम् ॥६॥
होतारं विश्ववेदसं सं हि त्वा विश इन्धते ।स आ वह पुरुहूत प्रचेतसोऽग्ने देवाँ इह द्रवत् ॥७॥
सवितारमुषसमश्विना भगमग्निं व्युष्टिषु क्षपः ।कण्वासस्त्वा सुतसोमास इन्धते हव्यवाहं स्वध्वर ॥८॥
पतिर्ह्यध्वराणामग्ने दूतो विशामसि ।उषर्बुध आ वह सोमपीतये देवाँ अद्य स्वर्दृशः ॥९॥
अग्ने पूर्वा अनूषसो विभावसो दीदेथ विश्वदर्शतः ।असि ग्रामेष्वविता पुरोहितोऽसि यज्ञेषु मानुषः ॥१०॥
नि त्वा यज्ञस्य साधनमग्ने होतारमृत्विजम् ।मनुष्वद्देव धीमहि प्रचेतसं जीरं दूतममर्त्यम् ॥११॥
यद्देवानां मित्रमहः पुरोहितोऽन्तरो यासि दूत्यम् ।सिन्धोरिव प्रस्वनितास ऊर्मयोऽग्नेर्भ्राजन्ते अर्चयः ॥१२॥
श्रुधि श्रुत्कर्ण वह्निभिर्देवैरग्ने सयावभिः ।आ सीदन्तु बर्हिषि मित्रो अर्यमा प्रातर्यावाणो अध्वरम् ॥१३॥
शृण्वन्तु स्तोमं मरुतः सुदानवोऽग्निजिह्वा ऋतावृधः ।पिबतु सोमं वरुणो धृतव्रतोऽश्विभ्यामुषसा सजूः ॥१४॥
Rigveda by the Vedic rishis (seers), each named with their hymns. Sanskrit text of the Samhita (1,028 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Rigveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.