अथर्ववेदसंहिता (शौनकीया) · Kanda 9
सूक्तम् ९.५
Ask AIऋषिः — भृगुः · दे. पञ्चौदनो अजः, मन्त्रोक्ताः। त्रिष्टुप्, ३ चतुष्पदा पुरोतिशक्वरी जगती, ४, १० जगती, १४, १७, २७-३० अनुष्टुप्, ३० ककुम्मती, १६ त्रिपदानुष्टुप्, १८, ३७ त्रिपदा विराड् गायत्री, २३ पुर उष्णिक् २४ पञ्चपदानुष्टुबुष्णिग्गर्भोपरिष्टाद्विराड् जगती, २०-२२, २६ पञ्चपदानुष्टुबुष्णिग्गर्भोपरिष्टाद् बार्हता भुरिक् ३१ सप्तपदार्षी, ३२-३५ दशपदा प्रकृतिः, ३६ दशपदाकृतिः, ३८ एकावसाना द्विपदा साम्नी त्रिष्टुप् ।
आ नयैतमा रभस्व सुकृतां लोकमपि गच्छतु प्रजानन् ।तीर्त्वा तमांसि बहुधा महान्त्यजो नाकमा क्रमतां तृतीयम् ॥१॥
इन्द्राय भागं परि त्वा नयाम्यस्मिन् यज्ञे यजमानाय सूरिम् ।ये नो द्विषन्त्यनु तान् रभस्वानागसो यजमानस्य वीराः ॥२॥
प्र पदोऽव नेनिग्धि दुश्चरितं यच्चचार शुद्धैः शफैरा क्रमतां प्रजानन् ।तीर्त्वा तमांसि बहुधा विपश्यन्न् अजो नाकमा क्रमतां तृतीयम् ॥३॥
अनुछ्य श्यामेन त्वचमेतां विशस्तर्यथापर्वसिना माभि मंस्थाः ।माभि द्रुहः परुशः कल्पयैनं तृतीये नाके अधि वि श्रयैनम् ॥४॥
ऋचा कुम्भीमध्यग्नौ श्रयाम्या सिञ्चोदकमव धेह्येनम् ।पर्याधत्ताग्निना शमितारः शृतो गच्छतु सुकृतां यत्र लोकः ॥५॥
उत्क्रामातः परि चेदतप्तस्तप्ताच्चरोरधि नाकं तृतीयम् ।अग्नेरग्निरधि सं बभूविथ ज्योतिष्मन्तमभि लोकं जयैतम् ॥६॥
अजो अग्निरजमु ज्योतिराहुरजं जीवता ब्रह्मणे देयमाहुः ।अजस्तमांस्यप हन्ति दूरमस्मिंल्लोके श्रद्दधानेन दत्तः ॥७॥
पञ्चौदनः पञ्चधा वि क्रमतामाक्रंस्यमानस्त्रीणि ज्योतींषि ।ईजानानां सुकृतां प्रेहि मध्यं तृतीये नाके अधि वि श्रयस्व ॥८॥
अजा रोह सुकृतां यत्र लोकः शरभो न चत्तोऽति दुर्गान्येषः ।पञ्चौदनो ब्रह्मणे दीयमानः स दातारं तृप्त्या तर्पयाति ॥९॥
10अजस्त्रिनाके त्रिदिवे त्रिपृष्ठे नाकस्य पृष्ठे ददिवांसं दधाति ।पञ्चौदनो ब्रह्मणे दीयमानो विश्वरूपा धेनुः कामदुघास्येका ॥१०॥ {११}
एतद्वो ज्योतिः पितरस्तृतीयं पञ्चौदनं ब्रह्मणेऽजं ददाति ।अजस्तमांस्यप हन्ति दूरमस्मिंल्लोके श्रद्दधानेन दत्तः ॥११॥
ईजानानां सुकृतां लोकमीप्सन् पञ्चौदनं ब्रह्मणेऽजं ददाति ।स व्याप्तिमभि लोकं जयैतं शिवोऽस्मभ्यं प्रतिगृहीतो अस्तु ॥१२॥
अजो ह्यग्नेरजनिष्ट शोकाद्विप्रो विप्रस्य सहसो विपश्चित्।इष्टं पूर्तमभिपूर्तं वषट्कृतं तद्देवा ऋतुशः कल्पयन्तु ॥१३॥
अमोतं वासो दद्याद्धिरण्यमपि दक्षिणाम् ।तथा लोकान्त्समाप्नोति ये दिव्या ये च पार्थिवाः ॥१४॥
एतास्त्वाजोप यन्तु धाराः सोम्या देवीर्घृतपृष्ठा मधुश्चुतः ।स्तभान् पृथिवीमुत द्यां नाकस्य पृष्ठेऽधि सप्तरश्मौ ॥१५॥
अजोऽस्यज स्वर्गोऽसि त्वया लोकमङ्गिरसः प्राजानन् ।तं लोकं पुण्यं प्र ज्ञेषम् ॥१६॥
येना सहस्रं वहसि येनाग्ने सर्ववेदसम् ।तेनेमं यज्ञं नो वह स्वर्देवेषु गन्तवे ॥१७॥
अजः पक्वः स्वर्गे लोके दधाति पञ्चौदनो निर्ऋतिं बाधमानः ।तेन लोकान्त्सूर्यवतो जयेम ॥१८॥
यं ब्राह्मणे निदधे यं च विक्षु या विप्रुष ओदनानामजस्य ।सर्वं तदग्ने सुकृतस्य लोके जानीतान् नः संगमने पथीनाम् ॥१९॥
20अजो वा इदमग्ने व्यक्रमत तस्योर इयमभवद्द्यौः पृष्टिहम् ।अन्तरिक्षं मध्यं दिशः पार्श्वे समुद्रौ कुक्षी ॥२०॥ {१२}
सत्यं चर्तं च चक्षुषी विश्वं सत्यं श्रद्धा प्राणो विराट् शिरः ।एष वा अपरिमितो यज्ञो यदजः पञ्चौदनः ॥२१॥
अपरिमितमेव यज्ञमाप्नोत्यपरिमितं लोकमव रुन्द्धे ।योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥२२॥
नास्यास्थीनि भिन्द्यान् न मज्ज्ञो निर्धयेत्।सर्वमेनं समादायेदमिदं प्र वेशयेत्॥२३॥
इदमिदमेवास्य रूपं भवति तेनैनं सं गमयति ।इषं मह ऊर्जमस्मै दुहे योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥२४॥
पञ्च रुक्मा पञ्च नवानि वस्त्रा पञ्चास्मै धेनवः कामदुघा भवन्ति ।योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥२५॥
पञ्च रुक्मा ज्योतिरस्मै भवन्ति वर्म वासांसि तन्वे भवन्ति ।स्वर्गं लोकमश्नुते योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥२६॥
या पूर्वं पतिं वित्त्वाऽथान्यं विन्दतेऽपरम् ।पञ्चौदनं च तावजं ददातो न वि योषतः ॥२७॥
समानलोको भवति पुनर्भुवापरः पतिः ।योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥२८॥
अनुपूर्ववत्सां धेनुमनड्वाहमुपबर्हणम् ।वासो हिरण्यं दत्त्वा ते यन्ति दिवमुत्तमाम् ॥२९॥
30आत्मानं पितरं पुत्रं पौत्रं पितामहम् ।जायां जनित्रीं मातरं ये प्रियास्तान् उप ह्वये ॥३०॥ {१३}
यो वै नैदाघं नामर्तुं वेद ।एष वै नैदाघो नामर्तुर्यदजः पञ्चौदनः ।निरेवाप्रियस्य भ्रातृव्यस्य श्रियं दहति भवत्यात्मना ।योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥३१॥
यो वै कुर्वन्तं नामर्तुं वेद ।कुर्वतींकुर्वतीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते ।एष वै कुर्वन् नामर्तुर्यदजः पञ्चौदनः ।निरेवाप्रियस्य भ्रातृव्यस्य श्रियं दहति भवत्यात्मना ।योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥३२॥
यो वै संयन्तं नामर्तुं वेद ।संयतींसंयतीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते ।एष वै संयन् नामर्तुर्यदजः पञ्चौदनः ।निरेवाप्रियस्य भ्रातृव्यस्य श्रियं दहति भवत्यात्मना ।योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥३३॥
यो वै पिन्वन्तं नामर्तुं वेद ।पिन्वतींपिन्वतीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते ।एष वै पिन्वन् नामर्तुर्यदजः पञ्चौदनः ।निरेवाप्रियस्य भ्रातृव्यस्य श्रियं दहति भवत्यात्मना ।योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥३४॥
यो वा उद्यन्तं नामर्तुं वेद ।उद्यतीमुद्यतीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते ।एष वा उद्यन्नामर्तुर्यदजः पञ्चौदनः ।निरेवाप्रियस्य भ्रातृव्यस्य श्रियं दहति भवत्यात्मना ।योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥३५॥
यो वा अभिभुवं नामर्तुं वेद ।अभिभवन्तीमभिभवन्तीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते ।एष वा अभिभूर्नामर्तुर्यदजः पञ्चौदनः ।निरेवाप्रियस्य भ्रातृव्यस्य श्रियं दहति भवत्यात्मना ।योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥३६॥
अजं च पचत पञ्च चौदनान् ।सर्वा दिशः संमनसः सध्रीचीः सान्तर्देशाः प्रति गृह्णन्तु त एतम् ॥३७॥
38तास्ते रक्षन्तु तव तुभ्यमेतं ताभ्य आज्यं हविरिदं जुहोमि ॥३८॥ {१४}
Atharvaveda by the Vedic rishis (seers), Atharvan and Angiras first among them, each named with their hymns. Sanskrit text of the Shaunaka Samhita (20 kandas, 731 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Atharvaveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.