Dharmasthan

India's Digital Home for Devotion

Dharmasthan
Bhakti LibraryEvents CalendarDharmaVerseJap CounterDharma AIContestsSansthas
HOST ROOM
MandalSign In
Dharmasthan

India's Digital Home for Devotion.

|| भक्ति· से ही शांति है ||

Hindu prayers, aarti and bhajan lyrics, mandals and festivals across India.

Explore

  • Bhakti Library
  • Aartis
  • Bhajans
  • Devotional Songs
  • Mantras
  • Stotrams
  • Chalisas
  • Shlokas
  • Stutis & Ashtakams
  • Vrat Kathas
  • Marathi Prayers
  • Hindi Prayers
  • Sanskrit Prayers
  • Videos
  • Hindu Stories
  • Holy Books
  • DharmaVerse
  • Events Calendar
  • By Deity
  • Festival Playlists
  • Upcoming Festivals
  • Jap Counter
  • Contests
  • Events

For Mandals

  • Mandal Login
  • Register Mandal
  • Discover Mandals
  • Donation Campaigns

About

  • About Us
  • Contact
  • Privacy Policy
  • Terms of Service
  • Consent Policy
  • Platform Admin

© 2026 Dharmasthan - devotion, in one place

Made with devotion in India

Home
Bhakti Library
Jap
DharmaVerse
  1. Home
  2. Bhakti Library
  3. Holy Books
  4. Atharvaveda
  5. Kanda 8
  6. सूक्तम् ८.१०

अथर्ववेदसंहिता (शौनकीया) · Kanda 8

सूक्तम् ८.१०

संस्कृतEnglish
Ask AI

ऋषिः — अथर्वाचार्यः · दे. विराट्। १-१३, १ त्रिपदार्ची पङ्क्तिः, - - - - - - -

विराड्वा इदमग्र आसीत्तस्या जातायाः सर्वमबिभेदियमेवेदं भविष्यतीति ॥१॥

सोदक्रामत्सा गार्हपत्ये न्यक्रामत्।गृहमेधी गृहपतिर्भवति य एवं वेद ॥२॥

सोदक्रामत्साहवनीये न्यक्रामत्।यन्त्यस्य देवा देवहूतिं प्रियो देवानां भवति य एवं वेद ॥३॥

सोदक्रामत्सा दक्षिणाग्नौ न्यक्रामत्।यज्ञर्तो दक्षिणीयो वासतेयो भवति य एवं वेद ॥४॥

सोदक्रामत्सा सभायां न्यक्रामत्।यन्त्यस्य सभां सभ्यो भवति य एवं वेद ॥५॥

सोदक्रामत्सा समितौ न्यक्रामत्।यन्त्यस्य समितिं सामित्यो भवति य एवं वेद ॥६॥

7सोदक्रामत्सामन्त्रणे न्यक्रामत्।यन्त्यस्यामन्त्रणमामन्त्रणीयो भवति य एवं वेद ॥७॥ {२५}

सोदक्रामत्सान्तरिक्षे चतुर्धा विक्रान्तातिष्ठत्॥८॥

तां देवमनुष्या अब्रुवन्न् इयमेव तद्वेद यदुभय उपजीवेमेमामुप ह्वयामहा इति ॥९॥

तामुपाह्वयन्त ॥१०॥

ऊर्ज एहि स्वध एहि सूनृत एहीरावत्येहीति ॥११॥

तस्या इन्द्रो वत्स आसीद्गायत्र्यभिधान्यभ्रमूधः ॥१२॥

बृहच्च रथंतरं च द्वौ स्तनावास्तां यज्ञायज्ञियं च वामदेव्यं च द्वौ ॥१३॥

ओषधीरेव रथंतरेण देवा अदुह्रन् व्यचो बृहता ॥१४॥

अपो वामदेव्येन यज्ञं यज्ञायज्ञियेन ॥१५॥

ओषधीरेवास्मै रथंतरं दुहे व्यचो बृहत्॥१६॥

17अपो वामदेव्यं यज्ञं यज्ञायज्ञियं य वेद ॥१७॥ {२६}

सोदक्रामत्सा वनस्पतीन् आगच्छत्तां वनस्पतयोऽघ्नत सा संवत्सरे समभवत्।तस्माद्वनस्पतीनां संवत्सरे वृक्णमपि रोहति वृश्चतेऽस्याप्रियो भ्रातृव्यो य एवं वेद ॥१८॥

सोदक्रामत्सा पितॄन् आगच्छत्तां पितरोऽघ्नत सा मासि समभवत्।तस्मात्पितृभ्यो मास्युपमास्यं ददति प्र पितृयाणं पन्थां जानाति य एवं वेद ॥१९॥

सोदक्रामत्सा देवान् आगच्छत्तां देवा अघ्नत सार्धमासे समभवत्।तस्माद्देवेभ्योऽर्धमासे वषट्कुर्वन्ति प्र देवयानं पन्थां जानाति य एवं वेद ॥२०॥

21सोदक्रामत्सा मनुष्यान् आगच्छत्तां मनुष्या अघ्नत सा सद्यः समभवत्।तस्मान् मनुष्येभ्य उभयद्युरुप हरन्त्युपास्य गृहे हरन्ति य एवं वेद ॥२१॥ {२७}

सोदक्रामत्सासुरान् आगच्छत्तामसुरा उपाह्वयन्त माय एहीति ।तस्या विरोचनः प्राह्रादिर्वत्स आसीदयस्पात्रं पात्रम् ।तां द्विमूर्धार्त्व्योऽधोक्तां मायामेवाधोक्॥तां मायामसुरा उप जीवन्त्युपजीवनीयो भवति य एवं वेद ॥२२॥

सोदक्रामत्सा पितॄन् आगच्छत्तां पितर उपाह्वयन्त स्वध एहीति ।तस्या यमो राजा वत्स आसीद्रजतपात्रं पात्रम् ।तामन्तको मार्त्यवोऽधोक्तां स्वधामेवाधोक्।तां स्वधां पितर उप जीवन्त्युपजीवनीयो भवति य एवं वेद ॥२३॥

सोदक्रामत्सा मनुष्यान् आगच्छत्तां मनुष्या उपाह्वयन्तेरावत्येहीति ।तस्या मनुर्वैवस्वतो वत्स आसीत्पृथिवी पात्रम् ।तां पृथी वैन्योऽधोक्तां कृषिं च सस्यं चाधोक्।ते स्वधां कृषिं च सस्यं च मनुष्या उप जीवन्ति कृष्टराधिरुपजीवनीयो भवति य एवं वेद ॥२४॥

25सोदक्रामत्सा सप्तऋषीन् आगच्छत्तां सप्तऋषय उपाह्वयन्त ब्रह्मण्वत्येहीति ।तस्याः सोमो राजा वत्स आसीच्छन्दः पात्रम् ।तां बृहस्पतिराङ्गिरसोऽधोक्तां ब्रह्म च तपश्चाधोक्।तद्ब्रह्म च तपश्च सप्तऋषय उप जीवन्ति ब्रह्मवर्चस्युपजीवनीयो भवति य एवं वेद ॥२५॥ {२८}

सोदक्रामत्सा देवान् आगच्छत्तां देवा उपाह्वयन्तोर्ज एहीति ।तस्या इन्द्रो वत्स आसीच्चमसः पात्रम् ।तां देवः सविताधोक्तामूर्जामेवाधोक्।तामूर्जां देवा उप जीवन्त्युपजीवनीयो भवति य एवं वेद ॥२६॥

सोदक्रामत्सा गन्धर्वाप्सरस आगच्छत्तां गन्धर्वाप्सरस उपाह्वयन्त पुण्यगन्ध एहीति ।तस्याश्चित्ररथः सौर्यवर्चसो वत्स आसीत्पुष्करपर्णं पात्रम् ।तां वसुरुचिः सौर्यवर्चसोऽधोक्तां पुण्यमेव गन्धमधोक्।तं पुण्यं गन्धं गन्धर्वाप्सरस उप जीवन्ति पुण्यगन्धिरुपजीवनीयो भवति य एवं वेद ॥२७॥

सोदक्रामत्सेतरजनान् आगच्छत्तामितरजना उपाह्वयन्त तिरोध एहीति ।तस्याः कुबेरो वैश्रवणो वत्स आसीदामपात्रं पात्रम् ।तां रजतनाभिः कबेरकोऽधोक्तां तिरोधामेवाधोक्।तां तिरोधामतिरजना पितर उप जीवन्ति तिरो धत्ते सर्वं पाप्मानमुपजीवनीयो भवति य एवं वेद ॥२८॥

29सोदक्रामत्सा सर्पान् आगच्छत्तां सर्पा उपाह्वयन्त विषवत्येहीति ।तस्यास्तक्षको वैशालेयो वत्स आसीदलाबुपात्रं पात्रम् ।तां धृतराष्ट्र ऐरावतोऽधोक्तां विषमेवाधोक्।तद्विषं सर्पा उप जीवन्त्युपजीवनीयो भवति य एवं वेद ॥२९॥ {२९}

तद्यस्मा एवं विदुषेऽलाबुनाभिषिञ्चेत्प्रत्याहन्यात्॥३०॥

न च प्रत्याहन्यान् मनसा त्वा प्रत्याहन्मीति प्रत्याहन्यात्॥३१॥

यत्प्रत्याहन्ति विषमेव तत्प्रत्याहन्ति ॥३२॥

33विषमेवास्याप्रियं भ्रातृव्यमनुविषिच्यते य एवं वेद ॥३३॥ {३०}

Atharvaveda by the Vedic rishis (seers), Atharvan and Angiras first among them, each named with their hymns. Sanskrit text of the Shaunaka Samhita (20 kandas, 731 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Atharvaveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.

सूक्तम् ८.९सूक्तम् ९.१

Related on Dharmasthan

  • Atharvaveda: contents and about
  • Rigveda
  • The four Vedas
  • The Rigveda’s wedding hymn of Surya (10.85), the source of Book 14
  • The Purusha Sukta in the Rigveda (10.90), found again as Atharvaveda 19.6
  • All mantras
  • Shlokas
  • Surya mantras and stotrams