अथर्ववेदसंहिता (शौनकीया) · Kanda 7
सूक्तम् ७.७६
Ask AIऋषिः — अथर्वा · दे. १,२ अपचिद्भैषज्यम् , ३-४ जायान्यः, इन्द्रः। अनुष्टुप् , १ विराट्, २ परोष्णिक्,
आ सुस्रसः सुस्रसो असतीभ्यो असत्तराः ।सेहोररसतरा हवणाद्विक्लेदीयसीः ॥१॥
या ग्रैव्या अपचितोऽथो या उपपक्ष्याः ।विजाम्नि या अपचितः स्वयंस्रसः ॥२॥
यः कीकसाः प्रशृणाति तलीद्यमवतिष्ठति ।निर्हास्तं सर्वं जायान्यं यः कश्च ककुदि श्रितः ॥३॥
पक्षी जायान्यः पतति स आ विशति पूरुषम् ।तदक्षितस्य भेषजमुभयोः सुक्षतस्य च ॥४॥
विद्म वै ते जायान्य जानं यतो जायान्य जायसे ।कथं ह तत्र त्वं हनो यस्य कृण्मो हविर्गृहे ॥१॥
धृषत्पिब कलशे सोममिन्द्र वृत्रहा शूर समरे वसूनाम् ।माध्यन्दिने सवन आ वृषस्व रयिष्ठानो रयिमस्मासु धेहि ॥२॥
Atharvaveda by the Vedic rishis (seers), Atharvan and Angiras first among them, each named with their hymns. Sanskrit text of the Shaunaka Samhita (20 kandas, 731 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Atharvaveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.