अथर्ववेदसंहिता (शौनकीया) · Kanda 7
सूक्तम् ७.५६
Ask AIऋषिः — अथर्वा · दे. वृश्चिकादयः, २ वनस्पतिः, ३ ब्रह्मणस्पतिः। अनुष्टुप्, ४ विराट्प्रस्तारपङ्क्तिः
तिरश्चिराजेरसितात्पृदाकोः परि संभृतम् ।तत्कङ्कपर्वणो विषमियं वीरुदनीनशत्॥१॥
इयं वीरुन् मधुजाता मधुश्चुन् मधुला मधूः ।सा विह्रुतस्य भेषज्यथो मशकजम्भनी ॥२॥
यतो दष्टं यतो धीतं ततस्ते निर्ह्वयामसि ।अर्भस्य तृप्रदंशिनो मशकस्यारसं विषम् ॥३॥
अयं यो वक्रो विपरुर्व्यङ्गो मुखानि वक्रा वृजिना कृणोषि ।तानि त्वं ब्रह्मणस्पते इषीकामिव सं नमः ॥४॥
अरसस्य शर्कोटस्य नीचीनस्योपसर्पतः ।विषं ह्यस्यादिष्यथो एनमजीजभम् ॥५॥
न ते बाह्वोर्बलमस्ति न शीर्षे नोत मध्यतः ।अथ किं पापयाऽमुया पुच्छे बिभर्ष्यर्भकम् ॥६॥
अदन्ति त्वा पिपीलिका वि वृश्चन्ति मयूर्यः ।सर्वे भल ब्रवाथ शार्कोटमरसं विषम् ॥७॥
य उभाभ्यां प्रहरसि पुच्छेन चास्येन च ।आस्ये न ते विषं किमु ते पुच्छधावसत्॥८॥
Atharvaveda by the Vedic rishis (seers), Atharvan and Angiras first among them, each named with their hymns. Sanskrit text of the Shaunaka Samhita (20 kandas, 731 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Atharvaveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.