अथर्ववेदसंहिता (शौनकीया) · Kanda 6
सूक्तम् ६.३९
Ask AIऋषिः — अथर्वा (वर्चस्कामः) · दे. (बृहस्पतिः), २ इन्द्रः, ३ इन्द्रः, अग्निः, सोमः। १ जगती, २ त्रिष्टुप् , ३ अनुष्टुप्।
यशो हविर्वर्धतामिन्द्रजूतं सहस्रवीर्यं सुभृतं सहस्कृतम् ।प्रसर्स्राणमनु दीर्घाय चक्षसे हविष्मन्तं मा वर्धय ज्येष्ठतातये ॥१॥
अछा न इन्द्रं यशसं यशोभिर्यशस्विनं नमसाना विधेम ।स नो रास्व राष्ट्रमिन्द्रजूतं तस्य ते रातौ यशसः स्याम ॥२॥
यशा इन्द्रो यशा अग्निर्यशाः सोमो अजायत ।यशा विश्वस्य भूतस्य अहमस्मि यशस्तमः ॥३॥
Atharvaveda by the Vedic rishis (seers), Atharvan and Angiras first among them, each named with their hymns. Sanskrit text of the Shaunaka Samhita (20 kandas, 731 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Atharvaveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.