अथर्ववेदसंहिता (शौनकीया) · Kanda 5
सूक्तम् ५.१८
Ask AIऋषिः — मयोभूः · दे. ब्रह्मगवी। अनुष्टुप्, ४ भुरिक् त्रिष्टुप्, ५, ८-९, १३ त्रिष्टुप्
नैतां ते देवा अददुस्तुभ्यं नृपते अत्तवे ।मा ब्राह्मणस्य राजन्य गां जिघत्सो अनाद्याम् ॥१॥
अक्षद्रुग्धो राजन्यः पाप आत्मपराजितः ।स ब्राह्मणस्य गामद्यादद्य जीवानि मा श्वः ॥२॥
आविष्टिताघविषा पृदाकूरिव चर्मणा ।सा ब्राह्मणस्य राजन्य तृष्टैषा गौरनाद्या ॥३॥
निर्वै क्षत्रं नयति हन्ति वर्चोऽग्निरिवारब्धो वि दुनोति सर्वम् ।यो ब्राह्मणं मन्यते अन्नमेव स विषस्य पिबति तैमातस्य ॥४॥
य एनं हन्ति मृदुं मन्यमानो देवपीयुर्धनकामो न चित्तात्।सं तस्येन्द्रो हृदयेऽग्निमिन्धे उभे एनं द्विष्टो नभसी चरन्तम् ॥५॥
न ब्राह्मणो हिंसितव्योऽग्निः प्रियतनोरिव ।सोमो ह्यस्य दायाद इन्द्रो अस्याभिशस्तिपाः ॥६॥
शतापाष्ठां नि गिरति तां न शक्नोति निःखिदम् ।अन्नं यो ब्रह्मणां मल्वः स्वाद्वद्मीति मन्यते ॥७॥
जिह्वा ज्या भवति कुल्मलं वाङ्नाडीका दन्तास्तपसाभिदिग्धाः ।तेभिर्ब्रह्मा विध्यति देवपीयून् हृद्बलैर्धनुर्भिर्देवजूतैः ॥८॥
तीक्ष्णेषवो ब्राह्मणा हेतिमन्तो यामस्यन्ति शरव्यां न सा मृषा ।अनुहाय तपसा मन्युना चोत दूरादव भिन्दन्त्येनम् ॥९॥
ये सहस्रमराजन्न् आसन् दशशता उत ।ते ब्राह्मणस्य गां जग्ध्वा वैतहव्याः पराभवन् ॥१०॥
गौरेव तान् हन्यमाना वैतहव्यामवातिरत्।ये केसरप्राबन्धायाश्चरमाजामपेचिरन् ॥११॥
एकशतं ता जनता या भूमिर्व्यधूनुत ।प्रजां हिंसित्वा ब्राह्मणीमसंभव्यं पराभवन् ॥१२॥
देवपीयुश्चरति मर्त्येषु गरगीर्णो भवत्यस्थिभूयान् ।यो ब्राह्मणं देवबन्धुं हिनस्ति न स पितृयाणमप्येति लोकम् ॥१३॥
अग्निर्वै नः पदवायः सोमो दायाद उच्यते ।हन्ताभिशस्तेन्द्रस्तथा तद्वेधसो विदुः ॥१४॥
इषुरिव दिग्धा नृपते पृदाकूरिव गोपते ।सा ब्राह्मणस्येषुर्घोरा तया विध्यति पीयतः ॥१५॥
Atharvaveda by the Vedic rishis (seers), Atharvan and Angiras first among them, each named with their hymns. Sanskrit text of the Shaunaka Samhita (20 kandas, 731 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Atharvaveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.