अथर्ववेदसंहिता (शौनकीया) · Kanda 4
सूक्तम् ४.८
Ask AIऋषिः — अथर्वाङिराः · दे. चन्द्रमा, आपः, राज्याभिषेकः, १ राजा, २ देवाः, ३ विश्वरूपः, ४-५ आपः। अनुष्टुप्, - --- -
भूतो भूतेषु पय आ दधाति स भूतानामधिपतिर्बभूव ।तस्य मृत्युश्चरति राजसूयं स राजा अनु मन्यतामिदम् ॥१॥
अभि प्रेहि माप वेन उग्रश्चेत्ता सपत्नहा ।आ तिष्ठ मित्रवर्धन तुभ्यं देवा अधि ब्रुवन् ॥२॥
आतिष्ठन्तं परि विश्वे अभूषं छ्रियं वसानश्चरति स्वरोचिः ।महत्तद्वृष्णो असुरस्य नामा विश्वरूपो अमृतानि तस्थौ ॥३॥
व्याघ्रो अधि वैयाघ्रे वि क्रमस्व दिशो महीः ।विशस्त्वा सर्वा वाञ्छन्त्वापो दिव्याः पयस्वतीः ॥४॥
या आपो दिव्याः पयसा मदन्त्यन्तरिक्ष उत वा पृथिव्याम् ।तासां त्वा सर्वासामपामभि षिञ्चामि वर्चसा ॥५॥
अभि त्वा वर्चसासिचन्न् आपो दिव्याः पयस्वतीः ।यथासो मित्रवर्धनस्तथा त्वा सविता करत्॥६॥
एना व्याघ्रं परिषस्वजानाः सिंहं हिन्वन्ति महते सौभगाय ।समुद्रं न सुभुवस्तस्थिवांसं मर्मृज्यन्ते द्वीपिनमप्स्वन्तः ॥७॥
Atharvaveda by the Vedic rishis (seers), Atharvan and Angiras first among them, each named with their hymns. Sanskrit text of the Shaunaka Samhita (20 kandas, 731 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Atharvaveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.