अथर्ववेदसंहिता (शौनकीया) · Kanda 2
सूक्तम् २.३६
Ask AIऋषिः — पतिवेदनः · दे. १ अग्निः, २ सोमः, अर्यमा, धाता, ३ अग्नीषोमौ, ४ इन्द्रः, ५ सूर्यः, ६ धनपतिः, ७ भगः, ८ औषधिः। त्रिष्टुप्, - -- ---
आ नो अग्ने सुमतिं संभलो गमेदिमां कुमारीं सह नो भगेन ।जुष्टा वरेषु समनेषु वल्गुरोषं पत्या सौभगमस्तु अस्यै ॥१॥
सोमजुष्टं ब्रह्मजुष्टमर्यम्णा संभृतं भगम् ।धातुर्देवस्य सत्येन कृणोमि पतिवेदनम् ॥२॥
इयमग्ने नारी पतिं विदेष्ट सोमो हि राजा सुभगां कृणोति ।सुवाना पुत्रान् महिषी भवाति गत्वा पतिं सुभगा वि राजतु ॥३॥
यथाखरो मघवंश्चारुरेष प्रियो मृगाणां सुषदा बभूव ।एवा भगस्य जुष्टेयमस्तु नारी संप्रिया पत्याविराधयन्ती ॥४॥
भगस्य नावमा रोह पूर्णामनुपदस्वतीम् ।तयोपप्रतारय यो वरः प्रतिकाम्यः ॥५॥
आ क्रन्दय धनपते वरमामनसं कृणु ।सर्वं प्रदक्षिणं कृणु यो वरः प्रतिकाम्यः ॥६॥
7इदं हिरण्यं गुल्गुल्वयमौक्षो अथो भगः ।एते पतिभ्यस्त्वामदुः प्रतिकामाय वेत्तवे ॥७
आ ते नयतु सविता नयतु पतिर्यः प्रतिकाम्यः ।त्वमस्यै धेह्योषधे ॥८॥
Atharvaveda by the Vedic rishis (seers), Atharvan and Angiras first among them, each named with their hymns. Sanskrit text of the Shaunaka Samhita (20 kandas, 731 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Atharvaveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.