अथर्ववेदसंहिता (शौनकीया) · Kanda 2
सूक्तम् २.३
Ask AIऋषिः — अङ्गिराः · दे. भैषज्यं, आयुः, धन्वन्तरिः। अनुष्टुप्, ६ त्रिपदा स्वराडुपरिष्टान्महाबृहती।
अदो यदवधावत्यवत्कमधि पर्वतात्।तत्ते कृणोमि भेषजं सुभेषजं यथाससि ॥१॥
आदङ्गा कुविदङ्ग शतं या भेषजानि ते ।तेषामसि त्वमुत्तममनास्रावमरोगणम् ॥२॥
नीचैः खनन्त्यसुरा अरुस्राणमिदं महत्।तदास्रावस्य भेषजं तदु रोगमनीनशत्॥३॥
उपजीका उद्भरन्ति समुद्रादधि भेषजम् ।तदास्रावस्य भेषजं तदु रोगमशीशमत्॥४॥
अरुस्राणमिदं महत्पृथिव्या अध्युद्भृतम् ।तदास्रावस्य भेषजं तदु रोगमनीनशत्॥५॥
शं नो भवन्त्वप ओषधयः शिवाः ।इन्द्रस्य वज्रो अप हन्तु रक्षस आराद्विसृष्टा इषवः पतन्तु रक्षसाम् ॥६॥
Atharvaveda by the Vedic rishis (seers), Atharvan and Angiras first among them, each named with their hymns. Sanskrit text of the Shaunaka Samhita (20 kandas, 731 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Atharvaveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.