अथर्ववेदसंहिता (शौनकीया) · Kanda 19
सूक्तम् १९.३१
Ask AIऋषिः — सविता (पुष्टिकामः) · दे. औदुम्बरमणिः। अनुष्टुप्, .........।
औदुम्बरेण मणिना पुष्टिकामाय वेधसा ।पशूनां सर्वेषां स्फातिं गोष्ठे मे सविता करत्॥१॥
यो नो अग्निर्गार्हपत्यः पशूनामधिपा असत्।औदुम्बरो वृषा मणिः सं मा सृजतु पुष्ट्या ॥२॥
करीषिणीं फलवतीं स्वधामिरां च नो गृहे ।औदुम्बरस्य तेजसा धाता पुष्टिं दधातु मे ॥३॥
यद्द्विपाच्च चतुष्पाच्च यान्यन्नानि ये रसाः ।गृह्णेऽहं त्वेषां भूमानं बिभ्रदौदुम्बरं मणिम् ॥४॥
पुष्टिं पशूनां परि जग्रभाहं चतुष्पदां द्विपदां यच्च धान्यम् ।पयः पशूनां रसमोषधीनां बृहस्पतिः सविता मे नि यच्छात्॥५॥
अहं पशूनामधिपा असानि मयि पुष्टं पुष्टपतिर्दधातु ।मह्यमौदुम्बरो मणिर्द्रविणानि नि यच्छतु ॥६॥
उप मौदुम्बरो मणिः प्रजया च धनेन च ।इन्द्रेण जिन्वितो मणिरा मागन्त्सह वर्चसा ॥७॥
देवो मणिः सपत्नहा धनसा धनसातये ।पशोरन्नस्य भूमानं गवां स्फातिं नि यच्छतु ॥८॥
यथाग्रे त्वं वनस्पते पुष्ट्या सह जज्ञिषे ।एवा धनस्य मे स्फातिमा दधातु सरस्वती ॥९॥
आ मे धनं सरस्वती पयस्फातिं च धान्यम् ।सिनीवाल्युपा वहादयं चौदुम्बरो मणिः ॥१०॥
त्वं मणीणामधिपा वृषासि त्वयि पुष्टं पुष्टपतिर्जजान ।त्वयीमे वाजा द्रविणानि सर्वौदुम्बरः स त्वमस्मत्सहस्वारादारादरातिममतिं क्षुधं च ॥११॥
ग्रामणीरसि ग्रामणीरुत्थाय अभिषिक्तोऽभि मा सिञ्च वर्चसा ।तेजोऽसि तेजो मयि धारयाधि रयिरसि रयिं मे धेहि ॥१२॥
पुष्टिरसि पुष्ट्या मा समङ्ग्धि गृहमेधी गृहपतिं मा कृणु ।औदुम्बरः स त्वमस्मासु धेहि रयिं च नः सर्ववीरं नि यच्छ रायस्पोषाय प्रति मुञ्चे अहं त्वाम् ॥१३॥
अयमौदुम्बरो मणिर्वीरो वीराय बध्यते ।स नः सनिं मधुमतीं कृणोतु रयिं च नः सर्ववीरं नि यच्छात्॥१४॥
Atharvaveda by the Vedic rishis (seers), Atharvan and Angiras first among them, each named with their hymns. Sanskrit text of the Shaunaka Samhita (20 kandas, 731 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Atharvaveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.