Dharmasthan

India's Digital Home for Devotion

Dharmasthan
Bhakti LibraryEvents CalendarDharmaVerseJap CounterDharma AIContestsSansthas
HOST ROOM
MandalSign In
Dharmasthan

India's Digital Home for Devotion.

|| भक्ति· से ही शांति है ||

Hindu prayers, aarti and bhajan lyrics, mandals and festivals across India.

Explore

  • Bhakti Library
  • Aartis
  • Bhajans
  • Devotional Songs
  • Mantras
  • Stotrams
  • Chalisas
  • Shlokas
  • Stutis & Ashtakams
  • Vrat Kathas
  • Marathi Prayers
  • Hindi Prayers
  • Sanskrit Prayers
  • Videos
  • Hindu Stories
  • Holy Books
  • DharmaVerse
  • Events Calendar
  • By Deity
  • Festival Playlists
  • Upcoming Festivals
  • Jap Counter
  • Contests
  • Events

For Mandals

  • Mandal Login
  • Register Mandal
  • Discover Mandals
  • Donation Campaigns

About

  • About Us
  • Contact
  • Privacy Policy
  • Terms of Service
  • Consent Policy
  • Platform Admin

© 2026 Dharmasthan - devotion, in one place

Made with devotion in India

Home
Bhakti Library
Jap
DharmaVerse
  1. Home
  2. Bhakti Library
  3. Holy Books
  4. Atharvaveda
  5. Kanda 18
  6. सूक्तम् १८.३

अथर्ववेदसंहिता (शौनकीया) · Kanda 18

सूक्तम् १८.३

संस्कृतEnglish
Ask AI

ऋषिः — अथर्वा · दे. यमः, ४४, ४६ मन्त्रोक्ताः, ५-६ अग्निः, ५० भूमिः, ५४ इन्दुः, ५६ आपः।त्रिष्टुप्, - --- - - -

इयं नारी पतिलोकं वृणाना नि पद्यत उप त्वा मर्त्य प्रेतम् ।धर्मं पुराणमनुपालयन्ती तस्यै प्रजां द्रविणं चेह धेहि ॥१॥

उदीर्ष्व नार्यभि जीवलोकं गतासुमेतमुप शेष एहि ।हस्तग्राभस्य दधिषोस्तवेदं पत्युर्जनित्वमभि सं बभूथ ॥२॥

अपश्यं युवतिं नीयमानां जीवां मृतेभ्यः परिणीयमानाम् ।अन्धेन यत्तमसा प्रावृतासीत्प्राक्तो अपाचीमनयं तदेनाम् ॥३॥

प्रजानत्यघ्न्ये जीवलोकं देवानां पन्थामनुसंचरन्ती ।अयं ते गोपतिस्तं जुषस्व स्वर्गं लोकमधि रोहयैनम् ॥४॥

उप द्यामुप वेतसमवत्तरो नदीनाम् ।अग्ने पित्तमपामसि ॥५॥

यं त्वमग्ने समदहस्तमु निर्वापय पुनः ।क्याम्बूरत्र रोहतु शाण्डदूर्वा व्यल्कशा ॥६॥

इदं त एकं पुर ऊ त एकं तृतीयेन ज्योतिषा सं विशस्व ।संवेशने तन्वा चारुरेधि प्रियो देवानां परमे सधस्थे ॥७॥

उत्तिष्ठ प्रेहि प्र द्रवौकः कृणुष्व सलिले सधस्थे ।तत्र त्वं पितृभिः संविदानः सं सोमेन मदस्व सं स्वधाभिः ॥८॥

प्र च्यवस्व तन्वं सं भरस्व मा ते गात्रा वि हायि मो शरीरम् ।मनो निविष्टमनुसंविशस्व यत्र भूमेर्जुषसे तत्र गच्छ ॥९॥

10वर्चसा मां पितरः सोम्यासो अञ्जन्तु देवा मधुना घृतेन ।चक्षुषे मा प्रतरं तारयन्तो जरसे मा जरदष्टिं वर्धन्तु ॥१०॥ {१३}

वर्चसा मां समनक्त्वग्निर्मेधां मे विष्णुर्न्यनक्त्वासन् ।रयिं मे विश्वे नि यच्छन्तु देवाः स्योना मापः पवनैः पुनन्तु ॥११॥

मित्रावरुणा परि मामधातामादित्या मा स्वरवो वर्धयन्तु ।वर्चो म इन्द्रो न्यनक्तु हस्तयोर्जरदष्टिं मा सविता कृणोतु ॥१२॥

यो ममार प्रथमो मर्त्यानां यः प्रेयाय प्रथमो लोकमेतम् ।वैवस्वतं संगमनं जनानां यमं राजानं हविषा सपर्यत ॥१३॥

परा यात पितर आ च यातायं वो यज्ञो मधुना समक्तः ।दत्तो अस्मभ्यं द्रविणेह भद्रं रयिं च नः सर्ववीरं दधात ॥१४॥

कण्वः कक्षीवान् पुरुमीढो अगस्त्यः श्यावाश्वः सोभर्यर्चनानाः ।विश्वामित्रोऽयं जमदग्निरत्रिरवन्तु नः कश्यपो वामदेवः ॥१५॥

विश्वामित्र जमदग्ने वसिष्ठ भरद्वाज गोतम वामदेव ।शर्दिर्नो अत्रिरग्रभीन् नमोभिः सुसंशासः पितरो मृडता नः ॥१६॥

कस्ये मृजाना अति यन्ति रिप्रमायुर्दधानाः प्रतरं नवीयः ।आप्यायमानाः प्रजया धनेनाध स्याम सुरभयो गृहेषु ॥१७॥

अञ्जते व्यञ्जते समञ्जते क्रतुं रिहन्ति मधुनाभ्यञ्जते ।सिन्धोरुच्छ्वासे पतयन्तमुक्षणं हिरण्यपावाः पशुमासु गृह्नते ॥१८॥

यद्वो मुद्रं पितरः सोम्यं च तेनो सचध्वं स्वयशसो हि भूत ।ते अर्वाणः कवय आ शृणोत सुविदत्रा विदथे हुयमानाः ॥१९॥

20ये अत्रयो अङ्गिरसो नवग्वा इष्टावन्तो रातिषाचो दधानाः ।दक्षिणावन्तः सुकृतो य उ स्थासद्यास्मिन् बर्हिषि मादयध्वम् ॥२०॥ {१४}

अधा यथा नः पितरः परासः प्रत्नासो अग्न ऋतमाशशानाः ।शुचीदयन् दीध्यत उक्थशसः क्षामा भिन्दन्तो अरुणीरप व्रन् ॥२१॥

सुकर्मानः सुरुचो देवयन्तो अयो न देवा जनिमा धमन्तः ।शुचन्तो अग्निं वावृधन्त इन्द्रमुर्वीं गव्यां परिषदं नो अक्रन् ॥२२॥

आ यूथेव क्षुमति पश्वो अख्यद्देवानां जनिमान्त्युग्रः ।मर्तासश्चिदुर्वशीरकृप्रन् वृधे चिदर्य उपरस्यायोः ॥२३॥

अकर्म ते स्वपसो अभूम ऋतमवस्रन्न् उषसो विभातीः ।विश्वं तद्भद्रं यदवन्ति देवा बृहद्वदेम विदथे सुवीराः ॥२४॥

इन्द्रो मा मरुत्वान् प्राच्या दिशः पातु बाहुच्युता पृथिवी द्यामिवोपरि ।लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२५॥

धाता मा निर्ऋत्या दक्षिणाया दिशः पातु बाहुच्युता पृथिवी द्यामिवोपरि ।लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२६॥

अदितिर्मादित्यैः प्रतीच्या दिशः पातु बाहुच्युता पृथिवी द्यामिवोपरि ।लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२७॥

सोमो मा विश्वैर्देवैरुदीच्या दिशः पातु बाहुच्युता पृथिवी द्यामिवोपरि ।लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२८॥

धर्ता ह त्वा धरुणो धारयाता ऊर्ध्वं भानुं सविता द्यामिवोपरि ।लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२९॥

30प्राच्यां त्वा दिशि पुरा सम्वृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि ।लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥३०॥ {१५}

दक्षिणायां त्वा दिशि पुरा सम्वृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि ।लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥३१॥

प्रतीच्यां त्वा दिशि पुरा संवृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि ।लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥३२॥

उदीच्यां त्वा दिशि पुरा सम्वृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि ।लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥३३॥

ध्रुवायां त्वा दिशि पुरा संवृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि ।लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥३४॥

ऊर्ध्वायां त्वा दिशि पुरा सम्वृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि ।लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥३५॥

धर्तासि धरुनोऽसि वंसगोऽसि ॥३६॥

उदपूरसि मधुपूरसि वातपूरसि ॥३७॥

इतश्च मामुतश्चावतां यमे इव यतमाने यदैतम् ।प्र वां भरन् मानुषा देवयन्तो आ सीदतां स्वमु लोकं विदाने ॥३८॥

स्वासस्थे भवतमिन्दवे नो युजे वां ब्रह्म पूर्व्यं नमोभिः ।वि श्लोक एति पथ्येव सूरिः शृण्वन्तु विश्वे अमृतास एतत्॥३९॥

40त्रीणि पदानि रुपो अन्वरोहच्चतुष्पदीमन्वेतद्व्रतेन ।अक्षरेण प्रति मिमीते अर्कमृतस्य नाभावभि सं पुनाति ॥४०॥ {१६}

देवेभ्यः कमवृणीत मृत्युं प्रजायै किममृतं नावृणीत ।बृहस्पतिर्यज्ञमतनुत ऋषिः प्रियां यमस्तन्वमा रिरेच ॥४१॥

त्वमग्न ईडितो जातवेदोऽवाड्ढव्यानि सुरभीणि कृत्वा ।प्रादाः पितृभ्यः स्वधया ते अक्षन्न् अद्धि त्वं देव प्रयता हवींषि ॥४२॥

आसीनासो अरुणीनामुपस्थे रयिं धत्त दाशुषे मर्त्याय ।पुत्रेभ्यः पितरस्तस्य वस्वः प्र यच्छत त इहोर्जं दधात ॥४३॥

अग्निष्वात्ताः पितर एह गच्छत सदःसदः सदत सुप्रणीतयः ।अत्तो हवींषि प्रयतानि बर्हिषि रयिं च नः सर्ववीरं दधात ॥४४॥

उपहूता नः पितरः सोम्यासो बर्हिष्येषु निधिषु प्रियेषु ।त आ गमन्तु त इह श्रुवन्त्वधि ब्रुवन्तु तेऽवन्त्वस्मान् ॥४५॥

ये नः पितुः पितरो ये पितामहा अनूजहिरे सोमपीथं वसिष्ठाः ।तेभिर्यमः सम्रराणो हवींष्युशन्न् उशद्भिः प्रतिकाममत्तु ॥४६॥

ये तातृषुर्देवत्रा जेहमाना होत्राविदः स्तोमतष्टासो अर्कैः ।आग्ने याहि सहस्रं देववन्दैः सत्यैः कविभिर्ऋषिभिर्घर्मसद्भिः ॥४७॥

ये सत्यासो हविरदो हविष्पा इन्द्रेण देवैः सरथं तुरेण ।आग्ने याहि सुविदत्रेभिरर्वाङ्परैः पूर्वैर्ऋषिभिर्घर्मसद्भिः ॥४८॥

उप सर्प मातरं भूमिमेतामुरुव्यचसं पृथिवीं सुशेवाम् ।ऊर्णम्रदाः पृथिवी दक्षिणावत एषा त्वा पातु प्रपथे पुरस्तात्॥४९॥

50उच्छ्वञ्चस्व पृथिवि मा नि बाधथाः सूपायनास्मै भव सूपसर्पणा ।माता पुत्रं यथा सिचाभ्येनं भूम ऊर्णुहि ॥५०॥ {१७}

उच्छ्वञ्चमाना पृथिवी सु तिष्ठतु सहस्रं मित उप हि श्रयन्ताम् ।ते गृहासो घृतश्चुतः स्योना विश्वाहास्मै शरणाः सन्त्वत्र ॥५१॥

उत्ते स्तभ्नामि पृथिवीं त्वत्परीमं लोगं निदधन् मो अहं रिषम् ।एतां स्थूणां पितरो धारयन्ति ते तत्र यमः सादना ते कृणोतु ॥५२॥

इममग्ने चमसं मा वि जिह्वरः प्रियो देवानामुत सोम्यानाम् ।अयं यश्चमसो देवपानस्तस्मिन् देवा अमृता मादयन्ताम् ॥५३॥

अथर्वा पूर्णं चमसं यमिन्द्रायाबिभर्वाजिनीवते ।तस्मिन् कृणोति सुकृतस्य भक्षं तस्मिन् इन्दुः पवते विश्वदानीम् ॥५४॥

यत्ते कृष्णः शकुन आतुतोद पिपीलः सर्प उत वा श्वापदः ।अग्निष्टद्विश्वादगदं कृणोतु सोमश्च यो ब्राह्मणामाविवेश ॥५५॥

पयस्वतीरोषधयः पयस्वन् मामकं पयः ।अपां पयसो यत्पयस्तेन मा सह शुम्भतु ॥५६॥

इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा सं स्पृशन्ताम् ।अनश्रवो अनमीवाः सुरत्ना आ रोहन्तु जनयो योनिमग्रे ॥५७॥

सं गच्छस्व पितृभिः सं यमेनेष्टापूर्तेन परमे व्योमन् ।हित्वावद्यं पुनरस्तमेहि सं गच्छतां तन्वा सुवर्चाः ॥५८॥

ये नः पितुः पितरो ये पितामहा य आविविशुरुर्वन्तरिक्षम् ।तेभ्यः स्वरादसुनीतिर्नो अद्य वथावशं तन्वः कल्पयाति ॥५९॥

60शं ते नीहारो भवतु शं ते प्रुष्वाव शीयताम् ।शीतिके शीतिकावति ह्लादिके ह्लादिकावति ।मण्डूक्यप्सु शं भुव इमं स्वग्निं शमय ॥६०॥ {१८}

विवस्वान् नो अभयं कृणोतु यः सुत्रामा जीरदानुः सुदानुः ।इहेमे वीरा बहवो भवन्तु गोमदश्ववन् मय्यस्तु पुष्टम् ॥६१॥

विवस्वान् नो अमृतत्वे दधातु परैतु मृत्युरमृतं न ऐतु ।इमान् रक्षतु पुरुषान् आ जरिम्णो मो स्वेषामसवो यमं गुः ॥६२॥

यो दध्रे अन्तरिक्षे न मह्ना पितॄणां कविः प्रमतिर्मतीनाम् ।तमर्चत विश्वमित्रा हविर्भिः स नो यमः प्रतरं जीवसे धात्॥६३॥

आ रोहत दिवमुत्तमामृषयो मा बिभीतन ।सोमपाः सोमपायिन इदं वः क्रियते हविरगन्म ज्योतिरुत्तमम् ॥६४॥

प्र केतुना बृहता भात्यग्निरा रोदसी वृषभो रोरवीति ।दिवश्चिदन्तादुपमामुदानडपामुपस्थे महिषो ववर्ध ॥६५॥

नाके सुपर्णमुप यत्पतन्तं ह्र्दा वेनन्तो अभ्यचक्षत त्वा ।हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं भुरन्युम् ॥६६॥

इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा ।शिक्षा णो अस्मिन् पुरुहूत यामनि जीवा ज्योतिरशीमहि ॥६७॥

अपूपापिहितान् कुम्भान् यांस्ते देवा अधारयन् ।ते ते सन्तु स्वधावन्तो मधुमन्तो घृतश्चुतः ॥६८॥

यास्ते धाना अनुकिरामि तिलमिश्रा स्वधावतीः ।तास्ते सन्तु विभ्वीः प्रभ्वीस्तास्ते यमो राजानु मन्यताम् ॥६९॥

पुनर्देहि वनस्पते य एष निहितस्त्वयि ।यथा यमस्य सादन आसातौ विदथा वदन् ॥७०॥

आ रभस्व जातवेदस्तेजस्वद्धरो अस्तु ते ।शरीरमस्य सं दहाथैनं देहि सुकृतामु लोके ॥७१॥

ये ते पूर्वे परागता अपरे पितरश्च ये ।तेभ्यो घृतस्य कुल्यैतु शतधारा व्युन्दती ॥७२॥

73एतदा रोह वय उन्मृजानः स्वा इह बृहदु दीदयन्ते ।अभि प्रेहि मध्यतो माप हास्थाः पितॄनां लोकं प्रथमो यो अत्र ॥७३॥ {१९}

Atharvaveda by the Vedic rishis (seers), Atharvan and Angiras first among them, each named with their hymns. Sanskrit text of the Shaunaka Samhita (20 kandas, 731 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Atharvaveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.

सूक्तम् १८.२सूक्तम् १८.४

Related on Dharmasthan

  • Atharvaveda: contents and about
  • Rigveda
  • The four Vedas
  • The Rigveda’s wedding hymn of Surya (10.85), the source of Book 14
  • The Purusha Sukta in the Rigveda (10.90), found again as Atharvaveda 19.6
  • All mantras
  • Shlokas
  • Surya mantras and stotrams