अथर्ववेदसंहिता (शौनकीया) · Kanda 15
सूक्तम् १५.६
Ask AIऋषिः — अथर्वा · दे. अध्यात्मम्, व्रात्यः। १, ४ आसुरी पङ्क्तिः, ७, १०, १३, १६, २५ आसुरी बृहती, - - - - -- -
1स ध्रुवां दिशमनु व्यचलत्। [१]
2तं भूमिश्चाग्निश्चौषधयश्च वनस्पतयश्च वानस्पत्याश्च वीरुधश्चानुव्यचलन् ।भूमेश्च वै सोऽग्नेश्चौषधीनां च वनस्पतीनां च वानस्पत्यानां च वीरुधां च प्रियं धाम भवति य एवं वेदस ऊर्ध्वां दिशमनु व्यचलत्। [४]
3तमृतं च सत्यं च सूर्यश्च चन्द्रश्च नक्षत्राणि चानुव्यचलन् । [५]
4ऋतस्य च वै स सत्यस्य च सूर्यस्य च चन्द्रस्य च नक्षत्राणां च प्रियं धाम भवति य एवं वेदस उत्तमां दिशमनु व्यचलत्। [७]
5तमृचश्च सामानि च यजूंषि च ब्रह्म चानुव्यचलन् । [८]
ऋचां च वै स साम्नां च यजुषां च ब्रह्मणश्च प्रियं धाम भवति य एवं वेद ॥३॥
7स बृहतीं दिशमनु व्यचलत्। [१०]
8तमितिहासश्च पुराणं च गाथाश्च नाराशंसीश्चानुव्यचलन् । [११]
9इतिहासस्य च वै स पुराणस्य च गाथानां च नाराशंसीनां च प्रियं धाम भवति य एवं वेद।।स परमां दिशमनु व्यचलत्। [१३]
10तमाहवनीयश्च गार्हपत्यश्च दक्षिणाग्निश्च यज्ञश्च यजमानश्च पशवश्चानुव्यचलन्।।आहवनीयस्य च वै स गार्हपत्यस्य च दक्षिणाग्नेश्च यज्ञस्य च यजमानस्य च पशूनां च प्रियं धाम भवति य एवं वेदसोऽनादिष्टां दिशमनु व्यचलत्। [१६]
11तमृतवश्चार्तवाश्च लोकाश्च लौक्याश्च मासाश्चार्धमासाश्चाहोरात्रे चानुव्यचलन्।।ऋतूनां च वै स आर्तवानां च लोकानां च लौक्यानां च मासानां चार्धमासानां चाहोरात्रयोश्च प्रियं धाम भवति य एवं वेदसोऽनावृत्तां दिशमनु व्यचलत्ततो नावर्त्स्यन्न् अमन्यत । [१९]
12तं दितिश्चादितिश्चेडा चेन्द्राणी चानुव्यचलन् । [२०]
13दितेश्च वै सोऽदितेश्चेडायाश्चेन्द्राण्याश्च प्रियं धाम भवति य एवं वेदस दिशोऽनु व्यचलत्तं विराडनु व्यचलत्सर्वे च देवाः सर्वाश्च देवताः । [२२]
14विराजश्च वै स सर्वेषां च देवानां सर्वासां च देवतानां प्रियं धाम भवति य एवं वेद।।स सर्वान् अन्तर्देशान् अनु व्यचलत्। [२४]
15तं प्रजापतिश्च परमेष्ठी च पिता च पितामहश्चानुव्यचलन् । [२५]प्रजापतेश्च वै स परमेष्ठिनश्च पितुश्च पितामहस्य च प्रियं धाम भवति य एवं वेद।।
Atharvaveda by the Vedic rishis (seers), Atharvan and Angiras first among them, each named with their hymns. Sanskrit text of the Shaunaka Samhita (20 kandas, 731 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Atharvaveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.