अथर्ववेदसंहिता (शौनकीया) · Kanda 11
सूक्तम् ११.६
Ask AIऋषिः — शन्तातिः · दे. चन्द्रमाः, मन्त्रोक्ताः । अनुष्टुप्, २३ बृहतीगर्भा
अग्निं ब्रूमो वनस्पतीन् ओषधीरुत वीरुधः ।इन्द्रं बृहस्पतिं सूर्यं ते नो मुञ्चन्त्वंहसः ॥१॥
ब्रूमो राजानं वरुणं मित्रं विष्णुमथो भगम् ।अंशं विवस्वन्तं ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥२॥
ब्रूमो देवं सवितारं धातारमुत पूषणम् ।त्वष्टारमग्रियं ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥३॥
गन्धर्वाप्सरसो ब्रूमो अश्विना ब्रह्मणस्पतिम् ।अर्यमा नाम यो देवस्ते नो मुञ्चन्त्वंहसः ॥४॥
अहोरात्रे इदं ब्रूमः सूर्याचन्द्रमसावुभा ।विश्वान् आदित्यान् ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥५॥
वातं ब्रूमः पर्जन्यमन्तरिक्षमथो दिशः ।आशाश्च सर्वा ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥६॥
मुञ्चन्तु मा शपथ्यादहोरात्रे अथो उषाः ।सोमो मा देवो मुञ्चतु यमाहुश्चन्द्रमा इति ॥७॥
पार्थिवा दिव्याः पशव आरण्या उत ये मृगाः ।शकुन्तान् पक्षिणो ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥८॥
भवाशर्वाविदं ब्रूमो रुद्रं पशुपतिश्च यः ।इषूर्या एषां संविद्म ता नः सन्तु सदा शिवाः ॥९॥
10दिवं ब्रूमो नक्षत्राणि भूमिं यक्षाणि पर्वतान् ।समुद्रा नद्यो वेशन्तास्ते नो मुञ्चन्त्वंहसः ॥१०॥ {१७}
11सप्तऋषीन् वा इदं ब्रूमोऽपो देवीः प्रजापतिम् ।पितॄन् यमश्रेष्ठान् ब्रूमस्ते नो मुञ्चन्त्वंहसः ।११॥
ये देवा दिविषदो अन्तरिक्षसदश्च ये ।पृथिव्यां शक्रा ये श्रितास्ते नो मुञ्चन्त्वंहसः ॥१२॥
आदित्या रुद्रा वसवो दिवि देवा अथर्वाणः ।अङ्गिरसो मनीषिणस्ते नो मुञ्चन्त्वंहसः ॥१३॥
यज्ञं ब्रूमो यजमानमृचः सामानि भेषजा ।यजूंषि होत्रा ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥१४॥
पञ्च राज्यानि वीरुधां सोमश्रेष्ठानि ब्रूमः ।दर्भो भङ्गो यवः सहस्ते नो मुञ्चन्त्वंहसः ॥१५॥
अरायान् ब्रूमो रक्षांसि सर्पान् पुण्यजनान् पितॄन् ।मृत्यून् एकशतं ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥१६॥
ऋतून् ब्रूम ऋतुपतीन् आर्तवान् उत हायनान् ।समाः संवत्सरान् मासांस्ते नो मुञ्चन्त्वंहसः ॥१७॥
एत देवा दक्षिणतः पश्चात्प्राञ्च उदेत ।पुरस्तादुत्तराच्छक्रा विश्वे देवाः समेत्य ते नो मुञ्चन्त्वंहसः ॥१८॥
विश्वान् देवान् इदं ब्रूमः सत्यसन्धान् ऋतावृधः ।विश्वाभिः पत्नीभिः सह ते नो मुञ्चन्त्वंहसः ॥१९॥
सर्वान् देवान् इदं ब्रूमः सत्यसन्धान् ऋतावृधः ।सर्वाभिः पत्नीभिः सह ते नो मुञ्चन्त्वंहसः ॥२०॥
भूतं ब्रूमो भूतपतिं भूतानामुत यो वशी ।भूतानि सर्वा संगत्य ते नो मुञ्चन्त्वंहसः ॥२१॥
या देवीः पञ्च प्रदिशो ये देवा द्वादश ऋतवः ।संवत्सरस्य ये दंष्ट्रास्ते नः सन्तु सदा शिवाः ॥२२॥
23यन् मातली रथक्रीतममृतं वेद भेषजम् ।तदिन्द्रो अप्सु प्रावेशयत्तदापो दत्त भेषजम् ॥२३॥ {१८}
Atharvaveda by the Vedic rishis (seers), Atharvan and Angiras first among them, each named with their hymns. Sanskrit text of the Shaunaka Samhita (20 kandas, 731 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Atharvaveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.