अथर्ववेदसंहिता (शौनकीया) · Kanda 10
सूक्तम् १०.९
Ask AIऋषिः — अथर्वा · दे. शतौदना। अनुष्टुप्- - - - -
अघायतामपि नह्या मुखानि सपत्नेषु वज्रमर्पयैतम् ।इन्द्रेण दत्ता प्रथमा शतौदना भ्रातृव्यघ्नी यजमानस्य गातुः ॥१॥
वेदिष्टे चर्म भवतु बर्हिर्लोमानि यानि ते ।एषा त्वा रशनाग्रभीद्ग्रावा त्वैषोऽधि नृत्यतु ॥२॥
बालास्ते प्रोक्षणीः सन्तु जिह्वा सं मार्ष्टु अघ्न्ये ।शुद्धा त्वं यज्ञिया भूत्वा दिवं प्रेहि शतौदने ॥३॥
यः शतौदनां पचति कामप्रेण स कल्पते ।प्रीता ह्यस्य ऋत्विजः सर्वे यन्ति यथायथम् ॥४॥
स स्वर्गमा रोहति यत्रादस्त्रिदिवं दिवः ।अपूपनाभिं कृत्वा यो ददाति शतौदनाम् ॥५॥
स तांल्लोकान्त्समाप्नोति ये दिव्या ये च पार्थिवाः ।हिरण्यज्योतिषं कृत्वा यो ददाति शतौदनाम् ॥६॥
ये ते देवि शमितारः पक्तारो ये च ते जनाः ।ते त्वा सर्वे गोप्स्यन्ति मैभ्यो भैषीः शतौदने ॥७॥
वसवस्त्वा दक्षिणत उत्तरान् मरुतस्त्वा ।आदित्याः पश्चाद्गोप्स्यन्ति साग्निष्टोममति द्रव ॥८॥
देवाः पितरो मनुष्या गन्धर्वाप्सरसश्च ये ।ते त्वा सर्वे गोप्स्यन्ति सातिरात्रमति द्रव ॥९॥
10अन्तरिक्षं दिवं भूमिमादित्यान् मरुतो दिशः ।लोकान्त्स सर्वान् आप्नोति यो ददाति शतौदनाम् ॥१०॥ {३०}
घृतं प्रोक्षन्ती सुभगा देवी देवान् गमिष्यति ।पक्तारमघ्न्ये मा हिंसीर्दिवं प्रेहि शतौदने ॥११॥
ये देवा दिविषदो अन्तरिक्षसदश्च ये ये चेमे भूम्यामधि ।तेभ्यस्त्वं धुक्ष्व सर्वदा क्षीरं सर्पिरथो मधु ॥१२॥
यत्ते शिरो यत्ते मुखं यौ कर्णौ ये च ते हनू ।आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥१३॥
यौ त ओष्ठौ ये नासिके ये शृङ्गे ये च तेऽक्षिणी ।आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥१४॥
यत्ते क्लोमा यद्धृदयं पुरीतत्सहकण्ठिका ।आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥१५॥
यत्ते यकृद्ये मतस्ने यदान्त्रं याश्च ते गुदाः ।आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥१६॥
यस्ते प्लाशिर्यो वनिष्ठुर्यौ कुक्षी यच्च चर्म ते ।आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥१७॥
यत्ते मज्जा यदस्थि यन् मंसं यच्च लोहितम् ।आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥१८॥
यौ ते बाहू ये दोषणी यावंसौ या च ते ककुत्।आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥१९॥
20यास्ते ग्रीवा ये स्कन्धा याः पृष्टीर्याश्च पर्शवः ।आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥२०॥ {३१}
यौ त उरू अष्ठीवन्तौ ये श्रोणी या च ते भसत्।आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥२१॥
यत्ते पुच्छं ये ते बाला यदूधो ये च ते स्तनाः ।आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥२२॥
यास्ते जङ्घाः याः कुष्ठिका ऋच्छरा ये च ते शफाः ।आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥२३॥
यत्ते चर्म शतौदने यानि लोमान्यघ्न्ये ।आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥२४॥
क्रोडौ ते स्तां पुरोडाशावाज्येनाभिघारितौ ।तौ पक्षौ देवि कृत्वा सा पक्तारं दिवं वह ॥२५॥
उलूखले मुसले यश्च चर्मणि यो वा शूर्पे तण्डुलः कणः ।यं वा वातो मातरिश्वा पवमानो ममाथाग्निष्टद्धोता सुहुतं कृणोतु ॥२६॥
27अपो देवीर्मधुमतीर्घृतश्चुतो ब्रह्मणां हस्तेषु प्रपृथक्सादयामि ।यत्काम इदमभिषिञ्चामि वोऽहं तन् मे सर्वं सं पद्यतां वयं स्याम पतयो रयीणाम् ॥२७॥ {३२}
Atharvaveda by the Vedic rishis (seers), Atharvan and Angiras first among them, each named with their hymns. Sanskrit text of the Shaunaka Samhita (20 kandas, 731 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Atharvaveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.