Shri Lalita Sahasranama Stotram
Lalitha Sahasranamam Full - MS Subbalakshmi | Sri Lalitha Sahasranama Stotram
Durga stotram in Sanskrit.
Shri Lalita Sahasranama Stotram
॥ न्यासः ॥
अस्य श्रीललितासहस्रनामस्तोत्रमालामन्त्रस्य ।
वशिन्यादिवाग्देवता ऋषयः ।
अनुष्टुप्छन्दः ।
श्रीललितापरमेश्वरी देवता ।
श्रीमद्वाग्भवकूटेति बीजम् ।
मध्यकूटेति शक्तिः ।
शक्तिकूटेति कीलकम् ।
श्रीललितामहात्रिपुरसुन्दरीप्रसादसिद्धिद्वारा
चिन्तितफलावाप्त्यर्थे जपे विनियोगः ।
॥ ध्यानम् ॥
सिन्दूरारुणविग्रहां त्रिनयनां माणिक्यमौलिस्फुरत्
तारानायकशेखरां स्मितमुखीमापीनवक्षोरुहाम् ।
पाणिभ्यामलिपूर्णरत्नचषकं रक्तोत्पलं बिभ्रतीं
सौम्यां रत्नघटस्थरक्तचरणां ध्यायेत्परामम्बिकाम् ॥
अरुणां करुणातरङ्गिताक्षीं
धृतपाशाङ्कुशपुष्पबाणचापाम् ।
अणिमादिभिरावृतां मयूखैः
अहमित्येव विभावये भवानीम् ॥
ध्यायेत्पद्मासनस्थां विकसितवदनां पद्मपत्रायताक्षीं
हेमाभां पीतवस्त्रां करकलितलसद्धेमपद्मां वराङ्गीम् ।
सर्वालङ्कारयुक्तां सततमभयदां भक्तनम्रां भवानीं
श्रीविद्यां शान्तमूर्तिं सकलसुरनुतां सर्वसम्पत्प्रदात्रीम् ॥
सकुङ्कुमविलेपनामलिकचुम्बिकस्तूरिकां
समन्दहसितेक्षणां सशरचापपाशाङ्कुशाम् ।
अशेषजनमोहिनीमरुणमाल्यभूषाम्बरां
जपाकुसुमभासुरां जपविधौ स्मरेदम्बिकाम् ॥
ॐ श्रीमाता श्रीमहाराज्ञी श्रीमत्सिंहासनेश्वरी ।
चिदग्निकुण्डसम्भूता देवकार्यसमुद्यता ॥ १ ॥
उद्यद्भानुसहस्राभा चतुर्बाहुसमन्विता ।
रागस्वरूपपाशाढ्या क्रोधाकाराङ्कुशोज्ज्वला ॥ २ ॥
मनोरूपेक्षुकोदण्डा पञ्चतन्मात्रसायका ।
निजारुणप्रभापूरमज्जद्ब्रह्माण्डमण्डला ॥ ३ ॥
चम्पकाशोकपुन्नागसौगन्धिकलसत्कचा ।
कुरुविन्दमणिश्रेणीकनत्कोटीरमण्डिता ॥ ४ ॥
अष्टमीचन्द्रविभ्राजदलिकस्थलशोभिता ।
मुखचन्द्रकलङ्काभमृगनाभिविशेषका ॥ ५ ॥
वदनस्मरमाङ्गल्यगृहतोरणचिल्लिका ।
वक्त्रलक्ष्मीपरीवाहचलन्मीनाभलोचना ॥ ६ ॥
नवचम्पकपुष्पाभनासादण्डविराजिता ।
ताराकान्तितिरस्कारिनासाभरणभासुरा ॥ ७ ॥
कदम्बमञ्जरीकॢप्तकर्णपूरमनोहरा ।
ताटङ्कयुगलीभूततपनोडुपमण्डला ॥ ८ ॥
पद्मरागशिलादर्शपरिभाविकपोलभूः ।
नवविद्रुमबिम्बश्रीन्यक्कारिरदनच्छदा ॥ ९ ॥
शुद्धविद्याङ्कुराकारद्विजपङ्क्तिद्वयोज्ज्वला ।
कर्पूरवीटिकामोदसमाकर्षद्दिगन्तरा ॥ १० ॥
निजसल्लापमाधुर्यविनिर्भर्त्सितकच्छपी ।
मन्दस्मितप्रभापूरमज्जत्कामेशमानसा ॥ ११ ॥
अनाकलितसादृश्यचिबुकश्रीविराजिता ।
कामेशबद्धमाङ्गल्यसूत्रशोभितकन्धरा ॥ १२ ॥
कनकाङ्गदकेयूरकमनीयभुजान्विता ।
रत्नग्रैवेयचिन्ताकलोलमुक्ताफलान्विता ॥ १३ ॥
कामेश्वरप्रेमरत्नमणिप्रतिपणस्तनी ।
नाभ्यालवालरोमालिलताफलकुचद्वयी ॥ १४ ॥
लक्ष्यरोमलताधारतासमुन्नेयमध्यमा ।
स्तनभारदलन्मध्यपट्टबन्धवलित्रया ॥ १५ ॥
अरुणारुणकौसुम्भवस्त्रभास्वत्कटीतटी ।
रत्नकिङ्किणिकारम्यरशनादामभूषिता ॥ १६ ॥
कामेशज्ञातसौभाग्यमार्दवोरुद्वयान्विता ।
माणिक्यमुकुटाकारजानुद्वयविराजिता ॥ १७ ॥
इन्द्रगोपपरिक्षिप्तस्मरतूणाभजङ्घिका ।
गूढगुल्फा कूर्मपृष्ठजयिष्णुप्रपदान्विता ॥ १८ ॥
नखदीधितिसंछन्ननमज्जनतमोगुणा ।
पदद्वयप्रभाजालपराकृतसरोरुहा ॥ १९ ॥
सिञ्जानमणिमञ्जीरमण्डितश्रीपदाम्बुजा ।
मरालीमन्दगमना महालावण्यशेवधिः ॥ २० ॥
सर्वारुणाऽनवद्याङ्गी सर्वाभरणभूषिता ।
शिवकामेश्वराङ्कस्था शिवा स्वाधीनवल्लभा ॥ २१ ॥
सुमेरुमध्यशृङ्गस्था श्रीमन्नगरनायिका ।
चिन्तामणिगृहान्तस्था पञ्चब्रह्मासनस्थिता ॥ २२ ॥
महापद्माटवीसंस्था कदम्बवनवासिनी ।
सुधासागरमध्यस्था कामाक्षी कामदायिनी ॥ २३ ॥
देवर्षिगणसंघातस्तूयमानात्मवैभवा ।
भण्डासुरवधोद्युक्तशक्तिसेनासमन्विता ॥ २४ ॥
सम्पत्करीसमारूढसिन्धुरव्रजसेविता ।
अश्वारूढाधिष्ठिताश्वकोटिकोटिभिरावृता ॥ २५ ॥
चक्रराजरथारूढसर्वायुधपरिष्कृता ।
गेयचक्ररथारूढमन्त्रिणीपरिसेविता ॥ २६ ॥
किरिचक्ररथारूढदण्डनाथापुरस्कृता ।
ज्वालामालिनिकाक्षिप्तवह्निप्राकारमध्यगा ॥ २७ ॥
भण्डसैन्यवधोद्युक्तशक्तिविक्रमहर्षिता ।
नित्यापराक्रमाटोपनिरीक्षणसमुत्सुका ॥ २८ ॥
भण्डपुत्रवधोद्युक्तबालाविक्रमनन्दिता ।
मन्त्रिण्यम्बाविरचितविषङ्गवधतोषिता ॥ २९ ॥
विशुक्रप्राणहरणवाराहीवीर्यनन्दिता ।
कामेश्वरमुखालोककल्पितश्रीगणेश्वरा ॥ ३० ॥
महागणेशनिर्भिन्नविघ्नयन्त्रप्रहर्षिता ।
भण्डासुरेन्द्रनिर्मुक्तशस्त्रप्रत्यस्त्रवर्षिणी ॥ ३१ ॥
कराङ्गुलिनखोत्पन्ननारायणदशाकृतिः ।
महापाशुपतास्त्राग्निनिर्दग्धासुरसैनिका ॥ ३२ ॥
कामेश्वरास्त्रनिर्दग्धसभण्डासुरशून्यका ।
ब्रह्मोपेन्द्रमहेन्द्रादिदेवसंस्तुतवैभवा ॥ ३३ ॥
हरनेत्राग्निसंदग्धकामसञ्जीवनौषधिः ।
श्रीमद्वाग्भवकूटैकस्वरूपमुखपङ्कजा ॥ ३४ ॥
कण्ठाधःकटिपर्यन्तमध्यकूटस्वरूपिणी ।
शक्तिकूटैकतापन्नकट्यधोभागधारिणी ॥ ३५ ॥
मूलमन्त्रात्मिका मूलकूटत्रयकलेवरा ।
कुलामृतैकरसिका कुलसंकेतपालिनी ॥ ३६ ॥
कुलाङ्गना कुलान्तस्था कौलिनी कुलयोगिनी ।
अकुला समयान्तस्था समयाचारतत्परा ॥ ३७ ॥
मूलाधारैकनिलया ब्रह्मग्रन्थिविभेदिनी ।
मणिपूरान्तरुदिता विष्णुग्रन्थिविभेदिनी ॥ ३८ ॥
आज्ञाचक्रान्तरालस्था रुद्रग्रन्थिविभेदिनी ।
सहस्राराम्बुजारूढा सुधासाराभिवर्षिणी ॥ ३९ ॥
तडिल्लतासमरुचिः षट्चक्रोपरिसंस्थिता ।
महासक्तिः कुण्डलिनी बिसतन्तुतनीयसी ॥ ४० ॥
भवानी भावनागम्या भवारण्यकुठारिका ।
भद्रप्रिया भद्रमूर्तिर्भक्तसौभाग्यदायिनी ॥ ४१ ॥
भक्तिप्रिया भक्तिगम्या भक्तिवश्या भयापहा ।
शाम्भवी शारदाराध्या शर्वाणी शर्मदायिनी ॥ ४२ ॥
शाङ्करी श्रीकरी साध्वी शरच्चन्द्रनिभानना ।
शातोदरी शान्तिमती निराधारा निरञ्जना ॥ ४३ ॥
निर्लेपा निर्मला नित्या निराकारा निराकुला ।
निर्गुणा निष्कला शान्ता निष्कामा निरुपप्लवा ॥ ४४ ॥
नित्यमुक्ता निर्विकारा निष्प्रपञ्चा निराश्रया ।
नित्यशुद्धा नित्यबुद्धा निरवद्या निरन्तरा ॥ ४५ ॥
निष्कारणा निष्कलङ्का निरुपाधिर्निरीश्वरा ।
नीरागा रागमथनी निर्मदा मदनाशिनी ॥ ४६ ॥
निश्चिन्ता निरहंकारा निर्मोहा मोहनाशिनी ।
निर्ममा ममताहन्त्री निष्पापा पापनाशिनी ॥ ४७ ॥
निष्क्रोधा क्रोधशमनी निर्लोभा लोभनाशिनी ।
निःसंशया संशयघ्नी निर्भवा भवनाशिनी ॥ ४८ ॥
निर्विकल्पा निराबाधा निर्भेदा भेदनाशिनी ।
निर्नाशा मृत्युमथनी निष्क्रिया निष्परिग्रहा ॥ ४९ ॥
निस्तुला नीलचिकुरा निरपाया निरत्यया ।
दुर्लभा दुर्गमा दुर्गा दुःखहन्त्री सुखप्रदा ॥ ५० ॥
दुष्टदूरा दुराचारशमनी दोषवर्जिता ।
सर्वज्ञा सान्द्रकरुणा समानाधिकवर्जिता ॥ ५१ ॥
सर्वशक्तिमयी सर्वमङ्गला सद्गतिप्रदा ।
सर्वेश्वरी सर्वमयी सर्वमन्त्रस्वरूपिणी ॥ ५२ ॥
सर्वयन्त्रात्मिका सर्वतन्त्ररूपा मनोन्मनी ।
माहेश्वरी महादेवी महालक्ष्मीर्मृडप्रिया ॥ ५३ ॥
महारूपा महापूज्या महापातकनाशिनी ।
महामाया महासत्त्वा महाशक्तिर्महारतिः ॥ ५४ ॥
महाभोगा महैश्वर्या महावीर्या महाबला ।
महाबुद्धिर्महासिद्धिर्महायोगेश्वरेश्वरी ॥ ५५ ॥
महातन्त्रा महामन्त्रा महायन्त्रा महासना ।
महायागक्रमाराध्या महाभैरवपूजिता ॥ ५६ ॥
महेश्वरमहाकल्पमहाताण्डवसाक्षिणी ।
महाकामेशमहिषी महात्रिपुरसुन्दरी ॥ ५७ ॥
चतुःषष्ट्युपचाराढ्या चतुःषष्टिकलामयी ।
महाचतुःषष्टिकोटियोगिनीगणसेविता ॥ ५८ ॥
मनुविद्या चन्द्रविद्या चन्द्रमण्डलमध्यगा ।
चारुरूपा चारुहासा चारुचन्द्रकलाधरा ॥ ५९ ॥
चराचरजगन्नाथा चक्रराजनिकेतना ।
पार्वती पद्मनयना पद्मरागसमप्रभा ॥ ६० ॥
पञ्चप्रेतासनासीना पञ्चब्रह्मस्वरूपिणी ।
चिन्मयी परमानन्दा विज्ञानघनरूपिणी ॥ ६१ ॥
ध्यानध्यातृध्येयरूपा धर्माधर्मविवर्जिता ।
विश्वरूपा जागरिणी स्वपन्ती तैजसात्मिका ॥ ६२ ॥
सुप्ता प्राज्ञात्मिका तुर्या सर्वावस्थाविवर्जिता ।
सृष्टिकर्त्री ब्रह्मरूपा गोप्त्री गोविन्दरूपिणी ॥ ६३ ॥
संहारिणी रुद्ररूपा तिरोधानकरीश्वरी ।
सदाशिवाऽनुग्रहदा पञ्चकृत्यपरायणा ॥ ६४ ॥
भानुमण्डलमध्यस्था भैरवी भगमालिनी ।
पद्मासना भगवती पद्मनाभसहोदरी ॥ ६५ ॥
उन्मेषनिमिषोत्पन्नविपन्नभुवनावलिः ।
सहस्रशीर्षवदना सहस्राक्षी सहस्रपात् ॥ ६६ ॥
आब्रह्मकीटजननी वर्णाश्रमविधायिनी ।
निजाज्ञारूपनिगमा पुण्यापुण्यफलप्रदा ॥ ६७ ॥
श्रुतिसीमन्तसिन्दूरीकृतपादाब्जधूलिका ।
सकलागमसन्दोहशुक्तिसम्पुटमौक्तिका ॥ ६८ ॥
पुरुषार्थप्रदा पूर्णा भोगिनी भुवनेश्वरी ।
अम्बिकाऽनादिनिधना हरिब्रह्मेन्द्रसेविता ॥ ६९ ॥
नारायणी नादरूपा नामरूपविवर्जिता ।
ह्रींकारी ह्रीमती हृद्या हेयोपादेयवर्जिता ॥ ७० ॥
राजराजार्चिता राज्ञी रम्या राजीवलोचना ।
रञ्जनी रमणी रस्या रणत्किङ्किणिमेखला ॥ ७१ ॥
रमा राकेन्दुवदना रतिरूपा रतिप्रिया ।
रक्षाकरी राक्षसघ्नी रामा रमणलम्पटा ॥ ७२ ॥
काम्या कामकलारूपा कदम्बकुसुमप्रिया ।
कल्याणी जगतीकन्दा करुणारससागरा ॥ ७३ ॥
कलावती कलालापा कान्ता कादम्बरीप्रिया ।
वरदा वामनयना वारुणीमदविह्वला ॥ ७४ ॥
विश्वाधिका वेदवेद्या विन्ध्याचलनिवासिनी ।
विधात्री वेदजननी विष्णुमाया विलासिनी ॥ ७५ ॥
क्षेत्रस्वरूपा क्षेत्रेशी क्षेत्रक्षेत्रज्ञपालिनी ।
क्षयवृद्धिविनिर्मुक्ता क्षेत्रपालसमर्चिता ॥ ७६ ॥
विजया विमला वन्द्या वन्दारुजनवत्सला ।
वाग्वादिनी वामकेशी वह्निमण्डलवासिनी ॥ ७७ ॥
भक्तिमत्कल्पलतिका पशुपाशविमोचिनी ।
संहृताशेषपाषण्डा सदाचारप्रवर्तिका ॥ ७८ ॥
तापत्रयाग्निसन्तप्तसमाह्लादनचन्द्रिका ।
तरुणी तापसाराध्या तनुमध्या तमोऽपहा ॥ ७९ ॥
चितिस्तत्पदलक्ष्यार्था चिदेकरसरूपिणी ।
स्वात्मानन्दलवीभूतब्रह्माद्यानन्दसन्ततिः ॥ ८० ॥
परा प्रत्यक्चितीरूपा पश्यन्ती परदेवता ।
मध्यमा वैखरीरूपा भक्तमानसहंसिका ॥ ८१ ॥
कामेश्वरप्राणनाडी कृतज्ञा कामपूजिता ।
शृङ्गाररससम्पूर्णा जया जालन्धरस्थिता ॥ ८२ ॥
ओड्याणपीठनिलया बिन्दुमण्डलवासिनी ।
रहोयागक्रमाराध्या रहस्तर्पणतर्पिता ॥ ८३ ॥
सद्यःप्रसादिनी विश्वसाक्षिणी साक्षिवर्जिता ।
षडङ्गदेवतायुक्ता षाड्गुण्यपरिपूरिता ॥ ८४ ॥
नित्यक्लिन्ना निरुपमा निर्वाणसुखदायिनी ।
नित्याषोडशिकारूपा श्रीकण्ठार्धशरीरिणी ॥ ८५ ॥
प्रभावती प्रभारूपा प्रसिद्धा परमेश्वरी ।
मूलप्रकृतिरव्यक्ता व्यक्ताव्यक्तस्वरूपिणी ॥ ८६ ॥
व्यापिनी विविधाकारा विद्याविद्यास्वरूपिणी ।
महाकामेशनयनकुमुदाह्लादकौमुदी ॥ ८७ ॥
भक्तहार्दतमोभेदभानुमद्भानुसन्ततिः ।
शिवदूती शिवाराध्या शिवमूर्तिः शिवङ्करी ॥ ८८ ॥
शिवप्रिया शिवपरा शिष्टेष्टा शिष्टपूजिता ।
अप्रमेया स्वप्रकाशा मनोवाचामगोचरा ॥ ८९ ॥
चिच्छक्तिश् चेतनारूपा जडशक्तिर्जडात्मिका ।
गायत्री व्याहृतिः सन्ध्या द्विजवृन्दनिषेविता ॥ ९० ॥
तत्त्वासना तत्त्वमयी पञ्चकोशान्तरस्थिता ।
निःसीममहिमा नित्ययौवना मदशालिनी ॥ ९१ ॥
मदघूर्णितरक्ताक्षी मदपाटलगण्डभूः ।
चन्दनद्रवदिग्धाङ्गी चाम्पेयकुसुमप्रिया ॥ ९२ ॥
कुशला कोमलाकारा कुरुकुल्ला कुलेश्वरी ।
कुलकुण्डालया कौलमार्गतत्परसेविता ॥ ९३ ॥
कुमारगणनाथाम्बा तुष्टिः पुष्टिर्मतिर्धृतिः ।
शान्तिः स्वस्तिमती कान्तिर्नन्दिनी विघ्ननाशिनी ॥ ९४ ॥
तेजोवती त्रिनयना लोलाक्षीकामरूपिणी ।
मालिनी हंसिनी माता मलयाचलवासिनी ॥ ९५ ॥
सुमुखी नलिनी सुभ्रूः शोभना सुरनायिका ।
कालकण्ठी कान्तिमती क्षोभिणी सूक्ष्मरूपिणी ॥ ९६ ॥
वज्रेश्वरी वामदेवी वयोऽवस्थाविवर्जिता ।
सिद्धेश्वरी सिद्धविद्या सिद्धमाता यशस्विनी ॥ ९७ ॥
विशुद्धिचक्रनिलयाऽऽरक्तवर्णा त्रिलोचना ।
खट्वाङ्गादिप्रहरणा वदनैकसमन्विता ॥ ९८ ॥
पायसान्नप्रिया त्वक्स्था पशुलोकभयङ्करी ।
अमृतादिमहाशक्तिसंवृता डाकिनीश्वरी ॥ ९९ ॥
अनाहताब्जनिलया श्यामाभा वदनद्वया ।
दंष्ट्रोज्ज्वलाऽक्षमालादिधरा रुधिरसंस्थिता ॥ १०० ॥
कालरात्र्यादिशक्त्यौघवृता स्निग्धौदनप्रिया ।
महावीरेन्द्रवरदा राकिण्यम्बास्वरूपिणी ॥ १०१ ॥
मणिपूराब्जनिलया वदनत्रयसंयुता ।
वज्रादिकायुधोपेता डामर्यादिभिरावृता ॥ १०२ ॥
रक्तवर्णा मांसनिष्ठा गुडान्नप्रीतमानसा ।
समस्तभक्तसुखदा लाकिन्यम्बास्वरूपिणी ॥ १०३ ॥
स्वाधिष्ठानाम्बुजगता चतुर्वक्त्रमनोहरा ।
शूलाद्यायुधसम्पन्ना पीतवर्णाऽतिगर्विता ॥ १०४ ॥
मेदोनिष्ठा मधुप्रीता बन्धिन्यादिसमन्विता ।
दध्यन्नासक्तहृदया काकिनीरूपधारिणी ॥ १०५ ॥
मूलाधाराम्बुजारूढा पञ्चवक्त्राऽस्थिसंस्थिता ।
अङ्कुशादिप्रहरणा वरदादिनिषेविता ॥ १०६ ॥
मुद्गौदनासक्तचित्ता साकिन्यम्बास्वरूपिणी ।
आज्ञाचक्राब्जनिलया शुक्लवर्णा षडानना ॥ १०७ ॥
मज्जासंस्था हंसवतीमुख्यशक्तिसमन्विता ।
हरिद्रान्नैकरसिका हाकिनीरूपधारिणी ॥ १०८ ॥
सहस्रदलपद्मस्था सर्ववर्णोपशोभिता ।
सर्वायुधधरा शुक्लसंस्थिता सर्वतोमुखी ॥ १०९ ॥
सर्वौदनप्रीतचित्ता याकिन्यम्बास्वरूपिणी ।
स्वाहा स्वधाऽमतिर्मेधा श्रुतिः स्मृतिरनुत्तमा ॥ ११० ॥
पुण्यकीर्तिः पुण्यलभ्या पुण्यश्रवणकीर्तना ।
पुलोमजार्चिता बन्धमोचनी बन्धुरालका ॥ १११ ॥
विमर्शरूपिणी विद्या वियदादिजगत्प्रसूः ।
सर्वव्याधिप्रशमनी सर्वमृत्युनिवारिणी ॥ ११२ ॥
अग्रगण्याऽचिन्त्यरूपा कलिकल्मषनाशिनी ।
कात्यायनी कालहन्त्री कमलाक्षनिषेविता ॥ ११३ ॥
ताम्बूलपूरितमुखी दाडिमीकुसुमप्रभा ।
मृगाक्षी मोहिनी मुख्या मृडानी मित्ररूपिणी ॥ ११४ ॥
नित्यतृप्ता भक्तनिधिर्नियन्त्री निखिलेश्वरी ।
मैत्र्यादिवासनालभ्या महाप्रलयसाक्षिणी ॥ ११५ ॥
परा शक्तिः परा निष्ठा प्रज्ञानघनरूपिणी ।
माध्वीपानालसा मत्ता मातृकावर्णरूपिणी ॥ ११६ ॥
महाकैलासनिलया मृणालमृदुदोर्लता ।
महनीया दयामूर्तिर्महासाम्राज्यशालिनी ॥ ११७ ॥
आत्मविद्या महाविद्या श्रीविद्या कामसेविता ।
श्रीषोडशाक्षरीविद्या त्रिकूटा कामकोटिका ॥ ११८ ॥
कटाक्षकिङ्करीभूतकमलाकोटिसेविता ।
शिरःस्थिता चन्द्रनिभा भालस्थेन्द्रधनुःप्रभा ॥ ११९ ॥
हृदयस्था रविप्रख्या त्रिकोणान्तरदीपिका ।
दाक्षायणी दैत्यहन्त्री दक्षयज्ञविनाशिनी ॥ १२० ॥
दरान्दोलितदीर्घाक्षी दरहासोज्ज्वलन्मुखी ।
गुरुमूर्तिर्गुणनिधिर्गोमाता गुहजन्मभूः ॥ १२१ ॥
देवेशी दण्डनीतिस्था दहराकाशरूपिणी ।
प्रतिपन्मुख्यराकान्ततिथिमण्डलपूजिता ॥ १२२ ॥
कलात्मिका कलानाथा काव्यालापविनोदिनी ।
सचामररमावाणीसव्यदक्षिणसेविता ॥ १२३ ॥
आदिशक्तिरमेयाऽऽत्मा परमा पावनाकृतिः ।
अनेककोटिब्रह्माण्डजननी दिव्यविग्रहा ॥ १२४ ॥
क्लींकारी केवला गुह्या कैवल्यपददायिनी ।
त्रिपुरा त्रिजगद्वन्द्या त्रिमूर्तिस्त्रिदशेश्वरी ॥ १२५ ॥
त्र्यक्षरी दिव्यगन्धाढ्या सिन्दूरतिलकाञ्चिता ।
उमा शैलेन्द्रतनया गौरी गन्धर्वसेविता ॥ १२६ ॥
विश्वगर्भा स्वर्णगर्भाऽवरदा वागधीश्वरी ।
ध्यानगम्याऽपरिच्छेद्या ज्ञानदा ज्ञानविग्रहा ॥ १२७ ॥
सर्ववेदान्तसंवेद्या सत्यानन्दस्वरूपिणी ।
लोपामुद्रार्चिता लीलाकॢप्तब्रह्माण्डमण्डला ॥ १२८ ॥
अदृश्या दृश्यरहिता विज्ञात्री वेद्यवर्जिता ।
योगिनी योगदा योग्या योगानन्दा युगन्धरा ॥ १२९ ॥
इच्छाशक्तिज्ञानशक्तिक्रियाशक्तिस्वरूपिणी ।
सर्वाधारा सुप्रतिष्ठा सदसद्रूपधारिणी ॥ १३० ॥
अष्टमूर्तिरजाजैत्री लोकयात्राविधायिनी ।
एकाकिनी भूमरूपा निर्द्वैता द्वैतवर्जिता ॥ १३१ ॥
अन्नदा वसुदा वृद्धा ब्रह्मात्मैक्यस्वरूपिणी ।
बृहती ब्राह्मणी ब्राह्मी ब्रह्मानन्दा बलिप्रिया ॥ १३२ ॥
भाषारूपा बृहत्सेना भावाभावविवर्जिता ।
सुखाराध्या शुभकरी शोभना सुलभा गतिः ॥ १३३ ॥
राजराजेश्वरी राज्यदायिनी राज्यवल्लभा ।
राजत्कृपा राजपीठनिवेशितनिजाश्रिता ॥ १३४ ॥
राज्यलक्ष्मीः कोशनाथा चतुरङ्गबलेश्वरी ।
साम्राज्यदायिनी सत्यसन्धा सागरमेखला ॥ १३५ ॥
दीक्षिता दैत्यशमनी सर्वलोकवशङ्करी ।
सर्वार्थदात्री सावित्री सच्चिदानन्दरूपिणी ॥ १३६ ॥
देशकालापरिच्छिन्ना सर्वगा सर्वमोहिनी ।
सरस्वती शास्त्रमयी गुहाम्बा गुह्यरूपिणी ॥ १३७ ॥
सर्वोपाधिविनिर्मुक्ता सदाशिवपतिव्रता ।
सम्प्रदायेश्वरी साध्वी गुरुमण्डलरूपिणी ॥ १३८ ॥
कुलोत्तीर्णा भगाराध्या माया मधुमती मही ।
गणाम्बा गुह्यकाराध्या कोमलाङ्गी गुरुप्रिया ॥ १३९ ॥
स्वतन्त्रा सर्वतन्त्रेशी दक्षिणामूर्तिरूपिणी ।
सनकादिसमाराध्या शिवज्ञानप्रदायिनी ॥ १४० ॥
चित्कलाऽऽनन्दकलिका प्रेमरूपा प्रियङ्करी ।
नामपारायणप्रीता नन्दिविद्या नटेश्वरी ॥ १४१ ॥
मिथ्याजगदधिष्ठाना मुक्तिदा मुक्तिरूपिणी ।
लास्यप्रिया लयकरी लज्जा रम्भादिवन्दिता ॥ १४२ ॥
भवदावसुधावृष्टिः पापारण्यदवानला ।
दौर्भाग्यतूलवातूला जराध्वान्तरविप्रभा ॥ १४३ ॥
भाग्याब्धिचन्द्रिका भक्तचित्तकेकिघनाघना ।
रोगपर्वतदम्भोलिर्मृत्युदारुकुठारिका ॥ १४४ ॥
महेश्वरी महाकाली महाग्रासा महाशना ।
अपर्णा चण्डिका चण्डमुण्डासुरनिषूदिनी ॥ १४५ ॥
क्षराक्षरात्मिका सर्वलोकेशी विश्वधारिणी ।
त्रिवर्गदात्री सुभगा त्र्यम्बका त्रिगुणात्मिका ॥ १४६ ॥
स्वर्गापवर्गदा शुद्धा जपापुष्पनिभाकृतिः ।
ओजोवती द्युतिधरा यज्ञरूपा प्रियव्रता ॥ १४७ ॥
दुराराध्या दुराधर्षा पाटलीकुसुमप्रिया ।
महती मेरुनिलया मन्दारकुसुमप्रिया ॥ १४८ ॥
वीराराध्या विराड्रूपा विरजा विश्वतोमुखी ।
प्रत्यग्रूपा पराकाशा प्राणदा प्राणरूपिणी ॥ १४९ ॥
मार्ताण्डभैरवाराध्या मन्त्रिणीन्यस्तराज्यधूः ।
त्रिपुरेशी जयत्सेना निस्त्रैगुण्या परापरा ॥ १५० ॥
सत्यज्ञानानन्दरूपा सामरस्यपरायणा ।
कपर्दिनी कलामाला कामधुक् कामरूपिणी ॥ १५१ ॥
कलानिधिः काव्यकला रसज्ञा रसशेवधिः ।
पुष्टा पुरातना पूज्या पुष्करा पुष्करेक्षणा ॥ १५२ ॥
परंज्योतिः परंधाम परमाणुः परात्परा ।
पाशहस्ता पाशहन्त्री परमन्त्रविभेदिनी ॥ १५३ ॥
मूर्ताऽमूर्ताऽनित्यतृप्ता मुनिमानसहंसिका ।
सत्यव्रता सत्यरूपा सर्वान्तर्यामिनी सती ॥ १५४ ॥
ब्रह्माणी ब्रह्मजननी बहुरूपा बुधार्चिता ।
प्रसवित्री प्रचण्डाऽऽज्ञा प्रतिष्ठा प्रकटाकृतिः ॥ १५५ ॥
प्राणेश्वरी प्राणदात्री पञ्चाशत्पीठरूपिणी ।
विशृङ्खला विविक्तस्था वीरमाता वियत्प्रसूः ॥ १५६ ॥
मुकुन्दा मुक्तिनिलया मूलविग्रहरूपिणी ।
भावज्ञा भवरोगघ्नी भवचक्रप्रवर्तिनी ॥ १५७ ॥
छन्दःसारा शास्त्रसारा मन्त्रसारा तलोदरी ।
उदारकीर्तिरुद्दामवैभवा वर्णरूपिणी ॥ १५८ ॥
जन्ममृत्युजरातप्तजनविश्रान्तिदायिनी ।
सर्वोपनिषदुद्घुष्टा शान्त्यतीतकलात्मिका ॥ १५९ ॥
गम्भीरा गगनान्तस्था गर्विता गानलोलुपा ।
कल्पनारहिता काष्ठाऽकान्ता कान्तार्धविग्रहा ॥ १६० ॥
कार्यकारणनिर्मुक्ता कामकेलितरङ्गिता ।
कनत्कनकताटङ्का लीलाविग्रहधारिणी ॥ १६१ ॥
अजा क्षयविनिर्मुक्ता मुग्धा क्षिप्रप्रसादिनी ।
अन्तर्मुखसमाराध्या बहिर्मुखसुदुर्लभा ॥ १६२ ॥
त्रयी त्रिवर्गनिलया त्रिस्था त्रिपुरमालिनी ।
निरामया निरालम्बा स्वात्मारामा सुधासृतिः ॥ १६३ ॥
संसारपङ्कनिर्मग्नसमुद्धरणपण्डिता ।
यज्ञप्रिया यज्ञकर्त्री यजमानस्वरूपिणी ॥ १६४ ॥
धर्माधारा धनाध्यक्षा धनधान्यविवर्धिनी ।
विप्रप्रिया विप्ररूपा विश्वभ्रमणकारिणी ॥ १६५ ॥
विश्वग्रासा विद्रुमाभा वैष्णवी विष्णुरूपिणी ।
अयोनिर्योनिनिलया कूटस्था कुलरूपिणी ॥ १६६ ॥
वीरगोष्ठीप्रिया वीरा नैष्कर्म्या नादरूपिणी ।
विज्ञानकलना कल्या विदग्धा बैन्दवासना ॥ १६७ ॥
तत्त्वाधिका तत्त्वमयी तत्त्वमर्थस्वरूपिणी ।
सामगानप्रिया सौम्या सदाशिवकुटुम्बिनी ॥ १६८ ॥
सव्यापसव्यमार्गस्था सर्वापद्विनिवारिणी ।
स्वस्था स्वभावमधुरा धीरा धीरसमर्चिता ॥ १६९ ॥
चैतन्यार्घ्यसमाराध्या चैतन्यकुसुमप्रिया ।
सदोदिता सदातुष्टा तरुणादित्यपाटला ॥ १७० ॥
दक्षिणादक्षिणाराध्या दरस्मेरमुखाम्बुजा ।
कौलिनीकेवलाऽनर्घ्यकैवल्यपददायिनी ॥ १७१ ॥
स्तोत्रप्रिया स्तुतिमती श्रुतिसंस्तुतवैभवा ।
मनस्विनी मानवती महेशी मङ्गलाकृतिः ॥ १७२ ॥
विश्वमाता जगद्धात्री विशालाक्षी विरागिणी ।
प्रगल्भा परमोदारा परामोदा मनोमयी ॥ १७३ ॥
व्योमकेशी विमानस्था वज्रिणी वामकेश्वरी ।
पञ्चयज्ञप्रिया पञ्चप्रेतमञ्चाधिशायिनी ॥ १७४ ॥
पञ्चमी पञ्चभूतेशी पञ्चसंख्योपचारिणी ।
शाश्वती शाश्वतैश्वर्या शर्मदा शम्भुमोहिनी ॥ १७५ ॥
धराधरसुता धन्या धर्मिणी धर्मवर्धिनी ।
लोकातीता गुणातीता सर्वातीता शमात्मिका ॥ १७६ ॥
बन्धूककुसुमप्रख्या बाला लीलाविनोदिनी ।
सुमङ्गली सुखकरी सुवेषाढ्या सुवासिनी ॥ १७७ ॥
सुवासिन्यर्चनप्रीताऽऽशोभना शुद्धमानसा ।
बिन्दुतर्पणसन्तुष्टा पूर्वजा त्रिपुराम्बिका ॥ १७८ ॥
दशमुद्रासमाराध्या त्रिपुराश्रीवशङ्करी ।
ज्ञानमुद्रा ज्ञानगम्या ज्ञानज्ञेयस्वरूपिणी ॥ १७९ ॥
योनिमुद्रा त्रिखण्डेशी त्रिगुणाम्बा त्रिकोणगा ।
अनघाऽद्भुतचारित्रा वाञ्छितार्थप्रदायिनी ॥ १८० ॥
अभ्यासातिशयज्ञाता षडध्वातीतरूपिणी ।
अव्याजकरुणामूर्तिरज्ञानध्वान्तदीपिका ॥ १८१ ॥
आबालगोपविदिता सर्वानुल्लङ्घ्यशासना ।
श्रीचक्रराजनिलया श्रीमत्त्रिपुरसुन्दरी ॥ १८२ ॥
श्रीशिवा शिवशक्त्यैक्यरूपिणी ललिताम्बिका ।
एवं श्रीललिता देव्या नाम्नां साहस्रकं जगुः ॥
॥ इति श्रीब्रह्माण्डपुराणे उत्तरखण्डे श्रीहयग्रीवागस्त्यसंवादे
श्रीललिता सहस्रनाम स्तोत्र कथनं सम्पूर्णम् ॥
|| nyāsaḥ ||
asya śrīlalitāsahasranāmastotramālāmantrasya |
vaśinyādivāgdevatā ṛṣayaḥ |
anuṣṭupchandaḥ |
śrīlalitāparameśvarī devatā |
śrīmadvāgbhavakūṭeti bījam |
madhyakūṭeti śaktiḥ |
śaktikūṭeti kīlakam |
śrīlalitāmahātripurasundarīprasādasiddhidvārā
cintitaphalāvāptyarthe jape viniyogaḥ |
|| dhyānam ||
sindūrāruṇavigrahāṃ trinayanāṃ māṇikyamaulisphurat
tārānāyakaśekharāṃ smitamukhīmāpīnavakṣoruhām |
pāṇibhyāmalipūrṇaratnacaṣakaṃ raktotpalaṃ bibhratīṃ
saumyāṃ ratnaghaṭastharaktacaraṇāṃ dhyāyetparāmambikām ||
aruṇāṃ karuṇātaraṅgitākṣīṃ
dhṛtapāśāṅkuśapuṣpabāṇacāpām |
aṇimādibhirāvṛtāṃ mayūkhaiḥ
ahamityeva vibhāvaye bhavānīm ||
dhyāyetpadmāsanasthāṃ vikasitavadanāṃ padmapatrāyatākṣīṃ
hemābhāṃ pītavastrāṃ karakalitalasaddhemapadmāṃ varāṅgīm |
sarvālaṅkārayuktāṃ satatamabhayadāṃ bhaktanamrāṃ bhavānīṃ
śrīvidyāṃ śāntamūrtiṃ sakalasuranutāṃ sarvasampatpradātrīm ||
sakuṅkumavilepanāmalikacumbikastūrikāṃ
samandahasitekṣaṇāṃ saśaracāpapāśāṅkuśām |
aśeṣajanamohinīmaruṇamālyabhūṣāmbarāṃ
japākusumabhāsurāṃ japavidhau smaredambikām ||
oṃ śrīmātā śrīmahārājñī śrīmatsiṃhāsaneśvarī |
cidagnikuṇḍasambhūtā devakāryasamudyatā || 1 ||
udyadbhānusahasrābhā caturbāhusamanvitā |
rāgasvarūpapāśāḍhyā krodhākārāṅkuśojjvalā || 2 ||
manorūpekṣukodaṇḍā pañcatanmātrasāyakā |
nijāruṇaprabhāpūramajjadbrahmāṇḍamaṇḍalā || 3 ||
campakāśokapunnāgasaugandhikalasatkacā |
kuruvindamaṇiśreṇīkanatkoṭīramaṇḍitā || 4 ||
aṣṭamīcandravibhrājadalikasthalaśobhitā |
mukhacandrakalaṅkābhamṛganābhiviśeṣakā || 5 ||
vadanasmaramāṅgalyagṛhatoraṇacillikā |
vaktralakṣmīparīvāhacalanmīnābhalocanā || 6 ||
navacampakapuṣpābhanāsādaṇḍavirājitā |
tārākāntitiraskārināsābharaṇabhāsurā || 7 ||
kadambamañjarīkḷptakarṇapūramanoharā |
tāṭaṅkayugalībhūtatapanoḍupamaṇḍalā || 8 ||
padmarāgaśilādarśaparibhāvikapolabhūḥ |
navavidrumabimbaśrīnyakkāriradanacchadā || 9 ||
śuddhavidyāṅkurākāradvijapaṅktidvayojjvalā |
karpūravīṭikāmodasamākarṣaddigantarā || 10 ||
nijasallāpamādhuryavinirbhartsitakacchapī |
mandasmitaprabhāpūramajjatkāmeśamānasā || 11 ||
anākalitasādṛśyacibukaśrīvirājitā |
kāmeśabaddhamāṅgalyasūtraśobhitakandharā || 12 ||
kanakāṅgadakeyūrakamanīyabhujānvitā |
ratnagraiveyacintākalolamuktāphalānvitā || 13 ||
kāmeśvarapremaratnamaṇipratipaṇastanī |
nābhyālavālaromālilatāphalakucadvayī || 14 ||
lakṣyaromalatādhāratāsamunneyamadhyamā |
stanabhāradalanmadhyapaṭṭabandhavalitrayā || 15 ||
aruṇāruṇakausumbhavastrabhāsvatkaṭītaṭī |
ratnakiṅkiṇikāramyaraśanādāmabhūṣitā || 16 ||
kāmeśajñātasaubhāgyamārdavorudvayānvitā |
māṇikyamukuṭākārajānudvayavirājitā || 17 ||
indragopaparikṣiptasmaratūṇābhajaṅghikā |
gūḍhagulphā kūrmapṛṣṭhajayiṣṇuprapadānvitā || 18 ||
nakhadīdhitisaṃchannanamajjanatamoguṇā |
padadvayaprabhājālaparākṛtasaroruhā || 19 ||
siñjānamaṇimañjīramaṇḍitaśrīpadāmbujā |
marālīmandagamanā mahālāvaṇyaśevadhiḥ || 20 ||
sarvāruṇā'navadyāṅgī sarvābharaṇabhūṣitā |
śivakāmeśvarāṅkasthā śivā svādhīnavallabhā || 21 ||
sumerumadhyaśṛṅgasthā śrīmannagaranāyikā |
cintāmaṇigṛhāntasthā pañcabrahmāsanasthitā || 22 ||
mahāpadmāṭavīsaṃsthā kadambavanavāsinī |
sudhāsāgaramadhyasthā kāmākṣī kāmadāyinī || 23 ||
devarṣigaṇasaṃghātastūyamānātmavaibhavā |
bhaṇḍāsuravadhodyuktaśaktisenāsamanvitā || 24 ||
sampatkarīsamārūḍhasindhuravrajasevitā |
aśvārūḍhādhiṣṭhitāśvakoṭikoṭibhirāvṛtā || 25 ||
cakrarājarathārūḍhasarvāyudhapariṣkṛtā |
geyacakrarathārūḍhamantriṇīparisevitā || 26 ||
kiricakrarathārūḍhadaṇḍanāthāpuraskṛtā |
jvālāmālinikākṣiptavahniprākāramadhyagā || 27 ||
bhaṇḍasainyavadhodyuktaśaktivikramaharṣitā |
nityāparākramāṭopanirīkṣaṇasamutsukā || 28 ||
bhaṇḍaputravadhodyuktabālāvikramananditā |
mantriṇyambāviracitaviṣaṅgavadhatoṣitā || 29 ||
viśukraprāṇaharaṇavārāhīvīryananditā |
kāmeśvaramukhālokakalpitaśrīgaṇeśvarā || 30 ||
mahāgaṇeśanirbhinnavighnayantrapraharṣitā |
bhaṇḍāsurendranirmuktaśastrapratyastravarṣiṇī || 31 ||
karāṅgulinakhotpannanārāyaṇadaśākṛtiḥ |
mahāpāśupatāstrāgninirdagdhāsurasainikā || 32 ||
kāmeśvarāstranirdagdhasabhaṇḍāsuraśūnyakā |
brahmopendramahendrādidevasaṃstutavaibhavā || 33 ||
haranetrāgnisaṃdagdhakāmasañjīvanauṣadhiḥ |
śrīmadvāgbhavakūṭaikasvarūpamukhapaṅkajā || 34 ||
kaṇṭhādhaḥkaṭiparyantamadhyakūṭasvarūpiṇī |
śaktikūṭaikatāpannakaṭyadhobhāgadhāriṇī || 35 ||
mūlamantrātmikā mūlakūṭatrayakalevarā |
kulāmṛtaikarasikā kulasaṃketapālinī || 36 ||
kulāṅganā kulāntasthā kaulinī kulayoginī |
akulā samayāntasthā samayācāratatparā || 37 ||
mūlādhāraikanilayā brahmagranthivibhedinī |
maṇipūrāntaruditā viṣṇugranthivibhedinī || 38 ||
ājñācakrāntarālasthā rudragranthivibhedinī |
sahasrārāmbujārūḍhā sudhāsārābhivarṣiṇī || 39 ||
taḍillatāsamaruciḥ ṣaṭcakroparisaṃsthitā |
mahāsaktiḥ kuṇḍalinī bisatantutanīyasī || 40 ||
bhavānī bhāvanāgamyā bhavāraṇyakuṭhārikā |
bhadrapriyā bhadramūrtirbhaktasaubhāgyadāyinī || 41 ||
bhaktipriyā bhaktigamyā bhaktivaśyā bhayāpahā |
śāmbhavī śāradārādhyā śarvāṇī śarmadāyinī || 42 ||
śāṅkarī śrīkarī sādhvī śaraccandranibhānanā |
śātodarī śāntimatī nirādhārā nirañjanā || 43 ||
nirlepā nirmalā nityā nirākārā nirākulā |
nirguṇā niṣkalā śāntā niṣkāmā nirupaplavā || 44 ||
nityamuktā nirvikārā niṣprapañcā nirāśrayā |
nityaśuddhā nityabuddhā niravadyā nirantarā || 45 ||
niṣkāraṇā niṣkalaṅkā nirupādhirnirīśvarā |
nīrāgā rāgamathanī nirmadā madanāśinī || 46 ||
niścintā nirahaṃkārā nirmohā mohanāśinī |
nirmamā mamatāhantrī niṣpāpā pāpanāśinī || 47 ||
niṣkrodhā krodhaśamanī nirlobhā lobhanāśinī |
niḥsaṃśayā saṃśayaghnī nirbhavā bhavanāśinī || 48 ||
nirvikalpā nirābādhā nirbhedā bhedanāśinī |
nirnāśā mṛtyumathanī niṣkriyā niṣparigrahā || 49 ||
nistulā nīlacikurā nirapāyā niratyayā |
durlabhā durgamā durgā duḥkhahantrī sukhapradā || 50 ||
duṣṭadūrā durācāraśamanī doṣavarjitā |
sarvajñā sāndrakaruṇā samānādhikavarjitā || 51 ||
sarvaśaktimayī sarvamaṅgalā sadgatipradā |
sarveśvarī sarvamayī sarvamantrasvarūpiṇī || 52 ||
sarvayantrātmikā sarvatantrarūpā manonmanī |
māheśvarī mahādevī mahālakṣmīrmṛḍapriyā || 53 ||
mahārūpā mahāpūjyā mahāpātakanāśinī |
mahāmāyā mahāsattvā mahāśaktirmahāratiḥ || 54 ||
mahābhogā mahaiśvaryā mahāvīryā mahābalā |
mahābuddhirmahāsiddhirmahāyogeśvareśvarī || 55 ||
mahātantrā mahāmantrā mahāyantrā mahāsanā |
mahāyāgakramārādhyā mahābhairavapūjitā || 56 ||
maheśvaramahākalpamahātāṇḍavasākṣiṇī |
mahākāmeśamahiṣī mahātripurasundarī || 57 ||
catuḥṣaṣṭyupacārāḍhyā catuḥṣaṣṭikalāmayī |
mahācatuḥṣaṣṭikoṭiyoginīgaṇasevitā || 58 ||
manuvidyā candravidyā candramaṇḍalamadhyagā |
cārurūpā cāruhāsā cārucandrakalādharā || 59 ||
carācarajagannāthā cakrarājaniketanā |
pārvatī padmanayanā padmarāgasamaprabhā || 60 ||
pañcapretāsanāsīnā pañcabrahmasvarūpiṇī |
cinmayī paramānandā vijñānaghanarūpiṇī || 61 ||
dhyānadhyātṛdhyeyarūpā dharmādharmavivarjitā |
viśvarūpā jāgariṇī svapantī taijasātmikā || 62 ||
suptā prājñātmikā turyā sarvāvasthāvivarjitā |
sṛṣṭikartrī brahmarūpā goptrī govindarūpiṇī || 63 ||
saṃhāriṇī rudrarūpā tirodhānakarīśvarī |
sadāśivā'nugrahadā pañcakṛtyaparāyaṇā || 64 ||
bhānumaṇḍalamadhyasthā bhairavī bhagamālinī |
padmāsanā bhagavatī padmanābhasahodarī || 65 ||
unmeṣanimiṣotpannavipannabhuvanāvaliḥ |
sahasraśīrṣavadanā sahasrākṣī sahasrapāt || 66 ||
ābrahmakīṭajananī varṇāśramavidhāyinī |
nijājñārūpanigamā puṇyāpuṇyaphalapradā || 67 ||
śrutisīmantasindūrīkṛtapādābjadhūlikā |
sakalāgamasandohaśuktisampuṭamauktikā || 68 ||
puruṣārthapradā pūrṇā bhoginī bhuvaneśvarī |
ambikā'nādinidhanā haribrahmendrasevitā || 69 ||
nārāyaṇī nādarūpā nāmarūpavivarjitā |
hrīṃkārī hrīmatī hṛdyā heyopādeyavarjitā || 70 ||
rājarājārcitā rājñī ramyā rājīvalocanā |
rañjanī ramaṇī rasyā raṇatkiṅkiṇimekhalā || 71 ||
ramā rākenduvadanā ratirūpā ratipriyā |
rakṣākarī rākṣasaghnī rāmā ramaṇalampaṭā || 72 ||
kāmyā kāmakalārūpā kadambakusumapriyā |
kalyāṇī jagatīkandā karuṇārasasāgarā || 73 ||
kalāvatī kalālāpā kāntā kādambarīpriyā |
varadā vāmanayanā vāruṇīmadavihvalā || 74 ||
viśvādhikā vedavedyā vindhyācalanivāsinī |
vidhātrī vedajananī viṣṇumāyā vilāsinī || 75 ||
kṣetrasvarūpā kṣetreśī kṣetrakṣetrajñapālinī |
kṣayavṛddhivinirmuktā kṣetrapālasamarcitā || 76 ||
vijayā vimalā vandyā vandārujanavatsalā |
vāgvādinī vāmakeśī vahnimaṇḍalavāsinī || 77 ||
bhaktimatkalpalatikā paśupāśavimocinī |
saṃhṛtāśeṣapāṣaṇḍā sadācārapravartikā || 78 ||
tāpatrayāgnisantaptasamāhlādanacandrikā |
taruṇī tāpasārādhyā tanumadhyā tamo'pahā || 79 ||
citistatpadalakṣyārthā cidekarasarūpiṇī |
svātmānandalavībhūtabrahmādyānandasantatiḥ || 80 ||
parā pratyakcitīrūpā paśyantī paradevatā |
madhyamā vaikharīrūpā bhaktamānasahaṃsikā || 81 ||
kāmeśvaraprāṇanāḍī kṛtajñā kāmapūjitā |
śṛṅgārarasasampūrṇā jayā jālandharasthitā || 82 ||
oḍyāṇapīṭhanilayā bindumaṇḍalavāsinī |
rahoyāgakramārādhyā rahastarpaṇatarpitā || 83 ||
sadyaḥprasādinī viśvasākṣiṇī sākṣivarjitā |
ṣaḍaṅgadevatāyuktā ṣāḍguṇyaparipūritā || 84 ||
nityaklinnā nirupamā nirvāṇasukhadāyinī |
nityāṣoḍaśikārūpā śrīkaṇṭhārdhaśarīriṇī || 85 ||
prabhāvatī prabhārūpā prasiddhā parameśvarī |
mūlaprakṛtiravyaktā vyaktāvyaktasvarūpiṇī || 86 ||
vyāpinī vividhākārā vidyāvidyāsvarūpiṇī |
mahākāmeśanayanakumudāhlādakaumudī || 87 ||
bhaktahārdatamobhedabhānumadbhānusantatiḥ |
śivadūtī śivārādhyā śivamūrtiḥ śivaṅkarī || 88 ||
śivapriyā śivaparā śiṣṭeṣṭā śiṣṭapūjitā |
aprameyā svaprakāśā manovācāmagocarā || 89 ||
cicchaktiś cetanārūpā jaḍaśaktirjaḍātmikā |
gāyatrī vyāhṛtiḥ sandhyā dvijavṛndaniṣevitā || 90 ||
tattvāsanā tattvamayī pañcakośāntarasthitā |
niḥsīmamahimā nityayauvanā madaśālinī || 91 ||
madaghūrṇitaraktākṣī madapāṭalagaṇḍabhūḥ |
candanadravadigdhāṅgī cāmpeyakusumapriyā || 92 ||
kuśalā komalākārā kurukullā kuleśvarī |
kulakuṇḍālayā kaulamārgatatparasevitā || 93 ||
kumāragaṇanāthāmbā tuṣṭiḥ puṣṭirmatirdhṛtiḥ |
śāntiḥ svastimatī kāntirnandinī vighnanāśinī || 94 ||
tejovatī trinayanā lolākṣīkāmarūpiṇī |
mālinī haṃsinī mātā malayācalavāsinī || 95 ||
sumukhī nalinī subhrūḥ śobhanā suranāyikā |
kālakaṇṭhī kāntimatī kṣobhiṇī sūkṣmarūpiṇī || 96 ||
vajreśvarī vāmadevī vayo'vasthāvivarjitā |
siddheśvarī siddhavidyā siddhamātā yaśasvinī || 97 ||
viśuddhicakranilayā''raktavarṇā trilocanā |
khaṭvāṅgādipraharaṇā vadanaikasamanvitā || 98 ||
pāyasānnapriyā tvaksthā paśulokabhayaṅkarī |
amṛtādimahāśaktisaṃvṛtā ḍākinīśvarī || 99 ||
anāhatābjanilayā śyāmābhā vadanadvayā |
daṃṣṭrojjvalā'kṣamālādidharā rudhirasaṃsthitā || 100 ||
kālarātryādiśaktyaughavṛtā snigdhaudanapriyā |
mahāvīrendravaradā rākiṇyambāsvarūpiṇī || 101 ||
maṇipūrābjanilayā vadanatrayasaṃyutā |
vajrādikāyudhopetā ḍāmaryādibhirāvṛtā || 102 ||
raktavarṇā māṃsaniṣṭhā guḍānnaprītamānasā |
samastabhaktasukhadā lākinyambāsvarūpiṇī || 103 ||
svādhiṣṭhānāmbujagatā caturvaktramanoharā |
śūlādyāyudhasampannā pītavarṇā'tigarvitā || 104 ||
medoniṣṭhā madhuprītā bandhinyādisamanvitā |
dadhyannāsaktahṛdayā kākinīrūpadhāriṇī || 105 ||
mūlādhārāmbujārūḍhā pañcavaktrā'sthisaṃsthitā |
aṅkuśādipraharaṇā varadādiniṣevitā || 106 ||
mudgaudanāsaktacittā sākinyambāsvarūpiṇī |
ājñācakrābjanilayā śuklavarṇā ṣaḍānanā || 107 ||
majjāsaṃsthā haṃsavatīmukhyaśaktisamanvitā |
haridrānnaikarasikā hākinīrūpadhāriṇī || 108 ||
sahasradalapadmasthā sarvavarṇopaśobhitā |
sarvāyudhadharā śuklasaṃsthitā sarvatomukhī || 109 ||
sarvaudanaprītacittā yākinyambāsvarūpiṇī |
svāhā svadhā'matirmedhā śrutiḥ smṛtiranuttamā || 110 ||
puṇyakīrtiḥ puṇyalabhyā puṇyaśravaṇakīrtanā |
pulomajārcitā bandhamocanī bandhurālakā || 111 ||
vimarśarūpiṇī vidyā viyadādijagatprasūḥ |
sarvavyādhipraśamanī sarvamṛtyunivāriṇī || 112 ||
agragaṇyā'cintyarūpā kalikalmaṣanāśinī |
kātyāyanī kālahantrī kamalākṣaniṣevitā || 113 ||
tāmbūlapūritamukhī dāḍimīkusumaprabhā |
mṛgākṣī mohinī mukhyā mṛḍānī mitrarūpiṇī || 114 ||
nityatṛptā bhaktanidhirniyantrī nikhileśvarī |
maitryādivāsanālabhyā mahāpralayasākṣiṇī || 115 ||
parā śaktiḥ parā niṣṭhā prajñānaghanarūpiṇī |
mādhvīpānālasā mattā mātṛkāvarṇarūpiṇī || 116 ||
mahākailāsanilayā mṛṇālamṛdudorlatā |
mahanīyā dayāmūrtirmahāsāmrājyaśālinī || 117 ||
ātmavidyā mahāvidyā śrīvidyā kāmasevitā |
śrīṣoḍaśākṣarīvidyā trikūṭā kāmakoṭikā || 118 ||
kaṭākṣakiṅkarībhūtakamalākoṭisevitā |
śiraḥsthitā candranibhā bhālasthendradhanuḥprabhā || 119 ||
hṛdayasthā raviprakhyā trikoṇāntaradīpikā |
dākṣāyaṇī daityahantrī dakṣayajñavināśinī || 120 ||
darāndolitadīrghākṣī darahāsojjvalanmukhī |
gurumūrtirguṇanidhirgomātā guhajanmabhūḥ || 121 ||
deveśī daṇḍanītisthā daharākāśarūpiṇī |
pratipanmukhyarākāntatithimaṇḍalapūjitā || 122 ||
kalātmikā kalānāthā kāvyālāpavinodinī |
sacāmararamāvāṇīsavyadakṣiṇasevitā || 123 ||
ādiśaktirameyā''tmā paramā pāvanākṛtiḥ |
anekakoṭibrahmāṇḍajananī divyavigrahā || 124 ||
klīṃkārī kevalā guhyā kaivalyapadadāyinī |
tripurā trijagadvandyā trimūrtistridaśeśvarī || 125 ||
tryakṣarī divyagandhāḍhyā sindūratilakāñcitā |
umā śailendratanayā gaurī gandharvasevitā || 126 ||
viśvagarbhā svarṇagarbhā'varadā vāgadhīśvarī |
dhyānagamyā'paricchedyā jñānadā jñānavigrahā || 127 ||
sarvavedāntasaṃvedyā satyānandasvarūpiṇī |
lopāmudrārcitā līlākḷptabrahmāṇḍamaṇḍalā || 128 ||
adṛśyā dṛśyarahitā vijñātrī vedyavarjitā |
yoginī yogadā yogyā yogānandā yugandharā || 129 ||
icchāśaktijñānaśaktikriyāśaktisvarūpiṇī |
sarvādhārā supratiṣṭhā sadasadrūpadhāriṇī || 130 ||
aṣṭamūrtirajājaitrī lokayātrāvidhāyinī |
ekākinī bhūmarūpā nirdvaitā dvaitavarjitā || 131 ||
annadā vasudā vṛddhā brahmātmaikyasvarūpiṇī |
bṛhatī brāhmaṇī brāhmī brahmānandā balipriyā || 132 ||
bhāṣārūpā bṛhatsenā bhāvābhāvavivarjitā |
sukhārādhyā śubhakarī śobhanā sulabhā gatiḥ || 133 ||
rājarājeśvarī rājyadāyinī rājyavallabhā |
rājatkṛpā rājapīṭhaniveśitanijāśritā || 134 ||
rājyalakṣmīḥ kośanāthā caturaṅgabaleśvarī |
sāmrājyadāyinī satyasandhā sāgaramekhalā || 135 ||
dīkṣitā daityaśamanī sarvalokavaśaṅkarī |
sarvārthadātrī sāvitrī saccidānandarūpiṇī || 136 ||
deśakālāparicchinnā sarvagā sarvamohinī |
sarasvatī śāstramayī guhāmbā guhyarūpiṇī || 137 ||
sarvopādhivinirmuktā sadāśivapativratā |
sampradāyeśvarī sādhvī gurumaṇḍalarūpiṇī || 138 ||
kulottīrṇā bhagārādhyā māyā madhumatī mahī |
gaṇāmbā guhyakārādhyā komalāṅgī gurupriyā || 139 ||
svatantrā sarvatantreśī dakṣiṇāmūrtirūpiṇī |
sanakādisamārādhyā śivajñānapradāyinī || 140 ||
citkalā''nandakalikā premarūpā priyaṅkarī |
nāmapārāyaṇaprītā nandividyā naṭeśvarī || 141 ||
mithyājagadadhiṣṭhānā muktidā muktirūpiṇī |
lāsyapriyā layakarī lajjā rambhādivanditā || 142 ||
bhavadāvasudhāvṛṣṭiḥ pāpāraṇyadavānalā |
daurbhāgyatūlavātūlā jarādhvāntaraviprabhā || 143 ||
bhāgyābdhicandrikā bhaktacittakekighanāghanā |
rogaparvatadambholirmṛtyudārukuṭhārikā || 144 ||
maheśvarī mahākālī mahāgrāsā mahāśanā |
aparṇā caṇḍikā caṇḍamuṇḍāsuraniṣūdinī || 145 ||
kṣarākṣarātmikā sarvalokeśī viśvadhāriṇī |
trivargadātrī subhagā tryambakā triguṇātmikā || 146 ||
svargāpavargadā śuddhā japāpuṣpanibhākṛtiḥ |
ojovatī dyutidharā yajñarūpā priyavratā || 147 ||
durārādhyā durādharṣā pāṭalīkusumapriyā |
mahatī merunilayā mandārakusumapriyā || 148 ||
vīrārādhyā virāḍrūpā virajā viśvatomukhī |
pratyagrūpā parākāśā prāṇadā prāṇarūpiṇī || 149 ||
mārtāṇḍabhairavārādhyā mantriṇīnyastarājyadhūḥ |
tripureśī jayatsenā nistraiguṇyā parāparā || 150 ||
satyajñānānandarūpā sāmarasyaparāyaṇā |
kapardinī kalāmālā kāmadhuk kāmarūpiṇī || 151 ||
kalānidhiḥ kāvyakalā rasajñā rasaśevadhiḥ |
puṣṭā purātanā pūjyā puṣkarā puṣkarekṣaṇā || 152 ||
paraṃjyotiḥ paraṃdhāma paramāṇuḥ parātparā |
pāśahastā pāśahantrī paramantravibhedinī || 153 ||
mūrtā'mūrtā'nityatṛptā munimānasahaṃsikā |
satyavratā satyarūpā sarvāntaryāminī satī || 154 ||
brahmāṇī brahmajananī bahurūpā budhārcitā |
prasavitrī pracaṇḍā''jñā pratiṣṭhā prakaṭākṛtiḥ || 155 ||
prāṇeśvarī prāṇadātrī pañcāśatpīṭharūpiṇī |
viśṛṅkhalā viviktasthā vīramātā viyatprasūḥ || 156 ||
mukundā muktinilayā mūlavigraharūpiṇī |
bhāvajñā bhavarogaghnī bhavacakrapravartinī || 157 ||
chandaḥsārā śāstrasārā mantrasārā talodarī |
udārakīrtiruddāmavaibhavā varṇarūpiṇī || 158 ||
janmamṛtyujarātaptajanaviśrāntidāyinī |
sarvopaniṣadudghuṣṭā śāntyatītakalātmikā || 159 ||
gambhīrā gaganāntasthā garvitā gānalolupā |
kalpanārahitā kāṣṭhā'kāntā kāntārdhavigrahā || 160 ||
kāryakāraṇanirmuktā kāmakelitaraṅgitā |
kanatkanakatāṭaṅkā līlāvigrahadhāriṇī || 161 ||
ajā kṣayavinirmuktā mugdhā kṣipraprasādinī |
antarmukhasamārādhyā bahirmukhasudurlabhā || 162 ||
trayī trivarganilayā tristhā tripuramālinī |
nirāmayā nirālambā svātmārāmā sudhāsṛtiḥ || 163 ||
saṃsārapaṅkanirmagnasamuddharaṇapaṇḍitā |
yajñapriyā yajñakartrī yajamānasvarūpiṇī || 164 ||
dharmādhārā dhanādhyakṣā dhanadhānyavivardhinī |
viprapriyā viprarūpā viśvabhramaṇakāriṇī || 165 ||
viśvagrāsā vidrumābhā vaiṣṇavī viṣṇurūpiṇī |
ayoniryoninilayā kūṭasthā kularūpiṇī || 166 ||
vīragoṣṭhīpriyā vīrā naiṣkarmyā nādarūpiṇī |
vijñānakalanā kalyā vidagdhā baindavāsanā || 167 ||
tattvādhikā tattvamayī tattvamarthasvarūpiṇī |
sāmagānapriyā saumyā sadāśivakuṭumbinī || 168 ||
savyāpasavyamārgasthā sarvāpadvinivāriṇī |
svasthā svabhāvamadhurā dhīrā dhīrasamarcitā || 169 ||
caitanyārghyasamārādhyā caitanyakusumapriyā |
sadoditā sadātuṣṭā taruṇādityapāṭalā || 170 ||
dakṣiṇādakṣiṇārādhyā darasmeramukhāmbujā |
kaulinīkevalā'narghyakaivalyapadadāyinī || 171 ||
stotrapriyā stutimatī śrutisaṃstutavaibhavā |
manasvinī mānavatī maheśī maṅgalākṛtiḥ || 172 ||
viśvamātā jagaddhātrī viśālākṣī virāgiṇī |
pragalbhā paramodārā parāmodā manomayī || 173 ||
vyomakeśī vimānasthā vajriṇī vāmakeśvarī |
pañcayajñapriyā pañcapretamañcādhiśāyinī || 174 ||
pañcamī pañcabhūteśī pañcasaṃkhyopacāriṇī |
śāśvatī śāśvataiśvaryā śarmadā śambhumohinī || 175 ||
dharādharasutā dhanyā dharmiṇī dharmavardhinī |
lokātītā guṇātītā sarvātītā śamātmikā || 176 ||
bandhūkakusumaprakhyā bālā līlāvinodinī |
sumaṅgalī sukhakarī suveṣāḍhyā suvāsinī || 177 ||
suvāsinyarcanaprītā''śobhanā śuddhamānasā |
bindutarpaṇasantuṣṭā pūrvajā tripurāmbikā || 178 ||
daśamudrāsamārādhyā tripurāśrīvaśaṅkarī |
jñānamudrā jñānagamyā jñānajñeyasvarūpiṇī || 179 ||
yonimudrā trikhaṇḍeśī triguṇāmbā trikoṇagā |
anaghā'dbhutacāritrā vāñchitārthapradāyinī || 180 ||
abhyāsātiśayajñātā ṣaḍadhvātītarūpiṇī |
avyājakaruṇāmūrtirajñānadhvāntadīpikā || 181 ||
ābālagopaviditā sarvānullaṅghyaśāsanā |
śrīcakrarājanilayā śrīmattripurasundarī || 182 ||
śrīśivā śivaśaktyaikyarūpiṇī lalitāmbikā |
evaṃ śrīlalitā devyā nāmnāṃ sāhasrakaṃ jaguḥ ||
|| iti śrībrahmāṇḍapurāṇe uttarakhaṇḍe śrīhayagrīvāgastyasaṃvāde
śrīlalitā sahasranāma stotra kathanaṃ sampūrṇam ||