विष्णुपुराणम् · Amsha 5
अध्यायः ३६
Ask AIमेत्रेय!श्रूयतां तस्य बलस्य बलशालिनः ।कृतं यदन्यत्तेनाभूत्तदपि श्रूयतां द्रिज ।। ५-३६-१ ।।
नरकस्यासुरेन्द्रस्य देवपक्षविरोधिनः ।सखाभवन्महावीर्य्यो द्रिविदो नाम वानरः ।। ५-३६-२ ।।
वैरानुबन्ध बलवान् स चकार सुरान् प्रित ।नरक हतवान् कृष्णो बलदर्पसमन्वितम् ।। ५-३६-३ ।।
करिष्ये सर्व्वदेवानां तस्मादेतत्प्रतिक्रियाम् ।यज्ञविध्वंसनं कुर्व्वन् मर्त्तलोकक्षयं तथा ।। ५-३६-४ ।।
ततो विध्वसयामास यज्ञानज्ञानमोहितः ।बिबेद साधुमर्य्यादां क्षयं चक्र च देहिनाम् ।। ५-३६-५ ।।
ददाह च वनोद्देशान् पुरग्रामान्तराणि च ।क्वचिज्व पर्व्वताक्षेपैर्ग्रामादीन् समचूणोयत् ।। ५-३६-६ ।।
शैलानुतूपाट्य तोयेषु मुमोचाम्बुनिधौ तथा ।पुनञ्चार्णवमध्यस्थः क्षोभयामास सागरम् ।। ५-३६-७ ।।
तेन विक्षोभितश्वाब्धिरुद्रेलोऽजायत द्रिज ।प्लावयंस्तीरजान् ग्रामान् पुरादीनतिवेगवान् ।। ५-३६-८ ।।
कामरूपी महारूपं कृत्वा संस्थानशेषतः ।लुण्ठन् भ्रमणसंमर्द्देः सञ्चूर्णायति वानरः ।। ५-३६-९ ।।
तेन विप्रकृतं सर्व्वं जगदेतदूदुरात्मना ।निः स्वाध्यायवषटूकारं मैत्रेयासीत् सुदुः खितम् ।। ५-३६-१० ।।
एकदा रैवतोद्याने पपौ पानं हलायुधः ।रेवती च महाभागा तथैवान्या वरस्त्रियः ।। ५-३६-११ ।।
उपगीयमानो विलसल्ललनामौलिमध्यगः ।रेमे यदुवरश्वष्ठः कुवेर इव मन्दरे ।। ५-३६-१२ ।।
ततः स वानरोऽभ्येत्य गृहीत्वा सीरिणो हलम् ।मुषलञ्च चकारास्य सम्मुख़्च बिड़म्बनम् ।। ५-३६-१३ ।।
तथैव योषितां तासां जहासाभिमुखं कपिः ।पानपूर्णाश्व करकांश्विक्षेपाहत्य वै तदा ।। ५-३६-१४ ।।
ततः कोपपरीतात्मा भर्तूसयामास तं बलः ।तथापि तमवज्ञाय चक्र किलकिलाध्वनिम् ।। ५-३६-१५ ।।
ततः समुत्थाय बलो जग्राह मुषल रुषा ।सोऽपि शैलशिलां भीमां जग्राह प्लवगोत्तमः ।। ५-३६-१६ ।।
चिक्षेप च स तां क्षिप्तां मुषलेन सहस्त्रधा ।बिभेद यादवश्वेष्ठः सा पपात महीतले ।। ५-३६-१७ ।।
आपतन्मुषलञ्चासौ समुल्लङ्घय प्लवङ्गमः ।वेगेनागम्य रोषेण तलेनोरस्यताड़यत् ।। ५-३६-१८ ।।
ततो बलेन कोपेन मुष्टिना मूद्धि ताड़ितः ।पपात रुधिरोदूगारी द्रिविदः क्षीणाजीवितः ।। ५-३६-१९ ।।
पतता तच्छरीरेण गिरेः श्वृङ्गमदीर्य्यत ।मैत्रेय!शतधा वज्रिवजणेव हि ताड़ितम् ।। ५-३६-२० ।।
पुष्पवृष्टिं ततो देवा रामस्योपरि चिक्षिपुः ।प्रशशंसुस्तथाभ्येत्य साध्वेतत्ते महत् कृतम् ।। ५-३६-२१ ।।
अनेन दुष्टकपिना दैत्यपक्षोपकारिणा ।जगन्निराकृतं वीर! दिष्ट्यासौ क्षयमागतः ।। ५-३६-२२ ।।
इत्युक्त्वा दिवमाजग्मुर्देवा ह्टष्टाः सगुह्यकाः ।। ५-३६-२३ ।।
एवंविधान्यनेकानि बलदेवस्य धीमतः ।कर्म्माण्यपरिमेयाणि शेषस्य धरणीबृतः ।। ५-३६-२४ ।।
Vishnu Purana by Maharshi Parashara, narrating to his disciple Maitreya (by tradition). Sanskrit text of all six amshas (126 adhyayas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Vishnu Purana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.