Dharmasthan

India's Digital Home for Devotion

Dharmasthan
Bhakti LibraryEvents CalendarDharmaVerseJap CounterDharma AIContestsSansthas
HOST ROOM
MandalSign In
Dharmasthan

India's Digital Home for Devotion.

|| भक्ति· से ही शांति है ||

Hindu prayers, aarti and bhajan lyrics, mandals and festivals across India.

Explore

  • Bhakti Library
  • Aartis
  • Bhajans
  • Devotional Songs
  • Mantras
  • Stotrams
  • Chalisas
  • Shlokas
  • Stutis & Ashtakams
  • Vrat Kathas
  • Marathi Prayers
  • Hindi Prayers
  • Sanskrit Prayers
  • Videos
  • Hindu Stories
  • Holy Books
  • DharmaVerse
  • Events Calendar
  • By Deity
  • Festival Playlists
  • Upcoming Festivals
  • Jap Counter
  • Contests
  • Events

For Mandals

  • Mandal Login
  • Register Mandal
  • Discover Mandals
  • Donation Campaigns

About

  • About Us
  • Contact
  • Privacy Policy
  • Terms of Service
  • Consent Policy
  • Platform Admin

© 2026 Dharmasthan - devotion, in one place

Made with devotion in India

Home
Bhakti Library
Jap
DharmaVerse
  1. Home
  2. Bhakti Library
  3. Holy Books
  4. Vishnu Purana
  5. Amsha 5
  6. अध्यायः २३

विष्णुपुराणम् · Amsha 5

अध्यायः २३

संस्कृतEnglish
Ask AI

1श्रीपराशर उवाचगार्ग्यं गोष्ठ्यां द्विजं श्यालष्षंड इत्युक्तवान्द्विजयदूनां सन्निधौ सर्वे जहसुर्यादवास्तदा १

2ततः कोपपरीतात्मा दक्षिणापथमेत्य सःसुतमिच्छंस्तपस्तेपे यदुचक्रभयावहम् २

3आराधयन्महादेवं लोहचूर्णमभक्षयत्ददौ वरं च तुष्टोऽस्मै वर्षे तु द्वादशो! हरः ३

4संतोषयामास च तं यवनेशो ह्यनात्मजःतद्योषित्संगमाच्चास्य पुत्रोऽभूदलिसन्निभः ४

5तं कालयवनं नाम राये स्वे यवनेश्वरःअभिषिच्य वनं यातो वज्राग्रकठिनोरसम् ५

6स तु वीर्यमदोन्मत्तः पृथिव्यां बलिनो नृपान्अपृच्छन्नारदस्तस्मै कथयामास यादवान् ६

7म्लेच्छकोटिसहस्राणां सहस्रैस्सोभिसंवृतःगजाश्वरथसंपन्नैश्चकार परमोद्यमम् ७

8प्रययौ स व्यवच्छिन्नं छिन्नयानो दिनेदिनेयादवान्प्रति सामर्षो मैत्रेय मथुरां पुरीम् ८

9कृष्णोऽपि चिंतयामास क्षपितं यादवं बलम्यवनेन रणे गम्यं मागधस्य भविष्यति ९

10मागधस्य बलं क्षीणं स कालयवनो बलीहंतैतदेवमायातं यदूनां व्यसनं द्विधा १०

11तस्माद्दुर्गं करिष्यामि यदूनामरिदुर्जयम्स्त्रियोऽपि यत्र युद्धेयुः किं पुनर्वृष्णिपुंगवाः ११

12मयि मत्ते प्रमत्ते वा सुप्ते प्रवसितेऽपि वायादवाभिभवं दुष्टा मा कुर्वंस्त्वरयोधिकाः १२

13इति संचिंत्य गोविंदो योजनानां महोदधिम्ययाचे द्वादशपुरीं द्वारकां तत्र निर्ममे १३

14महोद्यानां महावप्रां तटाकशतशोभिताम्प्रासादगृहसंबाधामिंद्रस्येवामरावतीम् १४

15मथुरावासिनं लोकं तत्रानीय जनार्दनःआसन्ने कालयवने मथुरां च स्वयं ययौ १५

16बहिरावासिते सैन्ये मथुराया निरायुधःनिर्जगाम च गोविंदो ददर्श यवनश्च तम् १६

17स ज्ञात्वा वासुदेवं तं बाहुप्रहरणं नृपःअनुयातो महायोगी चेतोभिः प्राप्यते न यः १७

18तेनानुयातः कृष्णोऽपि प्रविवेश महागुहाम्यत्र शेते महावीर्यो मुचुकुंदो नरेश्वरः १८

19सोऽपि प्रविष्टो यवनो दृष्ट्वा शय्यागतं नृपम्पादेन ताडयामास मत्वा कृष्णं सुदुर्मतिः १९

20उत्थाय मुचुकुंदोऽपि ददर्श यवनं नृपः २०

21दृष्टमात्रश्च तेनाऽसौ जज्वाल यवनोग्निनातत्क्रोधजेन मैत्रेय भस्मीभूतश्च तत्क्षणात् २१

22स हि देवासुरे युद्धे गतो हत्वा महासुरान्निद्रा र्त्तस्सुमहाकालं निद्रा ं! वव्रे वरं सुरान् २२

23प्रोक्तश्च देवैस्संसुप्तं यस्त्वामुत्थापयिष्यतिदेहजेनाग्निना सद्यस्स तु भस्मीभविष्यति २३

24एवं दग्ध्वा स तं पापं दृष्ट्वा च मधुसूदनम्कस्त्वमित्याह सोऽप्याह जातोहं शशिनः कुलेवसुदेवस्य तनयो यदोर्वंशसमुद्भवः २४

25मुचुकुंदोऽपि तत्राऽसौ वृद्धगार्ग्यवचोऽस्मरत् २५

26संस्मृत्य प्रणिपत्यैनं सर्वं सर्वेश्वरं हरिम्प्राह ज्ञानो भवान्विष्णोरंशस्त्वं परमेश्वर २६

27पुरा गार्ग्येण कथितमष्टाविंशतिमे युगेद्वापरांते हरेर्जन्म यदुवंशो! भविष्यति २७

28स त्वं प्राप्तो न संदेहो मर्त्त्यानामुपकारकृत् २८

29तथाहि सुमहत्तेजो नालं सोढुमहं तवतथाहि सजलांभोदनादधीरतरं तववाक्यं नमति चैवोर्वी युष्मत्पादप्रपीडिता २९

30देवासुरमहायुद्धे दैत्यसैन्यमहाभटाःन सेहुर्मम तेजस्ते त्वत्तेजो न सहाम्यहम् ३०

31संसारपतितस्यैको जंतोस्त्वं शरणं परम्प्रसीद त्वं प्रपन्नार्त्तिहर नाशय मेऽशुभम् ३१

32त्वं पयो निधयश्शैलसरितस्त्वं वनानि चमेदिनी गगनं वायुरापोग्निस्त्वं तथा मनः ३२

33बुद्धिरव्याकृतप्राणाः प्राणेशस्त्वं तथा पुमान्पुंसः परतरं यच्च व्याप्य जन्म विकारवत् ३३

34शब्दादिहीनमजरममेयं क्षयवर्जितम्अवृद्धिनाशं तद्ब्रह्म त्वमाद्यंतविवर्जितम् ३४

35त्वत्तोऽमरास्सपितरो यक्षगंधर्वकिन्नराःसिद्धाश्चाप्सरसस्त्वत्तो मनुष्याः पशवः खगाः ३५

36सरीसृपा मृगास्सर्वे त्वत्तस्सर्वे महीरुहाःयच्च भूतं भविष्यं च किंचिदत्र चराचरम् ३६

37मूर्त्तामूर्त्तं तथा चापि स्थूलं सूक्ष्मतरं तथातत्सर्वं त्वं जगत्कर्त्ता नास्ति किंचित्त्वया विना ३७

38मया संसारचक्रेऽस्मिन्भ्रमता भगवंस्तदातापत्रयाभिभूतेन न प्राप्ता निर्वृतिः क्वचित् ३८

39दुःखान्येव सुखानीति मृगतृष्णाजलाशयाःमया नाथ गृहीतानि तानि तापाय मेऽभवन् ३९

40राज्यमुर्वी बलं कोशो मित्रपक्षस्तथात्मजाःभार्या भृत्य जनो ये च शब्दाद्या विषयाः प्रभो ४०

41सुखबुद्ध्या मया सर्वं गृहीतमिदमव्ययम्परिणामे तदेवेश तापात्मकमभून्मम ४१

42देवलोकगतिं प्राप्तो नाथ देवगणोऽपि हिमत्तस्साहाय्यकामोभूच्छाश्वती कुत्र निर्वृतिः ४२

43त्वामनाराध्य जगतां सर्वेषां प्रभवास्पदम्शाश्वती प्राप्यते केन परमेश्वर निर्वृतिः ४३

44त्वन्मायामूढमनसो जन्ममृत्युजरादिकान्अवाप्य तापान्पश्यंति प्रेतराजमनंतरम् ४४

45ततो निजक्रियासूतिनरकेष्वतिदारुणम्प्राप्नुवंति नरा दुःखमस्वरूपविदस्तव ४५

46अहमत्यंतविषयी मोहितस्तव माययाममत्वगर्वगर्त्तांतर्भ्रमामि परमेश्वर ४६

47सोऽहं त्वां शरणमपारमप्रमेयं संप्राप्तः परमपदं यतो न किंचित्संसारभ्रमपरितापतप्तचेतानिर्वाणे परिणतधाम्नि साभिलाषः ४७

इति श्रीविष्णुमहापुराणे पंचमांशो! त्रयोविंशोऽध्यायः २३

Vishnu Purana by Maharshi Parashara, narrating to his disciple Maitreya (by tradition). Sanskrit text of all six amshas (126 adhyayas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Vishnu Purana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.

अध्यायः २२अध्यायः २४

Related on Dharmasthan

  • Vishnu Purana: contents and about
  • Vishnu stotrams and aartis
  • Krishna bhajans and aartis
  • Om Jai Jagdish Hare
  • Vishnu Sahasranamavali
  • Why is Janmashtami celebrated?
  • Why is Narak Chaturdashi celebrated?
  • Bhagavad Gita
  • Mahabharata