विष्णुपुराणम् · Amsha 5
अध्यायः १९
Ask AIएवमन्तर्जले विष्णुमभिष्टूय स यादवः ।अर्ज्जयामास सर्व्वेशं पुष्पैर्धूपैर्मनोरमैः ।। ५-१९-१ ।।
परित्यक्तान्यविषयो मनस्तत्र निवेश्य सः ।ब्रह्मभूते चिरं स्थित्वा विरराम समाधितः ।। ५-१९-२ ।।
कृतकृत्यमिवात्मानं मन्यमानो महामतिः ।आजगाम रथं भूयो निगम्य यमुनाम्भसः ।। ५-१९-३ ।।
राम-कृष्णौ च ददृशे यथापूर्व्वं रथे स्थितौ ।विस्मिताक्षस्तदाक्रू रस्तञ्च कृष्णोऽभ्यभाषत ।। ५-१९-४ ।।
नूनं ते दृष्टमाश्वर्य्यमक्रूर!यमुनाजले ।विस्मयोतूफूल्लनयनो भवान् संलक्ष्यते यतः ।। ५-१९-५ ।।
अन्तर्जले यदाश्वर्य्यं दृष्टं तत्र मयाच्युत!तदत्रापि हि पश्यामि मूत्तिंमत् पुरतः स्थितम् ।। ५-१९-६ ।।
जगदेतन्महाश्वर्य्य रूपं यस्य महात्मनः ।तेनाश्वर्य्यवरेणाहं भवता कृष्ण!सङ्गतः ।। ५-१९-७ ।।
तत् किमेतेन मथुरां व्रजामो मधुसूदन!बिभेमि कंसाद्धिग् जन्म परपिण्डोपजीविनाम् ।। ५-१९-८ ।।
इत्युक्त्वा चोदयामास तान् हयान् वातरंहसः ।सम्प्राप्तश्वातिसायाह्र सोऽक्रूरो मथुरां पुरीम् ।। ५-१९-९ ।।
विलोक्य मथुरां कृष्णं रामञ्चाह स यादवः ।पद्भयां यातं महावीर्य्यो रथेनैको विशाम्यहम् ।। ५-१९-१० ।।
गन्तव्यं वसुदेवस्य भवद्भयां न तथा गृहम् ।युवयोर्हि कृते वृद्धः स कंसेन निरस्यते ।। ५-१९-११ ।।
इत्युत्तवा प्रविवेशाथ सोऽकूरो मथुरां पुरीम् ।प्रिवष्टौ रामकृष्णौ, च राजमार्गमुपागतौ ।। ५-१९-१२ ।।
स्त्रीभिर्नरैश्व सानन्दं लोचनैरभिवीक्षितौ ।जग्मतुलीलया वीरौ दृफ्तौ बालगजाविव ।। ५-१९-१३ ।।
भ्रममाणौ तु तौ दृष्ट्वा रजकं रङ्गकारकम् ।अयाचेतां सुरूपाणि वासांसि रुचिराननौ ।। ५-१९-१४ ।।
कंसस्य रजकः सोऽथ प्रसादारूढ़विस्मयः ।बहून्याक्षेपवाक्यानि प्राहोच्चै राम-केशवौ ।। ५-१९-१५ ।।
ततस्तलप्रहारेण कृष्णस्तस्य दुरात्मनः ।पातयामास कापेन रजकस्य शिरो भुवि ।। ५-१९-१६ ।।
हत्वादाय च वस्त्राणि पीतनीलाम्बरौ ततः ।कृष्ण-रामौ मुदा युक्तौ मालाकारगृहं गतौ ।। ५-१९-१७ ।।
विकाशिनेत्रयुगलौ मालाकारोऽतिविस्मितः ।एतौ कस्य कुतो वैतौ मैत्रेयाचिन्तयत् तदा ।। ५-१९-१८ ।।
पीतनीलाम्बरधरौ तौ दृष्ट्वातिमनोहरौ ।स तर्कयामास तदा भुवं देवावुपागतौ ।। ५-१९-१९ ।।
विकाशिमुखपद्माभ्यां ताभ्यां पुष्पाणि याचितः ।भुवं विष्टभ्य हस्ताभ्यां पस्पर्श शिरसा महीम् ।। ५-१९-२० ।।
प्रसादपरमौ नाथौ मम गेहमुपागतौ ।धन्योऽहमर्ज्जयिष्यामीत्याह तौ माल्यजीवकः ।। ५-१९-२१ ।।
ततः प्रह्टश्टवदनस्तयोः पुष्पाणि कामतः ।चारूण्येतान्यथैतानि प्रददौ स विलोभयन ।। ५-१९-२२ ।।
पुनः पुनः प्रणम्यासौ मालाकारौ नरोत्तमौ ।ददौ पुष्पाणि चारूणि गन्धवन्त्यमलानि च ।। ५-१९-२३ ।।
मालाकाराय कृष्णोऽपि प्रसन्नः प्रददौ वरान ।श्रीस्त्वां मतूसंश्रया भद्र! न कदाचित् प्रहास्तयि ।। ५-१९-२४ ।।
बलहानिर्न ते सौम्य! धनहानिस्थथैव च ।यावद्दिनानि तावज्व न नशिष्यति सन्ततिः ।। ५-१९-२५ ।।
बुक्त्वा च विपुलान् भोगांस्तमन्ते मतूप्रसादजम् ।ममानुस्मरणां प्राप्य दिव्यं लोकमवाप्स्यसि ।। ५-१९-२६ ।।
धर्म्मे मनश्व ते भद्र!सर्व्वकालं भविष्यति ।युष्मत्सन्ततिजातानां दीर्घमायुर्भविष्यति ।। ५-१९-२७ ।।
नोपसर्गादिकं दोषं युष्मत्सन्ततिसम्भवः ।सम्प्राप्स्यति महाभाग!यावत् सूर्य्यो धरिष्यति ।। ५-१९-२८ ।।
इतुक्त्वा तदूगृहात् कृष्णो बलदेवसहायवान् ।निर्ज्जगाम मुनिश्वेष्ठ! मालाकारेण पूजितः ।। ५-१९-२९ ।।
Vishnu Purana by Maharshi Parashara, narrating to his disciple Maitreya (by tradition). Sanskrit text of all six amshas (126 adhyayas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Vishnu Purana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.