विष्णुपुराणम् · Amsha 5
अध्यायः १६
Ask AI1।श्रीपराशर उवाच ।केशी चापि बलोदग्रः कंसदूतः प्रचोदितः ।कृष्णस्य निधनाकांक्षी वृंदावनमुपागमत् १ ।
2स खुरक्षतभूपृष्ठस्सटाक्षेपधुतांबुदः ।द्रुतविक्रांतचंद्रार्कमार्गो गोपानुपाद्रवत् २ ।
3तस्य हेषितशब्देन गोपाला दैत्यवाजिनः ।गोप्यश्च भयसंविग्ना गोविंदं शरणं ययुः ३ ।
4त्राहित्राहीति गोविंदः श्रुत्वा तेषां ततो वचः ।सतोयजलदध्वानगंभीरमिदमुक्तवान् ४ ।
5अलं त्रासेन गोपालाः केशिनः किं भयातुरैः ।भवद्भिर्गोपजातीयैर्वीरवीर्यं विलोप्यते ५ ।
6किमनेनाल्पसारेण हेषिताटोपकारिणा ।दैतेयबलवाह्येन वल्गता दुष्टवाजिना ६ ।
7एह्येहि दुष्ट कृष्णोऽहं पूष्णस्त्विव पिनाकधृत् ।पातयिष्यामि दशनान्वदनादखिलांस्तव ७ ।
8इत्युक्त्वाऽस्फोट्य गोविंदः केशिनस्संमुखं ययौ ।विवृतास्यश्च सोप्येनं दैतेयाश्व उपाद्रवत् ८ ।
9बाहुमाभोगिनं कृत्वा मुखे तस्य जनार्दनः ।प्रवेशयामास तदा केशिनो दुष्टवाजिनः ९ ।
10केशिनो वदनं तेन विशता कृष्णबाहुना ।शातिता दशनाः पेतुः सिताब्भ्रावयवा इव १० ।
11कृष्णस्य ववृधे बाहुः केशिदेहगतो द्विज ।विनाशाय यथा व्याधिरासंभूतेरुपेक्षितः ११ ।
12विपाटितोष्ठो बहुलं सफेनं रुधिरं वमन् ।सोक्षिणी विवृते चक्रे विशिष्टे मुक्तबंधने १२ ।
13जघान धरणीं पादैश्शकृन्मूत्रं समुत्सृजन् ।स्वेदार्द्र गात्रश्शांतश्च निर्यत्नस्सोऽभवत्तदा १३ ।
14व्यादितास्यमहारंध्रस्सोऽसुरः कृष्णबाहुना ।निपातितो द्विधा भूमौ वैद्युतेन यथा द्रुमः १४ ।
15द्विपादे पृष्ठपुच्छार्द्धे श्रवणैकाक्षिनासिके ।केशिनस्ते द्विधा भूते शकले द्वे विरेजतुः १५ ।
16हत्वा तु केशिनं कृष्णो गोपलैर्मुदितैर्वृतः ।अनायस्ततनुस्स्वस्थो हसंस्तत्रैव तस्थिवान् १६ ।
17ततो गोप्यश्च गोपाश्च हते केशिनि विस्मिताः ।तुष्टुवुः पुंडरीकाक्षमनुरागमनोरमम् १७ ।
18अथाहांतर्हितो विप्र नारदो जलदे स्थितः ।केशिनं निहतं दृष्ट्वा हर्षनिर्भरमानसः १८ ।
19साधुसाधु जगन्नाथ लीलयैव यदच्युत ।निहतोऽयं त्वया केशी क्लेशदस्त्रिदिवौकसाम् १९ ।
20युद्धोत्सुकोहमत्यर्थं नरवाजिमहाहवम् ।अभूतपूर्वमन्यत्र द्रष्टुं स्वर्गादिहागतः २० ।
21कर्माण्यऽत्रावतारे ते कृतानि मधुसूदन ।यानि तैर्विस्मितं चेतस्तोषमेतेन मे गतम् २१ ।
22तुरंगस्यास्य शक्रोपि कृष्ण देवाश्च बिभ्यति ।धुतकेसरजालस्य ह्रेषतोऽभ्रावलोकिनः २२ ।
23यस्मात्त्वयैष दुष्टात्मा हतः केशी जनार्दन ।तस्मात्केशवनाम्ना त्वं लोके ख्यातो भविष्यसि २३ ।
24स्वस्त्यस्तु ते गमिष्यामि कंसयुद्धेऽधुना पुनः ।परश्वोऽहं समेष्यामि त्वया केशिनिषूदन २४ ।
25उग्रसेनसुते कंसे सानुगे विनिपातिते ।भारावतारकर्त्ता त्वं पृथिव्या पृथिवीधर २५ ।
26तत्रानेकप्रकाराणि युद्धानि पृथिवीक्षिताम् ।द्रष्टव्यानि मया युष्मत्प्रणीतानि जनार्दन २६ ।
27सोऽहं यास्यामि गोविंद देवकार्यं महत्कृतम् ।त्वयैव विदितं सर्वं स्वस्ति तेऽस्तु व्रजाम्यहम् २७ ।
28नारदे गते कृष्णस्सह गोपैस्सभाजितः ।विवेश गोकुलं गोपीनेत्रपानैकभाजनम् २८ ।
इति श्रीविष्णुाहापुराणे पंचमांशो! षोडशोऽध्यायः १६।।।
Vishnu Purana by Maharshi Parashara, narrating to his disciple Maitreya (by tradition). Sanskrit text of all six amshas (126 adhyayas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Vishnu Purana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.