विष्णुपुराणम् · Amsha 5
अध्यायः १४
Ask AI1श्रीपराशर उवाच।प्रदोषाग्रे कदाचित्तु रासासक्ते जनार्दने।त्रासयन्समदो गोष्ठमरिष्टस्समुपागमत् १।
2स तोयतोयदच्छायस्तीक्ष्णशृंगोर्कलोचनः।खुराग्रपातैरत्यर्थं दारयन्धरणीतलम् २।
3लेलिहानस्सनिष्पेषं जिह्वयोष्ठौ पुनःपुनः।संरंभाविद्धलांगूलः कठिनस्कंधबंधनः ३।
4उदग्रककुदाभोगप्रमाणो दुरतिक्रमः।विण्मूत्रलिप्तपृष्ठांगो गवामुद्वेगकारकः ४।
5प्रलंबकंठोऽतिमुखस्तरुखातांकिताननः।पातयन्स गवां गर्भान्दैत्यो वृषभरूपधृक् ५।
6सूदयंस्तापसानुग्रो वनानटति यस्सदा ६।
7ततस्तमतिघोराक्षमवेक्ष्यातिभयातुराः।गोपा गोपस्त्रियश्चैव कृष्णकृष्णेति चुक्रुशुः ७।
8सिंहनादं ततश्चक्रे तलशब्दं च केशवः।तच्छब्दश्रवणाच्चाऽसौ दामोदरमुपाययौ ८।
9अग्रन्यस्तविषाणाग्रः कृष्णकुक्षिकृतेक्षणः ।अभ्यधावत दुष्टात्मा कृष्णं वृषभदानवः ९।
10आयांतं दैत्यवृषभं दृष्ट्वा कृष्णो महाबलः।न चचाल तदा स्थानादवज्ञास्मितलीलया १०।
11आसन्नं चैव जग्राह ग्राहवन्मधुसूदनः।जघान जानुना कुक्षौ विषाणग्रहणाचलम् ११।
12तस्य दर्पबलं भंक्त्वा गृहीतस्य विषाणयोः।अपीडयदरिष्टस्य कंठं क्लिन्नमिवांबरम् १२।
13उत्पाट्य शृंगमेकं तु तेनैवाताडयत्ततः।ममार स महादैत्यो मुखाच्छोणितमुद्वमन् १३।
14तुष्टुवुर्निहते तस्मिन्दैत्ये गोपा जनार्दनम् ।जंभे हते सहस्राक्षं पुरा देवगणा यथा १४।
इति श्रीविष्णुमहापुराणे पंचमांशे चतुर्दशोऽध्यायः १४।
Vishnu Purana by Maharshi Parashara, narrating to his disciple Maitreya (by tradition). Sanskrit text of all six amshas (126 adhyayas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Vishnu Purana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.