विष्णुपुराणम् · Amsha 5
अध्यायः १२
Ask AI1श्रीपराशर उवाच।धृते गोवर्द्धने शैले परित्राते च गोकुले ।रोचयामास कृष्णस्य दर्शनं पाकशासनः १ ।
2सोऽधिरुह्य महानागमैरावतममित्रजित् ।गोवर्द्धनगिरौ कृष्णं ददर्श त्रिदश्श्वोरः २ ।
3चारयंतं महावीर्यं गास्तु गोपवपुर्धरम् ।कृत्स्नस्य जगतो गोपं वृतं गोपकुमारकैः ३ ।
4गरुडं च ददर्शोच्चैरंतर्द्धानगतं द्विज ।कृतच्छायं हरेर्मूर्ध्नि पक्षाभ्यां पक्षिपुंगवम् ४ ।
5अवरुह्य स नागेंद्रा देकांते मधुसूदनम् ।शक्रस्सस्मितमाहेदं प्रीतिविस्तारितेक्षणः ५ ।
6इंद्र उवाच।कृष्णकृष्ण शृणुष्वेदं यदर्थ महामागतः ।त्वत्समीपं महाबाहो नैतच्चिंत्यं त्वयाऽन्यथा ६ ।
7भारावतारणार्थाय पृथिव्याः पृथिवीतले ।अवतीर्णोऽखिलाधार त्वमेव परमेश्वर ७ ।
8मखभंगविरोधेन मया गोकुलनाशकाः ।समादिष्टा महामेघास्तैश्चेदं कदनं कृतम् ८ ।
9त्रातास्ताश्च त्वया गावस्समुत्पाट्य महीधरम् ।तेनाऽहं तोषितो वीरकर्मणाऽत्यद्भुतेन ते ९ ।
10साधितं कृष्ण देवानामहं मन्ये प्रयोजनम् ।त्वयायमद्रि प्रवरः करेणैकेन यद्धृतः १० ।
11गोभिश्च चोदितः कृष्ण त्वत्सकाशमिहागतः ।त्वया त्राताभिरत्यर्थं युष्मत्सत्कारकारणात् ११ ।
12स त्वां कृष्णाभिषेक्ष्यामि गवां वाक्यप्रचोदितः ।उपेंद्र त्वे गवामिंद्रो गोविंदस्त्वं भविष्यसि १२ ।
13श्रीपराशर उवाच।अथोपवाह्यादादाय घंटामैरावताद्गजात् ।अभिषेकं तया चक्रे पवित्रजलपूर्णया १३ ।
14क्रियमाणेऽभिषेके तु गावः कृष्णस्य तत्क्षणात् ।प्रस्नवोद्भूतदुग्धाद्रा रं! सद्यश्चक्रुर्वसुन्धराम् १४ ।
15अभिषिच्य गवां वाक्यादुपेंद्रं वै जनार्दनम् ।प्रीत्या सप्रश्रयं वाक्यं पुनराह शचीपतिः १५ ।
16गवामेतत्कृतं वाक्यं तथान्यदपि मे शृणु ।यद्ब्रवीमि महाभाग भारावतरणेच्छया १६ ।
17ममंशः पुरुषव्याघ्र पृथिव्यां पृथिवीधर ।अवतीर्णोऽर्जुनोनाम संरक्ष्यो भवता सदा १७ ।
18भारावतरणे साह्यं स ते वीरः करिष्यति ।संरक्षणीयो भवता यथात्मा मधुसूदन १८ ।
19श्रीभगवानुवाच।जानामि भारते वंशो! जातं पार्थं तवांशतः ।तमहं पालयिष्यामि यावत्स्थास्यामि भूतले १९ ।
20यावन्महीतले शक्र स्थास्याम्यहमरिंदम ।न तावदर्जुनं कश्चिद्देवेंद्र युधि जेष्यति २० ।
21कंसो नाम महाबाहुर्दैत्योऽरिष्टस्तथाऽसुरः ।केशी कुवलयापीडो नरकाद्यास्तथा परे २१ ।
22हतेषु तेषु देवेंद्र भविष्यति महाहवः ।तत्र विद्धि सहस्राक्ष भारावतरणं कृतम् २२ ।
23स त्वं गच्छ न संतापं पुत्रार्थे कर्त्तुमर्हसि ।नार्जुनस्य रिपुः कश्चिन्ममाग्रे प्रभविष्यति २३ ।
24अर्जुनार्थे त्वहं सर्वान्युधिष्ठिरपुरोगमान् ।निवृत्ते भारते युद्धे कुंत्यै दास्याम्यविक्षताम् २४ ।
25श्रीपराशर उवाच।इत्युक्तः संपरिष्वज्य देवाराजो जनार्दनम् ।आरुह्यैरावतं नागं पुनरेव दिवं ययौ २५ ।
26कृष्णो हि सहितो गोभिर्गोपालैश्च पुनर्व्रजम् ।आजगामाऽथ गोपीनां दृष्टिपूतेन वर्त्मना २६ ।
इति श्रीविष्णुमहापुराणे पंचमांशो! द्वादशोऽध्यायः १२।
Vishnu Purana by Maharshi Parashara, narrating to his disciple Maitreya (by tradition). Sanskrit text of all six amshas (126 adhyayas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Vishnu Purana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.