Dharmasthan

India's Digital Home for Devotion

Dharmasthan
Bhakti LibraryEvents CalendarDharmaVerseJap CounterDharma AIContestsSansthas
HOST ROOM
MandalSign In
Dharmasthan

India's Digital Home for Devotion.

|| भक्ति· से ही शांति है ||

Hindu prayers, aarti and bhajan lyrics, mandals and festivals across India.

Explore

  • Bhakti Library
  • Aartis
  • Bhajans
  • Devotional Songs
  • Mantras
  • Stotrams
  • Chalisas
  • Shlokas
  • Stutis & Ashtakams
  • Vrat Kathas
  • Marathi Prayers
  • Hindi Prayers
  • Sanskrit Prayers
  • Videos
  • Hindu Stories
  • Holy Books
  • DharmaVerse
  • Events Calendar
  • By Deity
  • Festival Playlists
  • Upcoming Festivals
  • Jap Counter
  • Contests
  • Events

For Mandals

  • Mandal Login
  • Register Mandal
  • Discover Mandals
  • Donation Campaigns

About

  • About Us
  • Contact
  • Privacy Policy
  • Terms of Service
  • Consent Policy
  • Platform Admin

© 2026 Dharmasthan - devotion, in one place

Made with devotion in India

Home
Bhakti Library
Jap
DharmaVerse
  1. Home
  2. Bhakti Library
  3. Holy Books
  4. Vishnu Purana
  5. Amsha 5
  6. अध्यायः १०

विष्णुपुराणम् · Amsha 5

अध्यायः १०

संस्कृतEnglish
Ask AI

तयोविंहरतोस्तत्र राम-केशवयोर्व्रजे ।प्रावृट् व्यतीता विकसत्-सरोजा चाभवच्छरत् ।। ५-१०-१ ।।

अवापुस्तापमत्यर्थं शफर्य्यः पल्वलोदके ।पुत्रक्षेत्रादिसक्तेन ममत्वेन यथा गृही ।। ५-१०-२ ।।

मयूरा मौनिस्तस्थुः परित्यक्तमदा वने ।असारतां परिज्ञाय संसारस्येव योगिनः ।। ५-१०-३ ।।

उत्सृज्य जलसर्वस्वं निर्म्मलाः सितमूर्त्तयः ।तत्यजुश्वाम्बरं मेघा गृहं विज्ञानिनो यथा ।। ५-१०-४ ।।

शरत्सूर्य्यांशुतप्तानि ययुः शोष संरासि च ।बह्वालम्बि-ममत्वेन हृदयानीव देहिनाम् ।। ५-१०-५ ।।

कुमुदैः शरदम्भांसि योग्यतालक्षणं ययुः।अवबोधैर्मनांसीव सम्बन्धममलात्मनाम् ।। ५-१०-६ ।।

तारका विमले व्योम्नि रराजाखण्डमण्डलः ।चन्द्रश्चरमदेहात्मा योगी साधुकुले यथा ।। ५-१०-७ ।।

शनकैः शनकैस्तीरं तत्यजुश्व जलाशयाः ।ममत्वं क्षेत्रपुत्रादिरूढ़मुच्चैर्यथा बुधाः ।। ५-१०-८ ।।

पूर्व्वं त्यक्तैः सरोऽम्भोभिर्हंसा योगं पुनर्ययुः ।क्लेशैः कुयोगिनोऽशेषैरन्तरायहता इव ।। ५-१०-९ ।।

निभृतोऽभवदत्यर्थं समुद्रः स्तिमितोदकः ।क्रमावाप्तमहायोगो निश्वलात्मा यथा यतिः ।। ५-१०-१० ।।

सर्व्वत्रातिप्रसन्नानि सलिलानि तदाभवन् ।ज्ञाते सर्व्वगते विष्णौ मनांसीव सुमेधसाम् ।। ५-१०-११ ।।

बभूव निर्म्मलं व्योम शरदा ध्वस्ततोयदम् ।योगाग्निदग्धक्लेशौघं योगिनामिव मानसम् ।। ५-१०-१२ ।।

सूर्य्यांशुजनितं तापं निन्यं तारापतिः शमम् ।अहङ्कारोद्भवं दुःखं विवेकः सुमहानिव ।। ५-१०-१३ ।।

नभसोऽभ्रान् भुवः पङ्कान् कालुष्यं चाम्भसः शरत् ।इन्द्रियाणीन्द्रियार्थेभ्यः प्रत्याहार इवाहरत् ।। ५-१०-१४ ।।

प्राणायाम इवाम्भोभिः सरसां कृतपूरकैः ।अभ्यस्यतेऽनुदिवसं रेचकाकुम्भकादिभिः ।। ५-१०-१५ ।।

विमलाम्बरनक्षत्रे काले चाभ्यागते व्रजे।ददर्शेन्द्रमहारम्भायौद्यतांस्तान् व्रजौकसः ।। ५-१०-१६ ।।

कृष्णस्तानुत्सुकान् दृष्ट्वा गोपानुत्सवलालसान् ।कौतूहलादिदं वाक्यं प्राह वृद्धान् महामतिः ।। ५-१०-१७ ।।

कोऽयं शक्रमहो नाम येन वो हर्ष आगतः ।प्राह तं नन्दगोपश्व पृच्छन्तमतिसादरम् ।। ५-१०-१८ ।।

मेघानां पयसां चेशो देवराजः शतक्रतुः ।तेन सञ्चोदिता मेघा वर्षन्त्यम्बुमयं रसम् ।। ५-१०-१९ ।।

तद्वृष्टिजनितं शस्यं वयमन्ये च देहिनः ।वर्त्तयामोपयुञ्जानास्तर्पयामश्व देवताः ।। ५-१०-२० ।।

क्षीरवत्य इमा गावो वत्सवत्यश्व निर्वृताः ।तेन संवर्द्धितैः शस्यैः पुष्टास्तुष्टा भवन्ति वै ।। ५-१०-२१ ।।

नासस्या नातृणा भूमिर्न बुभुक्षार्द्दितो जनः ।दृश्यते यत्र दृश्यन्ते वृष्टिमन्तो बलाहकाः ।। ५-१०-२२ ।।

भौममेतत् पयो दुग्धं गोभिः सूर्य्यस्य वारिदः ।पर्ज्जन्यः सर्व्वलोकस्य भवाय भुवि वर्षति ।। ५-१०-२३ ।।

तस्मात् प्रावृषि राजानः सर्व्वे शक्र मुदा युताः ।मखैः सुरेशमर्च्चन्ति वयमन्ये च मानवाः ।। ५-१०-२४ ।।

नन्दगोपस्य वचनं श्रुत्वेत्थं शक्रपूजने ।कोपाय त्रिदशेन्द्रस्य प्राह दामोदरस्तदा ।। ५-१०-२५ ।।

न वयं कृषिकर्त्तारो वाणिज्यजीवनो न च ।गावोऽस्मद्दैवतं तात! वयं वनचरा यतः ।। ५-१०-२६ ।।

आन्वीक्षिकी त्रयी वार्त्ता दण्डनीतिस्तथापरा ।विद्याचतुष्टयं त्वेतत् वार्त्तामत्र शृणुष्व मे ।। ५-१०-२७ ।।

कृषिर्वणिज्या तद्वच्च तृतीयं पशुपालनम् ।विद्या ह्येका महाभाग! वार्त्ता वृत्तित्रयाश्रया ।। ५-१०-२८ ।।

कर्षकाणां कृषिर्वृत्तिः पणयं विपणिजीविनाम् ।अस्माकं गाः परा वृत्तिर्वार्त्ताभेदैरियं त्रिभिः ।। ५-१०-२९ ।।

विद्यया यो यया युक्तस्तस्य स दैवतं महत् ।सैव पूज्यार्च्चनीया च सैव तस्योपकारिका ।। ५-१०-३० ।।

यो यस्य फलमश्नन् वै पूजयत्यपरं नरः ।इह च प्रेत्य चैवासौ न तदाप्नोति शोभनम् ।। ५-१०-३१ ।।

कृष्यान्ता प्रथिता सीमा सीमान्तञ्च पुनर्वनम् ।वनान्ता गिरयः सर्व्वे ते चास्माकं परा गतिः ।। ५-१०-३२ ।।

न द्वारबन्धावरणा न गृहक्षेत्रिणस्तथा ।सुखिनस्त्वखिले लोके यथा वै चक्रचारिणः ।। ५-१०-३३ ।।

श्रूयन्ते गिरयश्चैव वनोऽस्मिन् कामरूपिणः ।तत्तद्रूपं समास्थाय रमन्ते स्वेषु सानुषु ।। ५-१०-३४ ।।

यदा चैते प्रबाध्यन्ते तेषां ये काननौकसः ।तदा सिंहादिरूपैस्तान् घातयन्ति महीधराः ।। ५-१०-३५ ।।

गिरियज्ञस्त्वयं तस्माद् गोयज्ञश्च प्रवर्त्त्यताम् ।किमस्माकं महेन्द्रेण गावः शैलाश्व देवताः ।। ५-१०-३६ ।।

मन्त्रयज्ञपरा विप्राः सीतायज्ञाश्व कर्षकाः ।गिरि-गोयज्ञशीलाश्व वयमद्रिवनाश्रयाः ।। ५-१०-३७ ।।

तस्माद् गोवर्द्धनः शैलो भवद्भिर्विविधार्हणैः ।अर्च्च्यतां पूज्यतां मेध्यान् पशून् हत्वा विधानतः ।। ५-१०-३८ ।।

सर्व्वघोषस्य सन्दोहो गृह्यतां मा विचार्य्यताम् ।भोज्यन्तां तेन वै विप्रास्तथा ये चाभिवाञ्छकाः ।। ५-१०-३९ ।।

तत्रार्चिते कृते होमे भोजितेषु द्विजातिषु ।शरत्पुष्पकृतापीड़ाः परिगच्छन्तु गोगणाः ।। ५-१०-४० ।।

एतन्मम मतं गोपाः सम्प्रीत्या क्रियते यदि ।ततः कृता भवेत् प्रीतिर्गवामद्रेस्तथा मम ।। ५-१०-४१ ।।

इति तस्य वचः श्रुत्वा नन्दाद्यास्ते व्रजौकसः ।प्रीत्युत्फुल्लमुखा विप्र! साधु साध्वित्यथाब्रुवन् ।। ५-१०-४२ ।।

शोभनं ते मतं वत्स! यदेतद्भवतोदितम् ।तत् करिष्यामहे सर्व्वं गिरियज्ञः प्रवर्त्त्यताम् ।। ५-१०-४३ ।।

तथा च कृतवन्तस्ते गिरियज्ञं व्रजौकसः ।दधि-पायस-मांसाद्यैर्ददुः शैलबलिं ततः ।। ५-१०-४४ ।।

द्विजांश्च भोजयामासुः शतशोऽथ सहस्रशः ।अन्यानप्यागतानित्थं कृष्णेनोक्तं यथा पुरा ।। ५-१०-४५ ।।

गावः शैलं ततश्चक्रुरर्चितास्ताः प्रदक्षिणम् ।ऋषभाश्चापि नर्द्दन्तः सतोया जलदा इव ।। ५-१०-४६ ।।

गिरिमूर्द्धनि कृष्णोऽपि शैलोऽहमिति मूर्त्तिमान् ।बुभुजेऽन्नं बहु तदा गोपवर्य्याहृतं द्विज ।। ५-१०-४७ ।।

अन्येन कृष्णो रूपेण गोपैः सह गिरेः शिरः ।अधिरुह्यार्च्चयामास द्रितीयामात्मनस्तनुम् ।। ५-१०-४८ ।।

अन्तर्द्धानं गते तस्मिन् गोपा लब्ध्वा ततो वरान् ।कृत्वा गिरिमखं गोष्ठं निजमभ्याययुः पुनः ।। ५-१०-४९ ।।

Vishnu Purana by Maharshi Parashara, narrating to his disciple Maitreya (by tradition). Sanskrit text of all six amshas (126 adhyayas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Vishnu Purana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.

अध्यायः ९अध्यायः ११

Related on Dharmasthan

  • Vishnu Purana: contents and about
  • Vishnu stotrams and aartis
  • Krishna bhajans and aartis
  • Om Jai Jagdish Hare
  • Vishnu Sahasranamavali
  • Why is Janmashtami celebrated?
  • Why is Narak Chaturdashi celebrated?
  • Bhagavad Gita
  • Mahabharata