विष्णुपुराणम् · Amsha 4
अध्यायः १९
Ask AI1श्रीपराशर उवाच ।पूरोर्जनमेजयस्तस्यापि प्रचिन्वान् प्रचिन्वतः प्रवीरः प्रवीरान्मनस्युर्मनस्योश्चाभयदः तस्यापि सुद्युस्सुद्यो र्बहुगतः तस्यापि संयातिस्संयातेरहंयातिः ततो रौद्रा श्वः १ ।
2ऋतेषुकक्षेषुस्थंडिलेषुकृतेषुजलेषुधर्मेषुधृतेषुस्थलेषुसन्नतेषुवनेषुनामानो रौद्रा श्वस्य दश पुत्रा बभूवुः २ ।
3ऋतेषोरंतिनारः पुत्रोऽभूत् ३ ।
4सुमतिमप्रतिरथं ध्रुवं चाप्यंतिनारः पुत्रानवाप ४ ।
5अप्रतिरथस्य कण्वः पुत्रोऽभूत् ५ ।
6तस्यापि मेधातिथिः ६ ।
7यतः कण्वायना द्विजा बभूवुः ७ ।
8अप्रतिरथस्यापरः पुत्रोऽभूदैलीनः ८ ।
9ऐलीनस्य दुष्यंताद्याश्चत्वारः पुत्रा बभूवुः ९ ।
10दुष्यंताच्चक्रवर्त्ती भरतोऽभूत् १० ।
11यन्नामहेतुर्देवैश्श्लोको गीयते ११ ।
12माता भस्त्र पितुः पुत्रो येन जातः स एव सः ।भरस्व पुत्रं दुष्यंतमावमंस्थाश्शकुंतलाम् १२ ।
13रेतोधाः पुत्रो नयति नरदेव यमक्षयात् ।त्वं चास्य धाता गर्भस्य सत्यमाह शकुंतला १३ ।
14भरतस्य पत्नित्रये नव पुत्रा बभूवुः १४ ।
15नैते ममानुरूपा इत्यभिहितास्तन्मातरः परित्यागभयात्तत्पुत्राञ्जघ्नुः १५ ।
16ततोस्य वितथे पुत्रजन्मनि पुत्रार्थिनो मरुत्सोमयाजिनो दीर्घतमसः पार्ष्ण्यपास्तद्बृहस्पतिवीर्यादुतथ्यपत्न्यां ममतायां समुत्पन्नो भरद्वाजाख्यः पुत्रो मरुद्भिर्दत्तः १६ ।
17तस्यापि नामनिर्वचनश्लोकः पठ्यते १७ ।
18मूढे भर द्वाजमिमं भरद्वाजं बृहस्पते ।यातौ यदुक्त्वा पितरौ भरद्वाजस्ततस्त्वयम् इति १८ ।
19भरद्वाजस्स तस्य वितथे पुत्रजन्मनि मरुद्भिर्दत्तः ततो वितथसंज्ञामवाप १९ ।
20वितथस्यापि मन्युः पुत्रोऽभवत् २० ।
21बृहत्क्षत्रमहावीर्यनगरगर्गा अभवन्मन्युपुत्राः २१ ।
22नगरस्य संकृतिस्संकृतेर्गुरुप्रीतिरंतिदेवौ २२ ।
23गर्गाच्छिनिः ततश्च गार्ग्याश्शैन्याः क्षत्रोपेता द्विजातयो बभूवु २३ ।
24महावीर्याच्च दुरुक्षयो नाम पुत्रोऽभवत् २४ ।
25तस्य त्रय्यारुणिः पुष्करिणः कपिश्च पुत्रत्रयमभूत् २५ ।
26तच्च पुत्रत्रितयमपि पश्चाद्विप्रतामुपजगाम २६ ।
27बृहत्क्षत्रस्य सुहोत्रः २७ ।
28सुहोत्राद्धस्ती य इदं हस्तिनपुरमावासयामास २८ ।
29अजमीढद्विजमीढपुरुमीढास्त्रयो हस्तिनस्तनयाः २९ ।
30अजमीढात्कण्वः ३० ।
31कण्वान्मेधातिथिः ३१ ।
32यतः कण्वायना द्विजाः ३२ ।
33अजमीढस्यान्यः पुत्रो बृहदिषुः ३३ ।
34बृहदिषोर्बृहद्धनुर्बृहद्धनुषश्च बृहत्कर्मा ततश्च जयद्र थस्तस्मादपिविश्वजित् ३४ ।
35ततश्च सेनजित् ३५ ।
36रुचिराश्वकाश्यदृढहनुवत्सहनुसंज्ञास्सेनजितः पुत्राः ३६ ।
37रुचिराश्वपुत्रः पृथुसेनः पृथुसेनात्पारः ३७ ।
38पारान्नीलः ३८ ।
39तस्यैकशतं पुत्राणाम् ३९ ।
40तेषां प्रधानः कांपिल्याधिपतिस्समरः ४० ।
41समरस्यापि पारसुपारसदश्वास्त्रयः पुत्राः ४१ ।
42सुपारात्पृथुः पृथोस्सुकृतेर्विभ्राजः ४२ ।
43तस्माच्चाणुहः ४३ ।
44यश्शुकदुहितरं कीर्त्तिं नामोपयेमे ४४ ।
45अणुहाद्ब्रह्यदत्तः ४५ ।
46ततश्च विष्वक्सेनस्तस्मादुदक्सेनः ४६ ।
47भल्लाभस्तस्य चात्मजः ४७ ।
48द्विजमीढस्य तु यवीनरसंज्ञः पुत्रः ४८ ।
49तस्यापि धृतिमांस्तस्माच्च सत्यधृतिस्ततश्च दृढनेमिस्तस्माच्च सुपार्श्वस्ततस्सुमतिस्ततश्च सन्नतिमान् ४९ ।
50सन्नतिमतः कृतः पुत्रोऽभूत् ५० ।
51यं हिरण्यनाभो योगमध्यापयामास ५१ ।
52यश्चतुर्विंशतिप्राच्यसामागानां संहिताश्चकार ५२ ।
53कृताच्चोग्रायुधः ५३ ।
54येन प्राचुर्येण नीपक्षयः कृतः ५४ ।
55उग्रायुधात्क्षेम्यः क्षेम्यात्सुधीरस्तस्माद्रि पुंजयः तस्माच्च बहुरथ इत्येते पौरवाः ५५ ।
56अजमीढस्य नलिनी नाम पत्नी तस्यां नीलसंज्ञः पुत्रोऽभवत् ५६ ।
57तस्मादपि शांतिः शांतेस्सुशांतिस्सुशांतेः पुरंजयः तस्माच्च ऋक्षः ५७ ।
58ततश्च हर्यश्वः ५८ ।
59तस्मान्मुद्गलसृंजयबृहदिषुयवीनरकांपिल्यसंज्ञाः पंचानामेव तेषां विषयाणां रक्षणायालमेते मत्पुत्रा इति पित्राभिहिताः पांचालाः ५९ ।
60मुद्गलाच्च मौद्गल्याः क्षत्रोपेता द्विजातयो बभूवुः ६० ।
61मुद्गलाद्धर्यश्वः ६१ ।
62हर्यश्वाद्दिवोदासोऽहल्या च मिथुनमभूत् ६२ ।
63शरद्वतश्चाहल्यायां शतानंदोऽभवत् ६३ ।
64शतानंदात्सत्यधृतिर्धनुर्वेदान्तगो जज्ञे ६४ ।
65सत्यधृतेर्वराप्सरसमुर्वशीं दृष्ट्वा रेतस्कन्नं शरस्तंबे पपात ६५ ।
66तच्च द्विधागतमपत्यद्वयं कुमारः कन्या चाभवत् ६६ ।
67तौ च मृगयामुपयातश्शंतनुर्दृष्ट्वा कृपया जग्राह ६७ ।
68ततः कुमारः कृपः कन्या चाश्वत्थाम्नो जननी कृपी द्रो णाचार्यस्य पत्न्यभवत् ६८ ।
69दिवोदासस्य पुत्रो मित्रायुः ६९ ।
70मित्रायोश्च्यवनो नाम राजा ७० ।
71च्यवनात्सुदासः सुदासात्सौदासः सौदासात्सहदेवस्तस्यापि सोमकः ७१ ।
72सोमकाज्जंतुः पुत्रशतज्येष्ठोऽभवत् ७२ ।
74तेषां यवीयान् पृषतः पृषताद्द्रु पदस्तस्माच्च धृष्टद्युम्नस्ततो धृष्टकेतुः ७३ अजमीढस्यान्यो ऋक्षनामा पुत्रोऽभवत् ७४ ।
75तस्य संवरणः ७५ ।
76संवरणात्कुरुः ७६ ।
77य इदं धर्मक्षेत्रं कुरुक्षेत्रं चकार ७७ ।
78सुधनुर्जह्नुपरीक्षित्प्रमुखाः कुरोः पुत्राः बभूवुः ७८ ।
79सुधनुषः पुत्रस्सुहोत्रस्तस्माच्च्यवनः च्यवनात्कृतकः ७९ ।
80ततश्चोपरिचरो वसुः ८० ।
81बृहद्र थप्रत्यग्रकुशांबकुचेलमात्स्यप्रमुखाः वसोः पुत्रास्सप्ताजायंत ८१ ।
82बृहद्र थात्कुशाग्रः कुशाग्राद्वृषभः वृषभात्पुष्पवान् तस्मात्सत्यहितः तस्मात्सुधन्वा तस्य च जतुः ८२ ।
83बृंहद्र थाच्चान्यश्शकलद्वयजन्मा जरया संधितो जरासंधनामा ८३ ।
84तस्मात्सहदेवस्सहदेवात्सोमपस्ततश्च श्रुतिश्रवाः ८४ ।
85इत्येते मया मागधा भूपालाः कथिताः ८५ ।
इति श्रीविष्णुमहापुराणे चतुर्थांश एकोनविंशोऽध्यायः १९।
Vishnu Purana by Maharshi Parashara, narrating to his disciple Maitreya (by tradition). Sanskrit text of all six amshas (126 adhyayas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Vishnu Purana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.