विष्णुपुराणम् · Amsha 3
अध्यायः ८
Ask AIमैत्रेय उवाचभगवन्भगवान्देवः संसारविजिगीषुभिः ।समाख्याहि जगन्नाथो विष्णुराराध्यते यथा ॥ ३,८.१ ॥
आराधिताच्च गोविन्दादाराधनपरैर्नरैः ।यत्प्राप्यते फलं श्रोतुं तच्चेच्छामि महामुने ॥ ३,८.२ ॥
श्रीपराशर उवाचयत्पृच्छति भवानेतत्सगरेण महात्मना ।और्वः प्राह यथा पृष्टस्तन्मे निगदतः शृणु ॥ ३,८.३ ॥
सगरः प्रणिपत्त्यैनमौर्वं पप्रच्छभार्गवम् ।विष्णोराराधनोपायसंबन्धं मुनिसत्तम ॥ ३,८.४ ॥
फलं चाराधिते विष्णो यत्पुंसामभिजायते ।स चाह पृष्टो यत्नेन तस्मै तन्मेखिलं शृणु ॥ ३,८.५ ॥
और्व उवाचभौमं मनोरथं स्वर्गं स्वर्गे रम्यं च यत्पदम् ।प्राप्नोत्याराधिते विष्णौ निर्वाणमपि चोत्तमम् ॥ ३,८.६ ॥
यद्यदिच्छति यावच्च फलमाराधितेऽच्युते ।तत्तदाप्नोति राजेन्द्र भूरि स्वल्पमथापि वा ॥ ३,८.७ ॥
यत्तु पृच्छसि भूपाल कथामाराध्यते हरिः ।तदहं सकलं तुभ्यं कथयामि निबोध मे ॥ ३,८.८ ॥
वर्णाश्रमाचारवता पुरुषेणपरः पुमान् ।विष्णुराराध्यते पन्था नान्यस्तत्तोषकारकः ॥ ३,८.९ ॥
यजन्यज्ञान्यजत्येनं जपन्त्येनं जपन्नृप ।निघ्नन्नन्यान्हिनस्त्येनं सर्वभूतो यतो हरिः ॥ ३,८.१० ॥
तस्मात्सदाचारवता पुरुषेण जनार्दनः ।आराध्यस्तु स्ववर्णोक्तधर्मानुष्ठानकारिमा ॥ ३,८.११ ॥
ब्राह्मणः क्षत्रियो वैश्यः शुद्रश्च पृथिवीपते ।स्वधर्मतत्परो विष्णुमाराधयति नान्यथा ॥ ३,८.१२ ॥
परापवादं पैशुन्यमनृतं च न भाषते ।अन्योद्वेगकरं वापि तोष्यते तेनकेशवः ॥ ३,८.१३ ॥
परदारपरद्रव्यपरहिंसासु यो रतिम् ।न करोति पुमान्भूप तोष्यते तेन केशवः ॥ ३,८.१४ ॥
न ताडयति नो हन्ति प्राणिनो न च हिंसकः ।यो मनुष्यो मनुष्येन्द्र तोष्यते तेन केशवः ॥ ३,८.१५ ॥
देवाद्विजगुरूणां च शुश्रूषासु सदोद्यतः ।तोष्यते तेन गोविन्दः पुरुषेणनरेश्वर ॥ ३,८.१६ ॥
यथात्मनि च पुत्रे च सर्वभूतेषु यत्तथा ।हितकामो हरिस्तेन सर्वदा तोष्यते सुखम् ॥ ३,८.१७ ॥
यस्य रागादिदोषेण न दुष्टं नृप मानसम् ।विशुद्धचेतसा विष्णुस्तोष्यते तेन सर्वदा ॥ ३,८.१८ ॥
वर्णाश्रमेषु ये धर्माः शास्त्रोक्ता मुनिसत्तम ।तेषु तिष्ठन्नरो विष्णुमादुष्टं नृप मानसम् ॥ ३,८.१९ ॥
सगर उवाचतदहं श्रोतुमिच्छमि वर्णधर्मानशेषतः ।तथैवाश्रमधर्मंश्च द्विजवर्य ब्रवीहि तान् ॥ ३,८.२० ॥
और्व उवाचब्राह्मणक्षत्रियविशां शुद्राणां च यथाकमम् ।त्वमेकाग्रमतिर्भूत्वा शृणु धर्मान्मयोदितान् ॥ ३,८.२१ ॥
दानं दद्याद्यजेद्देवान् यज्ञिः स्वाध्यायतत्परः ।नित्योदकी भवेद्विप्रः कुर्याच्चाग्निपरिग्रहम् ॥ ३,८.२२ ॥
वृत्त्यर्थं याजयेच्चान्यानन्यानध्यापयेत्तथा ।कुर्यात्प्रतिग्रहादानंशुक्लार्थान्न्यायतो द्विजः ॥ ३,८.२३ ॥
सर्वभूतहितं कुर्यान्नाहितं कस्याचिद्द्विजः ।मैत्री समस्तभूतेषु ब्राह्मणस्योत्तमं धनम् ॥ ३,८.२४ ॥
ग्राव्णिरत्ने च पारक्ये समबुद्धिर्भवेद्द्विजः ।ऋतावभिगमः पत्न्यां शस्तते चास्य पार्थिव ॥ ३,८.२५ ॥
दानानि दद्यादिच्छातो द्विजेभ्यः क्षत्रियोपि वा ।यजेच्च विविधैर्यज्ञैरधीयीत च पार्थिवः ॥ ३,८.२६ ॥
शस्त्राजीवो महीरक्षा प्रवरा तस्य जीविका ।तत्रापि प्रथमः कल्पः पृथिवीपरिपारनम् ॥ ३,८.२७ ॥
धरित्रीपालनेनैव कृतकृत्या नराधिपाः ।भवन्ति तृपतेरंशा यतो यज्ञादिकर्मणाम् ॥ ३,८.२८ ॥
दुष्टानां शासनाद्राजा शिष्टानां परिपालनात् ।प्राप्नोत्यभिमतांल्लोकान्वर्णसंस्थां करोति यः ॥ ३,८.२९ ॥
पाशुपाल्यं च वाणिज्यं कृषिं च मनुजेश्वर ।वैश्याय जीविकां ब्रह्मा ददौ लोकपितामहः ॥ ३,८.३० ॥
तस्याप्यध्ययनं यज्ञो दानं धर्मश्च शस्यते ।नित्यनैमित्तिकादीनामनुष्ठानं च कर्मणाम् ॥ ३,८.३१ ॥
द्विजातिसंश्रितं कर्म तादर्थ्यं तेन पोषणम् ।क्रयविक्रयजैर्वापि धनैः कारूद्भवेन वा ॥ ३,८.३२ ॥
शुद्रस्य सन्नतिः शौचं सेवा स्वामिन्यमायया ।अमन्त्रयज्ञो ह्यस्तेयं तत्संगो विप्ररक्षणम् ॥ ३,८.३३ ॥
दानं च दद्याच्छूद्रोपि पाकयज्ञैर्यजेत च ।पित्र्यादिकं च तत्सर्वं शुद्रः कुर्वीत तेन वै ॥ ३,८.३४ ॥
भृत्यादिभरणार्थाय सर्वेषां च परिग्रहः ।ऋतुकालेभिगमनं स्वदारेषु महीपते ॥ ३,८.३५ ॥
दया समस्तभूतेषु तितिक्षा नातिमानिता ।सत्यं शौचमनायासो मङ्गलं प्रियवादिता ॥ ३,८.३६ ॥
मैत्र्यस्पृहा तथा तद्वदकार्पण्यंनरेश्वर ।अनुसूया च सामान्यवर्णानां कथिता गुणाः ॥ ३,८.३७ ॥
आश्रमाणां च सर्वेषामेते सामान्यलक्षणाः ।गुणांस्तथावद्धर्मांश्च विप्रादीनामिमाञ्छृणु ॥ ३,८.३८ ॥
क्षात्त्रं कर्म द्विजस्योक्तं वैश्यं कर्म तथा पदि ।राजन्यस्य च वैश्योक्तं शूद्रकर्म न चैतयोः ॥ ३,८.३९ ॥
सामर्थ्ये सति तत्त्याज्यमुभाभ्यामपि पार्थिव ।तदेवापदि कर्तव्यं न कुर्यात्कर्मसंकरम् ॥ ३,८.४० ॥
इत्येते कथिता राजन्वर्णधर्मा मया तव ।धर्मानाश्रमिणां सम्यग्ब्रुवतो मे निशामय ॥ ३,८.४१ ॥
इति श्रीविष्णुमहापुराणे तृतीयांशेऽष्टमोध्यायः (८)
Vishnu Purana by Maharshi Parashara, narrating to his disciple Maitreya (by tradition). Sanskrit text of all six amshas (126 adhyayas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Vishnu Purana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.