Dharmasthan

India's Digital Home for Devotion

Dharmasthan
Bhakti LibraryEvents CalendarDharmaVerseJap CounterDharma AIContestsSansthas
HOST ROOM
MandalSign In
Dharmasthan

India's Digital Home for Devotion.

|| भक्ति· से ही शांति है ||

Hindu prayers, aarti and bhajan lyrics, mandals and festivals across India.

Explore

  • Bhakti Library
  • Aartis
  • Bhajans
  • Devotional Songs
  • Mantras
  • Stotrams
  • Chalisas
  • Shlokas
  • Stutis & Ashtakams
  • Vrat Kathas
  • Marathi Prayers
  • Hindi Prayers
  • Sanskrit Prayers
  • Videos
  • Hindu Stories
  • Holy Books
  • DharmaVerse
  • Events Calendar
  • By Deity
  • Festival Playlists
  • Upcoming Festivals
  • Jap Counter
  • Contests
  • Events

For Mandals

  • Mandal Login
  • Register Mandal
  • Discover Mandals
  • Donation Campaigns

About

  • About Us
  • Contact
  • Privacy Policy
  • Terms of Service
  • Consent Policy
  • Platform Admin

© 2026 Dharmasthan - devotion, in one place

Made with devotion in India

Home
Bhakti Library
Jap
DharmaVerse
  1. Home
  2. Bhakti Library
  3. Holy Books
  4. Vishnu Purana
  5. Amsha 1
  6. अध्यायः ४

विष्णुपुराणम् · Amsha 1

अध्यायः ४

संस्कृतEnglish
Ask AI

1श्रीमैत्रेय उवाच ।ब्रह्मानारायणाख्योऽसौ कल्पादौ भगवान्यथा ।ससर्ज सर्वभूतानि तदाचक्ष्व महामुने १ ।

2श्रीपराशर उवाच ।प्रजाः ससर्ज भगवान्ब्रह्मा नारायणात्मकः ।प्रजापतिपतिर्देवो यथा तन्मे निशामय २ ।

3अतीतकल्पावसाने निशासुप्तोत्थितः प्रभुः ।सत्त्वोद्रि क्तस्तथा ब्रह्मा शून्यं लोकमवैक्षत ३ ।

4नारायणः परोऽचिन्त्यः परोषामपि स प्रभुः ।ब्रह्मस्वरूपी भगवाननादिः सर्वसम्भवः ४ ।

5इमं चोदाहरन्त्यत्र श्लोकं नारायणं प्रति ।ब्रह्मस्वरूपिणं देवं जगतः प्रभवाप्ययम् ५ ।

6आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः ६ ।

7तोयान्तःस्थां महीं ज्ञात्वा जगत्येकार्णवीकृते ।अनुमानात्तदुद्धारं कर्तुकामः प्रजापतिः ७ ।

8अकरोत्स्वतनूमन्यां कल्पादिषु यथा पुरा ।सत्स्यकूर्मादिकां तद्वद्वाराहं वरुरास्थितः ८ ।

9वेदयज्ञमयं रूपमश्षोजगतः स्थितौ ।स्थितः स्थिरात्मा सर्वात्मा परमात्मा प्रजापतिः ९ ।

10जनलोकगतैस्सिद्धैस्सनकाद्यैरभिष्टुतः ।प्रविवेश तदा तोयमात्माधारो धराधरः १० ।

11निरीक्ष्य तं तदा देवी पातालातलमागतम् ।तुष्टाव प्रणता भूत्वा भक्तिनम्रा वसुन्धरा ११ ।

12श्रीपृथिव्युवाच ।नमस्ते पुण्डरीकाक्ष शंखचक्रगदाधर ।मामुद्धरास्मादद्य त्वं त्वत्तोऽहं पूर्वमुत्थिता १२ ।

13त्वयाहमुद्धृता पूर्वं त्वन्मयाहं जनार्दन ।तथान्यानि च भूतानि गगनादीन्यश्षोतः १३ ।

14नमस्ते परमात्मात्मन्पुरुषात्मन्नमोस्तु ते ।प्रधानव्यक्तभूताय कालभूताय ते नमः १४ ।

15त्वं कर्ता सर्वभूतानां त्वं पाता त्वं विनाशकृत् ।सर्गादिषु प्रभो ब्रह्मविष्णुरुद्रा त्मरूपधृक् १५ ।

16सम्भक्षयित्वा सकलं जगत्येकार्णवीकृते ।श्षोए! त्वमेव गोविंद चिन्त्यमानो मनीषिभिः १६ ।

17भवतो यत्परं तत्त्वं तन्न जानाति कश्चन ।अवतारेषु यद्रू पं तदर्चन्ति दिवौकसः १७ ।

18त्वामाराध्य परं ब्रह्म याता मुक्तिं मुमुक्षवः ।वासुदेवमनाराध्य को मोक्षं समवाप्स्यति १८ ।

19यत्किंचिन्मनसा ग्राह्यं यद्ग्राह्यं चक्षुरादिभिः ।बुद्ध्या च यत्परिच्छेद्यं तद्रू पमखिलं तव १९ ।

20त्वन्मयाहं त्वदाधारा त्वत्सृष्टा त्वत्समाश्रया ।माधवीमिति लोकोयमभिधत्ते ततो हि माम् २० ।

21जयाखिलज्ञानमय जय स्थूलमयाव्यय ।जयाऽनन्त जयाव्यक्त जय व्यक्तमय प्रभो २१ ।

22परापरात्मन्विश्वात्मञ्जय यज्ञपतेऽनघ ।त्वं यज्ञस्त्वं वषट्कारस्त्वमॐकारस्त्वमग्नयः २२ ।

23त्वं वेदास्त्वं तदङ्गानि त्वं यज्ञपुरुषो हरे ।सूर्यादयो ग्रहास्तारा नक्षत्राण्यखितं जगत् २३ ।

24मूर्तामूर्तमदृश्यं च दृश्यं च पुरुषोत्तम ।यच्चोक्तं यच्च नैवोक्तं मयात्र परमेश्वर ।तत्सर्वं त्वं नमस्तुभ्यं भूयोभूयो नमोनमः २४ ।

25श्रीपराशर उवाच ।एवं संस्तूयमानस्तु पृथिव्या धरणीधरः ।सामस्वरध्वनिः श्रीमाञ् जगर्ज परिघर्घरम् २५ ।

26ततः समुत्क्षिप्य धरां स्वदंष्ट्रया महावराहः स्फुटपद्मलोचनः ।रसातलादुत्पलपत्रसन्निभः समुत्थितो नील इवाचलो महान् २६ ।

27उत्तिष्ठता तेन मुखानिलाहतं तत्संभवाम्भो जनलोकसंश्रयान् ।प्रक्षालयामास हि तान्महाद्युतीन् सनान्दनादीनपकल्मषान् मुनीन् २७ ।

28प्रयान्ति तोयानि खुराग्रविक्षतरसातलेऽधः कृतशब्दसन्तति ।श्वासानिलास्ताः परितः प्रयांति सिद्धा जने ये नियता वसन्ति २८ ।

29उत्तिष्ठतस्तस्य जलार्द्र कुक्षेर्महावराहस्य महीं विगृह्य ।विधुन्वतो वेदमयं शरीरं रोमान्तरस्था मुनयः स्तुवन्ति २९ ।

30तं तुष्टुवुस्तोषपरीतचेतसो लोके जने ये निवसन्ति योगिनः ।सनन्दनाद्या ह्यतिनम्रकन्धरा धराधरं धीरतरोद्धतेक्षणम् ३० ।

31जयेश्वराणां परमेश केशव प्रभो गदाशंखधरासिचक्रधृक् ।प्रसूतिनाशस्थितिहेतुरीश्वरस्त्वमेव नान्यत्परमं च यत्पदम् ३१ ।

32पादेषु वेदास्तव यूपदंष्ट्रा दन्तेषु जज्ञाश्चितयश्च वक्त्रे ।हुताशजिह्वोसि तनूरुहाणि दर्भाः प्रभो यज्ञपुमांस्त्वमेव ३२ ।

33विलोचने रात्र्! यहनी महात्मन्सर्वाश्रयं ब्रह्मपरं शिरस्ते ।सूक्तान्यश्षोआ!णि सटाकलापो घ्राणं समस्तानि हवींषि देव ३३ ।

34स्रुक्तुण्डसामस्वरधीरनादप्राग्वंशकायाखिलसत्रसन्धे ।पूर्तेष्टधर्मश्रवणोसि देव सनातनात्मन्भगवन्प्रसीद ३४ ।

35पदक्रमाक्रान्तभुवं भवन्तमादिस्थितं चाक्षरविश्वमूर्ते ।विश्वस्य विद्मः परमेश्वरोऽसि प्रसीद नाथोसि परावरस्य ३५ ।

36दंष्ट्राग्रविन्यस्तमश्षोमेतद्भूमण्डलं नाथ विभाव्यते ते ।विगाहतः पद्मवनं विलग्नं सरोजिनीपत्रमिवोढपंकम् ३६ ।

37द्यावापृथिव्योरतुलप्रभाव यदन्तरं तद्वपुषा तवैव ।व्याप्तं जगद्व्याप्तिसमर्थदीप्ते हिताय विश्वस्य विभो भव त्वम् ३७ ।

38परमार्थस्त्वमेवैको नान्योस्ति जगतः पते ।तवैष महिमा येन व्याप्तमेतच्चराचरम् ३८ ।

39यदेतदृश्यते मूर्त्तमेतज्ज्ञानात्मनस्तव ।भ्रान्तिज्ञानेन पश्यन्ति जगद्रू पमयोगिनः ३९ ।

40ज्ञानस्वरूपमखिलं जगदेतदबुद्धयः ।अर्थस्वरूपं पश्यन्तो भ्राम्यन्ते मोहसंप्लवे ४० ।

41ये तु ज्ञानविदः शुद्धचेतसस्तेऽखिलं जगत् ।ज्ञानात्मकं प्रपश्यन्ति त्वद्रू पं परमेश्वर ४१ ।

42प्रसीद सर्व सर्वात्मन्भवाय जगतामिमाम् ।उद्धरोर्वीममेयात्मञ्छन्नो देह्यब्जलोचन ४२ ।

43सत्त्वोद्रि क्तोऽसि भगवन् गोविंद पृथिवीमिमाम् ।समुद्धर भवायेश शन्नो देह्यब्जलोचन ४३ ।

44सर्गप्रवृत्तिर्भवतो जगतामुपकारिणी ।भवत्वेषा नमस्तेऽस्तु शन्नो देह्यब्जलोचन ४४ ।

45श्रीपराशर उवाच।एवं संस्तूयमानस्तु परमात्मा महीधरः ।उज्जहार क्षितिं क्षिप्रं न्यस्तवांश्च महाम्भसि ४५ ।

46तस्योपरि जलौघस्य महती नौरिव स्थिता ।विततत्त्वात्तु देहस्य न मही याति संप्लवम् ४६ ।

47ततः क्षितिं समां कृत्वा पृथिव्यां सोचिनोद्गिरीन् ।यथाविभागं भगवाननादिः परमेश्वरः ४७ ।

48प्राक्यसर्गदग्धानखिलान्पर्वतान्पृथिवीतले ।अमोघेन प्रभावेण ससर्जामोघवाञ्छितः ४८ ।

49भूविभागं ततः कृत्वा सप्तद्वीपान्यथातथम् ।भूराद्यांश्चतुरो लोकान्पूर्ववत्समकल्पयत् ४९ ।

50ब्रह्मरूपधरो देवस्ततोऽसौ रजसा वृतः ।चकार सृष्टिं भगवांश्चतुर्वक्त्रधरो हरिः ५० ।

51निमित्तमात्रमेवाऽसौ सृज्यानां सर्गकर्मणि ।प्रधानकारणीभूता यतो वै सृज्यशक्तयः ५१ ।

52निमित्तमात्रं मुक्त्वैवं नान्यत्किंचिदपेक्षते ।नीयते तपतां श्रेष्ठ स्वशक्त्या वस्तु वस्तुताम् ५२ ।

इति श्रीविष्णुपुराणे प्रथमेंशो! पृथिव्युद्धारश्चतुर्थोऽध्यायः ४ ।

Vishnu Purana by Maharshi Parashara, narrating to his disciple Maitreya (by tradition). Sanskrit text of all six amshas (126 adhyayas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Vishnu Purana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.

अध्यायः ३अध्यायः ५

Related on Dharmasthan

  • Vishnu Purana: contents and about
  • Vishnu stotrams and aartis
  • Krishna bhajans and aartis
  • Om Jai Jagdish Hare
  • Vishnu Sahasranamavali
  • Why is Janmashtami celebrated?
  • Why is Narak Chaturdashi celebrated?
  • Bhagavad Gita
  • Mahabharata