Dharmasthan

India's Digital Home for Devotion

Dharmasthan
Bhakti LibraryEvents CalendarDharmaVerseJap CounterDharma AIContestsSansthas
HOST ROOM
MandalSign In
Dharmasthan

India's Digital Home for Devotion.

|| भक्ति· से ही शांति है ||

Hindu prayers, aarti and bhajan lyrics, mandals and festivals across India.

Explore

  • Bhakti Library
  • Aartis
  • Bhajans
  • Devotional Songs
  • Mantras
  • Stotrams
  • Chalisas
  • Shlokas
  • Stutis & Ashtakams
  • Vrat Kathas
  • Marathi Prayers
  • Hindi Prayers
  • Sanskrit Prayers
  • Videos
  • Hindu Stories
  • Holy Books
  • DharmaVerse
  • Events Calendar
  • By Deity
  • Festival Playlists
  • Upcoming Festivals
  • Jap Counter
  • Contests
  • Events

For Mandals

  • Mandal Login
  • Register Mandal
  • Discover Mandals
  • Donation Campaigns

About

  • About Us
  • Contact
  • Privacy Policy
  • Terms of Service
  • Consent Policy
  • Platform Admin

© 2026 Dharmasthan - devotion, in one place

Made with devotion in India

Home
Bhakti Library
Jap
DharmaVerse
  1. Home
  2. Bhakti Library
  3. Holy Books
  4. Vishnu Purana
  5. Amsha 1
  6. अध्यायः १९

विष्णुपुराणम् · Amsha 1

अध्यायः १९

संस्कृतEnglish
Ask AI

1श्रीपराशर उवाचहिरण्यकशिपुः श्रुत्वा तां कृत्यां वितथीकृताम् ।आहूय पुत्रं पप्रच्छ प्रभावस्यास्य कारणम् १ ।

2हिरण्यकशिपुरुवाच ।प्रह्लाद सुप्रभावोसि किमेतत्ते विचेष्टितम् ।एतन्मंत्रादिजनितमुताहो सहजं तव २ ।

3श्रीपराशर उवचा।एवं पृष्टस्तदा पित्रा प्रह्लादोऽसुरबालकः ।प्रणिपत्य पितुः पादाविदं वचनमब्रवीत् ३ ।

4न मंत्रादिकृतं तात न च नैसर्गिको मम ।प्रभाव एष सामान्यो यस्य यस्याच्युतो हृदि ४ ।

5अन्येषां यो न पापानि चिन्तयत्यात्मनो यथा ।तस्य पापागमस्तात हेत्वभावान्न विद्यते ५ ।

6कर्मणा मनसा वाचा परिपीडां करोति यः ।तद्बीजं जन्म फलति प्रभूतं तस्य चाशुभम् ६ ।

7सोहं न पापमिच्छामि न करोमि वदामि वा ।चिन्तयन्सर्वभूतस्थमात्मन्यपि च केशवम् ७ ।

8शारीरं मानसं दुःखं दैवं भूतभवं तथा ।सर्वत्र शुभचित्तस्य तस्य मे जायेत कुतः ८ ।

9एवं सर्वेषु भूतेषु भक्तिरव्यभिचारिणी ।कर्तव्या पण्डितैर्ज्ञात्वा सर्वभूतमयं हरिम् ९ ।

10श्रीपराशर उवाच ।इति श्रुत्वा स दैत्येन्द्र ः! प्रासादशिखरे स्थितः ।क्रोधान्धकारितमुखः प्राह दैतेयकिंकरान् १० ।

11हिरण्यकशिपुरुपाच ।दुरात्मा क्षिप्यतामस्मात्प्रासादाच्छतयोजनात् ।गिरिपृष्ठे पतत्वस्मिन् शिलाभिन्नाङ्गसंहतिः ११ ।

12ततस्तं चिक्षुपुः सर्वे बालं दैतेयदानवाः ।पपात सोप्यधः क्षिप्तो हृदयेनोद्वहह्नरिम् १२ ।

13पतमानं जगद्धात्री जगद्धातरि केशवे ।भक्तियुक्तं दधारैनमुपसंगम्य मेदिनी १३ ।

14ततो विलोक्य तं स्वस्थमविशिर्णास्थिपञ्जरम् ।हिरण्यकशिपुः प्राह शम्बरं मायिनां वरम् १४ ।

15हिरण्यकशिपुरुपाच ।नास्माभिः शक्यते हन्तुमसौ दुर्बुद्धिबालकः ।मायां वेत्ति भवांस्तस्मान्माययैनं निषूदय १५ ।

16शम्बर उवाच।सूदयाम्येव दैत्येन्द्र पश्य मायाबलं मम ।सहस्रमत्र मायानां पश्य कोटिशतं तथा १६ ।

17श्रीपराशर उवाच ।ततः स ससृजे मायां प्रह्लादे शम्बरोऽसुरः ।विनाशमिच्छन्दुर्बुद्धिः सर्वत्र समदर्शिनि १७ ।

18समाहितमतिर्भूत्वा शम्बरेपि विमत्सरः ।मैत्रेय सोपि प्रह्लादः सस्मार मधुसूदनम् १८ ।

19श्रीपराशर उवाच।ततो भगवता तस्य रक्षार्थं चक्रमुत्तमम् ।आजगाम समाज्ञप्तं ज्वालामालि सुदर्शनम् १९ ।

20तेन मायासहस्रं तच्छम्बरस्याशुगामिना ।बालस्य रक्षता देहमेकैकं चारिशोधितम् २० ।

21संशोषकं तथा वायुं दैत्येन्द्र स्त्विदमब्रवीत् ।शीघ्रमेष ममादेशाद्दुरात्मा नीयतां क्षयम् २१ ।

22तथेत्युक्त्वा तु सोप्येनं विवेश पवनो लघु ।शीतोतिरूक्षः शोषाय तद्देहस्यातिदुः सहः २२ ।

23तेनाविष्टमथात्मानं स बुद्ध्वा दैत्यबालकः ।हृदयेन महात्मानं दधार धरणीधरम् २३ ।

24हृदयस्थस्ततस्तस्य तं वायुमतिभीषणम् ।पपौ जनार्दनः क्रुद्धः स ययौ पवनः क्षयम् २४ ।

25क्षीणासुत सर्वमायासु पवने च क्षयं गते ।जगाम सोपि भवनं गुरोरेव महामतिः २५ ।

26अहन्यहन्यथापाचार्यो नीतिं राज्यफलप्रदाम् ।ग्राहयामास तं बालं राज्ञामुसनसा कृताम् २६ ।

27गृहीतनीतिशास्त्रं तं विनीतं च यदा गुरुः ।मेने तदैनं तत्पित्रे कथयामास शिक्षितम् २७ ।

28आचार्य उवाच।गृहीतनीतिशास्त्रस्ते पुत्रो दैत्यपते कृतः ।प्रह्लादस्तत्त्वतो वेत्ति भार्गवेण यदीरितम् २८ ।

29हिरण्यकशिपुरुवाच ।मित्रेषु वर्तेत कथमरिवर्गेषु भूपतिः ।प्रह्लाद त्रिषु लोकेषु मध्यस्थेषु कथं चरेत् २९ ।

30कथं मंत्रिष्वमात्येषु बाह्येष्वाभ्यंतरेषु च ।चारेषु पौरवर्गेषु शङ्कितेष्वितरेषु च ३० ।

31कृत्याकृत्यविधानञ्च दुर्गाटविकसाधनम् ।प्रह्लाद कथ्यतां सम्यक् तथा कण्टकशोधनम् ३१ ।

32एतच्चान्यच्च सकलमधीतं भवता यथा ।तथा मे कथ्यतां ज्ञातुं तवेच्छामि मनोगतम् ३२ ।

33श्रीपराशर उवाच ।प्रणिपत्य पितुः पादौ तदा प्रश्रयभूषणः ।प्रह्लादः प्राह दैत्येन्द्रं कृतांजलिपुटस्तथा ३३ ।

34प्रह्लाद उवाच ।ममो पदिष्टं सकलं गुरुणा नात्र संशयः ।गृहीतन्तु मया किन्तु न सदेतन्मतम्मम ३४ ।

35साम चोपप्रदानं च भेददण्डौ तथापरौ ।उपायाः कथिताः सर्वे मित्रादिनां च साधने ३५ ।

36तानेवाहं न पश्यामि मित्रादींस्तात मा क्रुधः ।साध्याभावे महाबाहो साधनैः किं प्रयोजनम् ३६ ।

37सर्वभूतात्मके तात जगन्नाथे जगन्मये ।परमात्मनि गोविन्दे मित्रामित्रकथा कुतः ३७ ।

38त्वय्यस्ति भगवातन् विष्णुर्मयि चान्यत्र चास्ति सः ।यतस्ततोयं मित्रं मे शत्रुश्चेति पृथक्कुतः ३८ ।

39तदेभिरलमत्यर्थं दुष्टारम्भोक्तिविस्तरैः ।अविद्यान्तर्गतैर्यत्नः कर्त्तव्यस्तात शोभने ३९ ।

40विद्याबुद्धिरविद्यायामज्ञानान्तात जायते ।बालोग्निं किं न खद्योतमसुरेश्व मन्यते ४० ।

41तत्कर्म यन्न बन्धाय सा विद्या या विमुक्तये ।आयासायापरं कर्म विद्यान्या शिल्पनैपुणम् ४१ ।

42तदेतदवगम्याहमसारं सारमुत्तमम् ।निशामय महाभाग प्रणिपत्य ब्रवीमि ते ४२ ।

43न चिन्तयति को राज्यं को धनं नाभिवाञ्छति ।तथापि भाव्यमेवैतदुभयं प्राप्यते नरैः ४३ ।

44सर्व एव महाभाग महत्त्वं प्रति सोद्यमाः ।तथापि पुंसां भाग्यानि नोद्यमा भूतिहेतवः ४४ ।

45जडानामविवेकानामशूराणमपि प्रभो ।भाग्यभोज्यानि राज्यानि सन्त्यनीतिमतामपि ४५ ।

46तस्माद्यतेत पुण्येषु य इच्छेन्महतीं श्रियम् ।यतितव्यं समत्वे च निर्वाणमपि चेच्छता ४६ ।

47देवा मनुष्याः पशवः पक्षिवृक्षसरीसृपाः ।रूपमेतदनन्तस्य विष्णोर्भिन्नमिव स्थितम् ४७ ।

48एतद्विजानता सर्वं जगत्स्थावरजङ्गमम् ।द्र ष्टव्यमात्मवद्विष्णुर्यतोयं विश्वरूपधृक् ४८ ।

49एवं ज्ञाते स भगवाननादिः परमेश्वरः ।प्रसीदत्यच्युतस्तस्मिन्प्रसन्ने क्लेशसंक्षयः ४९ ।

50श्रीपराशर उवाच ।एतच्छ्रुत्वा तु कोपेन समुत्थाय वरासनात् ।हिरण्यकशिपुः पुत्रं पदा वक्षस्यताडयत् 1.19.५० ।

51उवाच च स कोपेन सामर्षः प्रज्वलन्निव ।निष्पिष्य पाणिना पाणिं हन्तुकामो जगद्यथा ५१ ।

52हिरण्यकशिपुरुवाच ।हे विप्रचित्ते हे राहो हे बलैष महार्णवे ।नागपाशैर्दृढैर्बद्धा क्षिप्यतां मा विलंब्यताम् ५२ ।

53अन्यथा सकला लोकास्तथा दैतेयदानवाः ।अनुयास्यन्ति मूढस्य मतमस्य दुरात्मनः ५३ ।

54बहुशो वारि तोस्माभिरयं पापस्तथाप्यरेः ।स्तुतिं करोति दुष्टानां वध एवोपकारकः ५४ ।

55पराशर उवाच।ततस्ते सत्वरा दैत्या बद्धा तं नागबन्धनैः ।भर्तुराज्ञां पुरस्कृत्य चिक्षिपुः सलिलार्णवे ५५ ।

56ततश्चचाल चलता प्रह्लादेन महार्णवः ।उद्वेलोभूत्परं क्षोभमुपेत्य च समन्ततः ५६ ।

57भूर्लोकमखिलं दृष्ट्वा प्लाव्यमानं महाम्भसा ।हिरण्यकशिपुर्दैत्यानिदमाह महामते ५७ ।

58हिरण्यकशिपुरुवाच।दैतेयाः सकलैः शैलैरत्रैव वरुणालये ।निश्छिद्रै ः! सर्वशः सर्वैश्चीयतामेष दुर्मतिः ५८ ।

59नाग्निर्दहति नैवायं शस्त्रैश्छिन्नो न चोरगैः ।क्षयं नीतो न वातेन न विषेण न कृत्यया ५९ ।

60न मायाभिर्न चैवोच्चात्पातितो न च दिग्गजैः ।बालोतिदुष्टचित्तोयं नानेनार्थोस्ति जीवता ६० ।

61तदेष तोयमध्ये तु समाक्रान्तो महीधरैः ।तिष्ठत्वब्दसहस्रान्तं प्राणान्हास्यति दुर्मतिः ६१ ।

62ततो दैत्यादानवाश्च पर्वतैस्तं महोदधौः ।आक्रम्य चयनं चक्रुर्योजनानि सहस्रशः ६२ ।

63स चितः पर्वतैरन्तः समुद्र स्य महामतिः ।तुष्टावाह्निकवेलायामेकाग्रमतिरच्युतम् ६३ ।

64प्रह्लाद उवाच ।नमस्ते पुण्डरीकाक्ष नमस्ते पुरुषोत्तम ।नमस्ते सर्वलोकात्मन्नमस्ते तिग्मचक्रिणे ६४ ।

65नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ।जगद्धिताय कृष्णाय गोविन्दाय नमोनमः ६५ ।

66ब्रह्मत्वे सृजते विश्वं स्थितौ पालयते पुनः ।रुद्र रूपाय कल्पान्ते नमस्तुभ्यं त्रिमूर्तये ६६ ।

67देवा यक्षाः सुराः सिद्धा नागा गन्धर्वकिन्नराः ।पिशाचा राक्षसाश्चैव मनुष्याः पशवस्तथा ६७ ।

68पक्षिणस्थावराश्चैव पिपीलिकसरीसृपाः ।भूम्यापोग्निर्नभोवायुः शब्दः स्पर्शस्तथा रसः ६८ ।

69रूपं गन्धो मनो बुद्धिरात्मा कालस्तथा गुणाः ।एतेषां परमार्थश्च सर्वमेतत्त्वमच्युत ६९ ।

70विद्याविद्ये भवान्सत्यमसत्यं त्वं विषामृते ।प्रवृत्तं च निवृत्तं च कर्म वेदोदितं भवान् ७० ।

71समस्तकर्मभोक्ता च कर्मोपकरणानि च ।त्वमेव विष्णो सर्वाणि सर्वकर्मफलं च यत् ७१ ।

72मय्यन्यत्र तथान्येषु भूतेषु भुवनेषु च ।तवैवाव्याप्तिरैश्वर्यगुणसंसूचिकी प्रभो ७२ ।

73त्वां योगिनश्चिंतयन्ति त्वां यजंति च याजकाः ।हव्यकव्यभुगेकस्त्वं पितृदेवस्वरूपधृक् ७३ ।

74रूपं महत्ते स्थितमत्र विश्वं ततश्च सूक्ष्मं जगदेतदीश ।रूपामि सर्वाणि च भूतभेदास्तेष्वन्तरात्माख्यमतीव सूक्ष्मम् ७४ ।

75तस्माच्च सूक्ष्मादिविश्षोणानामगोचरे यत्परमात्मरूपम् ।किमप्यचिन्त्यं तव रूपमस्ति तस्मै नमस्ते पुरुषोत्तमाय ७५ ।

76सर्वभूतेषु सर्वात्मन्या शक्तिरपरा तव ।गुणाश्रया नमस्तस्यै शाश्वतायै सुरेश्वर ७६ ।

77यातीतगोचरा वाचां मनसां चाविश्षोणा ।ज्ञानिज्ञानपरिच्छेद्या तां वन्दे स्वेश्वरीं पराम् ७७ ।

78ॐ नमो वासुदेवाय तस्मै भगवते सदा ।व्यतिरिक्तं न यस्यास्ति व्यतिरिक्तोखिलस्य यः ७८ ।

79नमस्तस्मै नमस्तस्मै नमस्तस्मै महात्मने ।नाम रूपं न यस्यैको योस्तित्वेनोपलभ्यते ७९ ।

80यस्यावताररूपाणि समर्चन्ति दिवौकसः ।अपश्यन्तः परं रूपं नमस्तस्मै महात्मने ८० ।

81योन्तस्तिष्ठन्नशेषस्य पश्यतीशः शुभाशुभम् ।तं सर्वसाक्षिणं विश्वं नमस्ये परमेश्वरम् ८१ ।

82नमोस्तु विष्णवे तस्मै यस्या भिन्नमिदं जगत् ।ध्येयः स जगतामाद्यः स प्रसीदतु मेऽव्ययः ८२ ।

83यत्रोतमेतत्प्रोतं च विश्वमक्षरमव्ययम् ।आधारभूतः सर्वस्य स प्रसीदतु मे हरिः ८३ ।

84ॐ नमो विष्णवे तस्मै नमस्तस्मै पुनः पुनः ।यत्र सर्वं यतः सर्वं यः सर्वसंश्रयः ८४ ।

85सर्वगत्वादनन्तस्य स एवाहमवस्थितः ।मत्तः सर्वमहं सर्वं मयि सर्वं सनातने ८५ ।

86अहमेवाक्षयो नित्यः परमात्मात्मसंश्रयः ।ब्रह्मसंज्ञोऽहमेवाग्रे तथान्ते च परः पुमान् ८६ ।

इति श्रीविष्णुपुराणे प्रथमेंश एकोनविंशतितमोऽध्यायः १९।

Vishnu Purana by Maharshi Parashara, narrating to his disciple Maitreya (by tradition). Sanskrit text of all six amshas (126 adhyayas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Vishnu Purana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.

अध्यायः १८अध्यायः २०

Related on Dharmasthan

  • Vishnu Purana: contents and about
  • Vishnu stotrams and aartis
  • Krishna bhajans and aartis
  • Om Jai Jagdish Hare
  • Vishnu Sahasranamavali
  • Why is Janmashtami celebrated?
  • Why is Narak Chaturdashi celebrated?
  • Bhagavad Gita
  • Mahabharata