विष्णुपुराणम् · Amsha 1
अध्यायः १३
Ask AI1श्रीपराशर उवाच। 1.13ध्रुवाच्छिष्टिं च भव्यं च भव्याच्छम्भुर्व्यजायत।शिष्टेराधत्त सुच्छाया पञ्चपुत्रानकल्मषान्। १।
2रिपुं रिपुञ्जयं विप्रं वृकलं वृकतेजसम्।रिपोराधत्त बृहती चाक्षुषं सर्वतेजसम्। २।
3अजीजनत्पुष्करिण्यां वारुण्यां चाक्षुषो मनुम्।प्रजापतेरात्मजायां वीरणस्य महात्मनः। ३।
4मनोरजायन्त दश नड्वलायां महौजसःकन्यायां तपतां श्रेष्ठ वैराजस्य प्रजापतेः। ४।
5कुरुः पुरुः शत द्युम्नस्तपस्वी सत्यवाञ्छुचिः।अग्निष्टोमोतिरात्रश्च सुद्युम्नश्चेति ते नव।अभिमन्युश्च दशमो नड्वलायां महौजसः। ५।
6कुरोरजनयत्पुत्रान् षडाग्नेयी महाप्रभान्।अङ्गं सुमनसं ख्यातिं क्रतुमङ्गिरसं शिबिम्। ६।
7अङ्गात्सुनीथापत्यं वै वेनमेकमजायत।प्रजार्थमृषयस्तस्य ममन्थुर्दक्षिणं करम्। ७।
8वेनस्य पाणौ मथिते सम्बभूव महामुने।वैन्यो नाम महीपालो यः पृथुः परिकीर्त्तितः। ८।
9येन दुग्धा मही पूर्वं प्रजानां हितकारणात्। ९।
10मैत्रेय उवाचकिमर्थं मथितः पाणिर्वेनस्य परमर्षिभिः।यत्र जज्ञे महावीर्यः स पृथुर्मुनिसत्तम। १०।
11श्रीपराशर उवाचसुनीथा नाम या कन्या मृत्यो प्रथमतोऽभवत्।अङ्गस्य भार्या सा दत्ता तस्यां वेनो व्यजायत। ११।
12स मातामहदोषेण तेन मृत्योः सुतात्मजः।निसर्गादेष मैत्रेय दुष्ट एव व्यजायत। १२।
13अभिषिक्तो यदा राज्ये स वेनः परमर्षिभिः।घोषयामास स तदा पृथिव्यां पृथिवीपतिः। १३।
14न यष्टव्यं न दातव्यं न होतव्यं कथञ्चन।भोक्ता यज्ञस्य कस्त्वन्योऽह्यहं यज्ञपतिः प्रभुः। १४।
15ततस्तमृषयः पूर्वं संपूज्यं पृथिवीपतिम्।ऊचुः सामाकलं वाक्यं मैत्रेय समपस्थिताः। १५।
16ऋषय ऊचुः।भोभो राजन् शृणुष्व त्वं यद्वदाम महीपते।राज्यं देहोपकाराय प्रजानां च हितं परम्। १६।
17दीर्घसत्रेण देवेशं सर्वयज्ञेश्वरं हरिम्।पूजयिष्याम भद्रं। ते तस्यांशस्ते भविष्यति। १७
18यज्ञेन यज्ञपुरुषो विष्णुः संप्रीणितो नृप।अस्माभिर्भवतः कामान्सर्वानेव प्रदास्यति। १८।
19यज्ञैर्यज्ञेश्वरो येषां राष्ट्रे संपूज्यते हरिः।तेषां सर्वेप्सितावाप्तिं ददाति नृप भूभृताम्। १९।
20वेन उवाचमत्तः कोऽभ्यधिकोन्योस्ति कश्चाराध्यो ममापरः।कोयं हरिरिति ख्यातो यो वो यज्ञेश्वरो मतः। २०।
21ब्रह्मा जनार्दनः शम्भुरिन्द्रो। वायुर्यमो रविः।हुतभुग्वरुणो धाता पूषा भूमिर्निंशाकरः। २१।
22एते चान्ये च ये देवाः शापानुग्रहकारिणः।नृपस्यैते शरीरस्थाः सर्वदेवमयो नृपः। २२।
23एवं ज्ञास्वा मयाज्ञप्तं यद्यथा क्रियतां तथा।न दातव्यं न यष्टव्यं न होतव्यं च भो द्विजाः। २३।
24भर्तृशुश्रूषणं धर्मो यथा स्त्रीणां परो मतःममाज्ञापालनं धर्मो भवतां च तथा द्विजाः। २४।
25ऋषय ऊचुःदेह्यनुज्ञां महाराज मा धर्मो यातु संक्षयम्।हविषां परिणामोऽयं यदेतदखिलं जगत्। २५।
26श्रीपराशर उवाचइति विज्ञाप्यमानोऽपि स वेनः परमर्षिभिः।यदा ददाति नानुज्ञां प्रोक्तः प्रोक्तः पुनः पुनः। २६।
27ततस्ते मुनयः सर्वे कोपामर्षसमन्विताः।हन्यतां हन्यतां पाप इत्यूचुस्ते परस्परम्। २७।
28यो यज्ञपुरुषं विष्णुमनादिनिधनं प्रभुम्।विनिन्दत्यधमाचारो न स योग्यो भुवः पतिः। २८।
29इत्युक्त्वा मंत्रपूतैस्तैः कुशैर्मुनिगणानृपम्।निजघ्नुर्निहतं पुर्वं भगवन्निन्दनादिना। २९।
30ततश्च मुनयो रेणुं ददृशुः सर्वतो द्विज।किमेतदिति चासन्नात्पप्रच्छुस्ते जनास्तदा। ३०।
31आख्यातं च जनैस्तेषां चोरीभूतैरराजके।राष्ट्रे तु लोकैरारब्धं परस्वादानमातुरैः। ३१।
32तेषामुदीर्णवेगानां चोराणां मुनिसत्तमाः।सुमहद्दृश्यते रेणुः परवित्तापहारिणाम्। ३२।
33ततः संमंत्र्! य ते सर्वे सुनयस्तस्य भूभृतः।ममन्थुरूरुं पुत्रार्थमनपत्यस्य यत्नतः। ३३।
34मथ्यमानात्समुत्तस्थौ तस्योरोः पुरुषः किल।दग्धस्थूणाप्रतीकाशः खल्वाटास्योतिह्रस्वकः। ३४।
35किं करोमीति तान्सर्वान्स विप्रानाह चातुरः।निषीदेति तमूचुस्ते निषादस्तेन सोऽभवत्। ३५।
36ततस्तत्संभवा जाता विन्ध्यशैलनिवासिनः।निषादा मुनिशार्दूल पापकर्मोपलक्षणाः। ३६।
37तेन द्वारेण तत्पापं निष्क्रान्तं तस्य भूपतेः।निषादास्ते ततो जाता वेनकल्मषनाशनाः। ३७।
38तस्यैव दक्षिणं हस्तं ममन्थुस्ते ततो द्विजाः। ३८।
39मथ्यमाने च तत्राभूत्पृथुर्वैन्यः प्रतापवान्।दीप्यमानः स्ववपुषा साक्षादग्निरिव ज्वलन्। ३९
40आद्यमाजगवं नाम खात्पपात ततो धनुः।शराश्च दिव्या नभसः कवचं च पपात ह। ४०।
41तस्मिन् जाते तु भूतानि संप्रहृष्टानि सर्वशः। ४१।
42सत्पुत्रेणैव जातेन वेनोपि त्रिदिवं ययौ।पुन्नाम्नो नरकात् त्रातः सुतेन सुमहात्मना। ४२।
43तं समुद्रा श्च नद्यश्च रत्नान्यादाय सर्वशः।तोयानि चाभिषेकार्थं सर्वाण्येवोपतस्थिरे। ४३।
44पितामहश्च भगवान्देवैराङ्गिरसैः सह।स्थावराणि च भूतानि जङ्गमानि च सर्वशः।समागम्य तदा वैन्यमभ्यसिञ्चन्नराधिपम्। ४४।
45हस्ते तु दक्षिणे चक्रं दृष्ट्वा तस्य पितामहः।विष्णोरंशं पृथुं मत्वा परितोषं परं ययौ। ४५।
46विष्णुचक्र करे चिह्नं सर्वेषां चक्रवर्तिनाम्।भवत्यव्याहतो यस्य प्रभावस्त्रिदशैरपि। ४६।
47महता राजराज्येन पृथुर्वैन्यः प्रतापवान्।सोभिषिक्तो महातेजा विधिवद्धर्मको विदै। ४७।
48पित्रा पराजितास्तस्य प्रजास्तेनानुरञ्जिताः।अनुरागात्ततस्तस्य नाम राजेत्यजायत। ४८।
49आपस्तस्तंभिरे चास्य समुद्र मभियास्यतः।पर्वताश्च ददुर्मार्गं ध्वजभङ्गश्च नाभवत्। ४९।
50अकृष्टपच्या पृथिवी सिद्धन्त्यन्नानि चिंतया।सर्वकामदुघा गावः पुटके पुटके मधु। ५०।
51तस्य वै जातमात्रस्य यज्ञे पैतामहे शुभे।सूतः सूत्यां समुत्पन्नः सौत्येऽहनि महामतिः। ५१।
52तस्मिन्नेव महायज्ञेजज्ञे प्राज्ञेऽथ मागधः।प्रोक्तौ तदा मुनिवरैस्तावुभौ सूतमागधौ। ५२।
53स्तूयतामेष नृपतिः पृथुर्वैन्यः प्रतापवान्।कर्मैतदनुरूपं वां पात्रं स्तोत्रस्य चापरम्। ५३।
54ततस्तावूचतुर्विप्रान्सर्वानेव कृताञ्जली।अद्य जातस्य नो कर्म ज्ञायतेस्य महीपतेः। ५४।
55गुणा न चास्य ज्ञायन्ते न चास्य प्रथितं यशः।स्तोत्रं किमाश्रयं त्वस्य कार्यमस्माभिरुच्यताम्। ५५।
56ऋषय ऊचुः।करिष्यत्येष यत्कर्म चक्रवर्ती महाबलः।गुणा भविष्या ये चास्य तैरयं स्तूयतां नृपः। ५६।
57श्रीपराशर उवाचततः स नृपतिस्तोषं तच्छ्रत्वा परमं ययौ।सद्गुणैः श्लाघ्यतामेति तस्माच्छ्लाघ्या गुणा मम। ५७।
58तस्माद्यदद्य स्तोत्रेण गुणनिर्वर्णनं त्विमौ।करिष्येते करिष्यामि तदेवाहं समाहितः। ५८।
59यदिमौ वर्जनीयं च किंचिदत्र वदिष्यतः।तदहं वर्जयिष्यामीत्येवं चक्रे मतिं नृपः। ५९।
60अथ तौ चक्रतुः स्तोत्रं पृथोर्वैन्यस्य धीमतः।भविष्यैः कर्मभिः सम्यक्सुस्वरौ सूतमागधौ। ६०।
61सत्यवाग्दानशीलोयं सत्यसन्धो नरेश्वरः।ह्रीमान्मैत्रः क्षमाशीलो विक्रान्तो दुष्टशासनः। ६१।
62धर्मज्ञश्च कृतज्ञश्च दयावान् प्रियभाषकः।मान्यान्मानयिता यज्वा ब्रह्मण्यः साधुसम्मतः। ६२।
63समः शत्रौ च मित्रे च व्यवहारस्थितौ नृपः। ६३
64सूतेनोक्तान् गुणानित्थं स तदा मागधेन च।चकार हृदि तादृक् च कर्मणा कृतवानसौ। ६४।
65ततस्तु पृथिवीपालः पालयन्पृथिवीमिमाम्।इयाज विविधैर्यज्ञैर्महद्भिर्भूरिदक्षिणैः। ६५।
66तं प्रजाः पृथिवीनाथमुपतस्थुः क्षुधार्दिताः।ओषधीषु प्रणष्टासु तस्मिन्काले ह्यराजके।तमूचुस्ते नताः पृष्टास्तत्रागमनकारणम्। ६६।
67प्रजा ऊचुःअराजके नृपश्रेष्ठ धरित्र्! या सकलौषधीः।ग्रस्तास्ततः क्षयं यान्ति प्रजाः सर्वाः प्रजेश्वर। ६७।
68त्वन्नो वृत्तिप्रदो धात्रा प्रजापालो निरूपितः।देहि नः क्षुत्परीतानां प्रजानां जीवनौषधीः। ६८।
69श्रीपराशर उवाचततस्तु नपतिर्दिव्यमादायजगवं धनुः।शरांश्च दिव्यान्कुपितः सोन्वधावद्वसुन्धराम्। ६९।
70ततो ननाश त्वरिता गौर्भूत्वा च वसुन्धरा।सा लोकान्ब्रह्मलोकादीन्संत्रासादगमन्मही। ७०।
71यत्र यत्र ययौ देवी सा तदा भूतधारिणी।तत्र तत्र तु सा वैन्यं ददृशो!ऽभ्युद्यतायुधम्। ७१।
72ततस्तं प्राह वसुधा पृथुं राजपराक्रमम्।प्रवेपमाना तद्बाणपरित्राणपरायणा। ७२।
73पृथिव्युवाचस्त्रीवधे त्वं महापापं किं नरेन्द्र। न पश्यसि।येन मां हंतुमत्यर्थं प्रकरोषि नृपोद्यमम्। ७३।
74पृथुरुवाचएकस्मिन् यत्र निधनं प्रापिते दुष्टकारिणि।बहूनां भवति क्षेमं तस्य पुण्यप्रदो वधः। ७४
75पृथिव्युवाचप्रजानामुपकाराय यदि मां त्वं हनिष्यसिआधारः कः प्रजानां ते नृपश्रेष्ठ भविष्यति। ७५।
76पृथुरुवाचत्वां हत्वा वसुधे बाणैर्मच्छासनपराङ्मुखीम्।आत्मयोगबलेनेमा धारयिष्याम्यहं प्रजाः। ७६।
77श्रीपराशर उवाचततः प्रणम्य वसुधा तं भूयः प्राह पार्थिवम्।प्रवेपिताङ्गी परमं साध्वसं समुपागता। ७७।
78पृथिव्युवाचउपायतः समारब्धाः सर्वे सिद्ध्यन्त्युपक्रमाः।तस्माद्वदाम्युपायं ते तं कुरुष्व यदीच्छसि। ७८।
79समस्ता या मया जीर्णा नरनाथ महौषधीः।यदीच्छसि प्रदास्यामि ताः क्षीरपरिणामिनीः। ७९।
80तस्मात्प्रजाहितार्थाय मम धर्मभृतां वर।तं तु वत्सं कुरुष्व त्वं क्षरेयं येन वत्सला। ८०।
81समां च कुरु सर्वत्र येन क्षीरं समंततः।वरौषधीबीजभूतं बीजं सर्वत्र भावये। ८१।
82श्रीपराशर उवाचतत उत्सारयामास शैलान् शतसहस्रशः।धनुष्कोट्या पदा वैन्यस्तेन शैला विवर्द्धिताः। ८२।
83न हि पूर्वविसर्गे वै विषमे पृथिवीतले।प्रविभागः पुराणां वा ग्रामाणां वा पुराऽभवत्। ८३।
84न सस्यानि न गोरक्ष्यं न कृषिर्न वणिक्पथः।वैन्यात्प्रभृति मैत्रेय सर्वस्यैतस्य सम्भवः। ८४।
85यत्रयत्र समं त्वस्य भूमेरासीद्द्विजोत्तम।तत्रतत्र प्रजाः सर्वा निवासं समरोचयत्। ८५।
86आहारः फलमूलानि प्रजानामभवत्तदा।कृच्छ्रेण महता सोपि प्रणष्टास्वौषदीषु वै। ८६।
87स कल्पयित्वा वत्सं तु मनुं स्वायंभुवं प्रभुम्।स्वपाणौ पृथिवीनाथो दुदोह पृथिवीं पृथुः।सस्यजातानि सर्वाणि प्रजानां हितकाम्यया। ८७।
88तेनान्नेन प्रजास्तात वर्तन्तेद्यापि नित्यशः। ८८।
89प्राणप्रदाता स पृथुर्यस्माद्भूमेरभूत्पिता।ततस्तु पृथिवीसंज्ञामवापाखिलधारिणी। ८९
90ततश्च देवैर्मुनिभिर्दैत्यै रक्षोभिरद्रि भिः।गन्धर्वैरुरगैर्यक्षैः पितृभिस्तरुभिस्तथा। ९०।
91तत्तत्पात्रमुपादाय तत्तद्दुग्धं मुने पयः।वत्सदोग्धृविश्षोआ!श्च तेषां तद्योनयोऽभवन्। ९१।
92सैषा धात्री विधात्री च धारिणी पोषणी तथा।सर्वस्य तु ततः पृथ्वी विष्णुपादतलोद्भवा। ९२।
93एवं प्रभावस्स पृथुः पुत्रो वैन्यस्य वीर्यवान्।जज्ञे महीपतिः पूर्वो राजाभूज्जनरञ्जनात्। ९३।
94य इदं जन्म वैन्यस्य पृथोः संकीर्त्तरेन्नरः।न तस्य दुष्कृतं किंचित्फलदायि प्रजायते। ९४।
95दुस्स्वप्नोपशमं नॄणां शृण्वतामेतदुत्तमम्।पृथोर्जन्म प्रभावश्च करोति सततं नृणाम्। ९५।
इति श्रीविष्णुपुराणे प्रथमेंशे त्रयोदशोध्यायः।। १३
Vishnu Purana by Maharshi Parashara, narrating to his disciple Maitreya (by tradition). Sanskrit text of all six amshas (126 adhyayas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Vishnu Purana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.