ऋग्वेदसंहिता · Mandala 9
सूक्तम् ९.१३
Ask AIऋषिः — कश्यपोऽसितो देवलो वा · दे. पवमानः सोमः। गायत्री।
सोमः पुनानो अर्षति सहस्रधारो अत्यविः ।वायोरिन्द्रस्य निष्कृतम् ॥१॥
पवमानमवस्यवो विप्रमभि प्र गायत ।सुष्वाणं देववीतये ॥२॥
पवन्ते वाजसातये सोमाः सहस्रपाजसः ।गृणाना देववीतये ॥३॥
उत नो वाजसातये पवस्व बृहतीरिषः ।द्युमदिन्दो सुवीर्यम् ॥४॥
ते नः सहस्रिणं रयिं पवन्तामा सुवीर्यम् ।सुवाना देवास इन्दवः ॥५॥
अत्या हियाना न हेतृभिरसृग्रं वाजसातये ।वि वारमव्यमाशवः ॥६॥
वाश्रा अर्षन्तीन्दवोऽभि वत्सं न धेनवः ।दधन्विरे गभस्त्योः ॥७॥
जुष्ट इन्द्राय मत्सरः पवमान कनिक्रदत् ।विश्वा अप द्विषो जहि ॥८॥
अपघ्नन्तो अराव्णः पवमानाः स्वर्दृशः ।योनावृतस्य सीदत ॥९॥
Rigveda by the Vedic rishis (seers), each named with their hymns. Sanskrit text of the Samhita (1,028 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Rigveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.