ऋग्वेदसंहिता · Mandala 9
सूक्तम् ९.११०
Ask AIऋषिः — त्र्यरुणस्त्रैवृष्ण्यः त्रसदस्युः पौरुकुत्स्यः · दे. पवमानः सोमः। १-३ पिपीलिकामध्या अनुष्टुप्, ४-९ ऊर्ध्वबृहती, १०-१२ विराट् ।
पर्यू षु प्र धन्व वाजसातये परि वृत्राणि सक्षणिः ।द्विषस्तरध्या ऋणया न ईयसे ॥१॥
अनु हि त्वा सुतं सोम मदामसि महे समर्यराज्ये ।वाजाँ अभि पवमान प्र गाहसे ॥२॥
अजीजनो हि पवमान सूर्यं विधारे शक्मना पयः ।गोजीरया रंहमाणः पुरंध्या ॥३॥
अजीजनो अमृत मर्त्येष्वाँ ऋतस्य धर्मन्नमृतस्य चारुणः ।सदासरो वाजमच्छा सनिष्यदत् ॥४॥
अभ्यभि हि श्रवसा ततर्दिथोत्सं न कं चिज्जनपानमक्षितम् ।शर्याभिर्न भरमाणो गभस्त्योः ॥५॥
आदीं के चित्पश्यमानास आप्यं वसुरुचो दिव्या अभ्यनूषत ।वारं न देवः सविता व्यूर्णुते ॥६॥
त्वे सोम प्रथमा वृक्तबर्हिषो महे वाजाय श्रवसे धियं दधुः ।स त्वं नो वीर वीर्याय चोदय ॥७॥
दिवः पीयूषं पूर्व्यं यदुक्थ्यं महो गाहाद्दिव आ निरधुक्षत ।इन्द्रमभि जायमानं समस्वरन् ॥८॥
अध यदिमे पवमान रोदसी इमा च विश्वा भुवनाभि मज्मना ।यूथे न निष्ठा वृषभो वि तिष्ठसे ॥९॥
सोमः पुनानो अव्यये वारे शिशुर्न क्रीळन्पवमानो अक्षाः ।सहस्रधारः शतवाज इन्दुः ॥१०॥
एष पुनानो मधुमाँ ऋतावेन्द्रायेन्दुः पवते स्वादुरूर्मिः ।वाजसनिर्वरिवोविद्वयोधाः ॥११॥
स पवस्व सहमानः पृतन्यून्सेधन्रक्षांस्यप दुर्गहाणि ।स्वायुधः सासह्वान्सोम शत्रून् ॥१२॥
Rigveda by the Vedic rishis (seers), each named with their hymns. Sanskrit text of the Samhita (1,028 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Rigveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.