ऋग्वेदसंहिता · Mandala 8
सूक्तम् ८.९१
Ask AIऋषिः — आत्रेयी अपाला · दे. इन्द्रः । अनुष्टुप्, १-२ पङ्क्तिः ।
कन्या वारवायती सोममपि स्रुताविदत् ।अस्तं भरन्त्यब्रवीदिन्द्राय सुनवै त्वा शक्राय सुनवै त्वा ॥१॥
असौ य एषि वीरको गृहंगृहं विचाकशद् ।इमं जम्भसुतं पिब धानावन्तं करम्भिणमपूपवन्तमुक्थिनम् ॥२॥
आ चन त्वा चिकित्सामोऽधि चन त्वा नेमसि ।शनैरिव शनकैरिवेन्द्रायेन्दो परि स्रव ॥३॥
कुविच्छकत्कुवित्करत्कुविन्नो वस्यसस्करत् ।कुवित्पतिद्विषो यतीरिन्द्रेण संगमामहै ॥४॥
इमानि त्रीणि विष्टपा तानीन्द्र वि रोहय ।शिरस्ततस्योर्वरामादिदं म उपोदरे ॥५॥
असौ च या न उर्वरादिमां तन्वं मम ।अथो ततस्य यच्छिरः सर्वा ता रोमशा कृधि ॥६॥
खे रथस्य खेऽनसः खे युगस्य शतक्रतो ।अपालामिन्द्र त्रिष्पूत्व्यकृणोः सूर्यत्वचम् ॥७॥
Rigveda by the Vedic rishis (seers), each named with their hymns. Sanskrit text of the Samhita (1,028 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Rigveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.