ऋग्वेदसंहिता · Mandala 8
सूक्तम् ८.८८
Ask AIऋषिः — नोधा गौतमः · दे. इन्द्रः। प्रगाथः - (विषमा बृहती, समा सतोबृहती)
तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः ।अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे ॥१॥
द्युक्षं सुदानुं तविषीभिरावृतं गिरिं न पुरुभोजसम् ।क्षुमन्तं वाजं शतिनं सहस्रिणं मक्षू गोमन्तमीमहे ॥२॥
न त्वा बृहन्तो अद्रयो वरन्त इन्द्र वीळवः ।यद्दित्ससि स्तुवते मावते वसु नकिष्टदा मिनाति ते ॥३॥
योद्धासि क्रत्वा शवसोत दंसना विश्वा जाताभि मज्मना ।आ त्वायमर्क ऊतये ववर्तति यं गोतमा अजीजनन् ॥४॥
प्र हि रिरिक्ष ओजसा दिवो अन्तेभ्यस्परि ।न त्वा विव्याच रज इन्द्र पार्थिवमनु स्वधां ववक्षिथ ॥५॥
नकिः परिष्टिर्मघवन्मघस्य ते यद्दाशुषे दशस्यसि ।अस्माकं बोध्युचथस्य चोदिता मंहिष्ठो वाजसातये ॥६॥
Rigveda by the Vedic rishis (seers), each named with their hymns. Sanskrit text of the Samhita (1,028 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Rigveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.