ऋग्वेदसंहिता · Mandala 8
सूक्तम् ८.४७
Ask AIऋषिः — त्रित आप्त्यः · दे. आदित्याः, १४-१८ आदित्योषसः(दुःस्वप्नघ्नं) । महापङ्क्तिः
महि वो महतामवो वरुण मित्र दाशुषे ।यमादित्या अभि द्रुहो रक्षथा नेमघं नशदनेहसो व ऊतयः सुऊतयो व ऊतयः ॥१॥
विदा देवा अघानामादित्यासो अपाकृतिम् ।पक्षा वयो यथोपरि व्यस्मे शर्म यच्छतानेहसो व ऊतयः सुऊतयो व ऊतयः ॥२॥
व्यस्मे अधि शर्म तत्पक्षा वयो न यन्तन ।विश्वानि विश्ववेदसो वरूथ्या मनामहेऽनेहसो व ऊतयः सुऊतयो व ऊतयः ॥३॥
यस्मा अरासत क्षयं जीवातुं च प्रचेतसः ।मनोर्विश्वस्य घेदिम आदित्या राय ईशतेऽनेहसो व ऊतयः सुऊतयो व ऊतयः ॥४॥
परि णो वृणजन्नघा दुर्गाणि रथ्यो यथा ।स्यामेदिन्द्रस्य शर्मण्यादित्यानामुतावस्यनेहसो व ऊतयः सुऊतयो व ऊतयः ॥५॥
परिह्वृतेदना जनो युष्मादत्तस्य वायति ।देवा अदभ्रमाश वो यमादित्या अहेतनानेहसो व ऊतयः सुऊतयो व ऊतयः ॥६॥
न तं तिग्मं चन त्यजो न द्रासदभि तं गुरु ।यस्मा उ शर्म सप्रथ आदित्यासो अराध्वमनेहसो व ऊतयः सुऊतयो व ऊतयः ॥७॥
युष्मे देवा अपि ष्मसि युध्यन्त इव वर्मसु ।यूयं महो न एनसो यूयमर्भादुरुष्यतानेहसो व ऊतयः सुऊतयो व ऊतयः ॥८॥
अदितिर्न उरुष्यत्वदितिः शर्म यच्छतु ।माता मित्रस्य रेवतोऽर्यम्णो वरुणस्य चानेहसो व ऊतयः सुऊतयो व ऊतयः ॥९॥
यद्देवाः शर्म शरणं यद्भद्रं यदनातुरम् ।त्रिधातु यद्वरूथ्यं तदस्मासु वि यन्तनानेहसो व ऊतयः सुऊतयो व ऊतयः ॥१०॥
आदित्या अव हि ख्यताधि कूलादिव स्पशः ।सुतीर्थमर्वतो यथानु नो नेषथा सुगमनेहसो व ऊतयः सुऊतयो व ऊतयः ॥११॥
नेह भद्रं रक्षस्विने नावयै नोपया उत ।गवे च भद्रं धेनवे वीराय च श्रवस्यतेऽनेहसो व ऊतयः सुऊतयो व ऊतयः ॥१२॥
यदाविर्यदपीच्यं देवासो अस्ति दुष्कृतम् ।त्रिते तद्विश्वमाप्त्य आरे अस्मद्दधातनानेहसो व ऊतयः सुऊतयो व ऊतयः ॥१३॥
यच्च गोषु दुष्वप्न्यं यच्चास्मे दुहितर्दिवः ।त्रिताय तद्विभावर्याप्त्याय परा वहानेहसो व ऊतयः सुऊतयो व ऊतयः ॥१४॥
निष्कं वा घा कृणवते स्रजं वा दुहितर्दिवः ।त्रिते दुष्वप्न्यं सर्वमाप्त्ये परि दद्मस्यनेहसो व ऊतयः सुऊतयो व ऊतयः ॥१५॥
तदन्नाय तदपसे तं भागमुपसेदुषे ।त्रिताय च द्विताय चोषो दुष्वप्न्यं वहानेहसो व ऊतयः सुऊतयो व ऊतयः ॥१६॥
यथा कलां यथा शफं यथ ऋणं संनयामसि ।*एवा दुष्वप्न्यं सर्वमाप्त्ये सं नयामस्यनेहसो व ऊतयः सुऊतयो व ऊतयः ॥१७॥
अजैष्माद्यासनाम चाभूमानागसो वयम् ।उषो यस्माद्दुष्वप्न्यादभैष्माप तदुच्छत्वनेहसो व ऊतयः सुऊतयो व ऊतयः ॥१८॥
Rigveda by the Vedic rishis (seers), each named with their hymns. Sanskrit text of the Samhita (1,028 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Rigveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.