ऋग्वेदसंहिता · Mandala 7
सूक्तम् ७.५०
Ask AIऋषिः — मैत्रावरुणिर्वसिष्ठः · दे. १ मित्रावरुणौ, २ अग्निः, ३ विश्वे देवाः, ४ नद्यः। जगती, ४ अतिजगती शक्वरी वा ।
आ मां मित्रावरुणेह रक्षतं कुलाययद्विश्वयन्मा न आ गन् ।अजकावं दुर्दृशीकं तिरो दधे मा मां पद्येन रपसा विदत्त्सरुः ॥१॥
यद्विजामन्परुषि वन्दनं भुवदष्ठीवन्तौ परि कुल्फौ च देहत् ।अग्निष्टच्छोचन्नप बाधतामितो मा मां पद्येन रपसा विदत्त्सरुः ॥२॥
यच्छल्मलौ भवति यन्नदीषु यदोषधीभ्यः परि जायते विषम् ।विश्वे देवा निरितस्तत्सुवन्तु मा मां पद्येन रपसा विदत्त्सरुः ॥३॥
याः प्रवतो निवत उद्वत उदन्वतीरनुदकाश्च याः ।ता अस्मभ्यं पयसा पिन्वमानाः शिवा देवीरशिपदा भवन्तु सर्वा नद्यो अशिमिदा भवन्तु ॥४॥
Rigveda by the Vedic rishis (seers), each named with their hymns. Sanskrit text of the Samhita (1,028 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Rigveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.